कालिदासविरचिते रघुवंशे सप्तदशः सर्गः



ऐथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादं इव चेतना । । १७.१ । ।
स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ । । १७.२ । ।
तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिं अग्राहयत्पिता । । १७.३ । ।
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यतैकं आत्मानं अनेकं वशिना वशी । । १७.४ । ।
स कुलोचितं इन्द्रस्य साहायकं उपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन सोऽवधि । । १७.५ । ।
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कं इव क्ॐउदी । । १७.६ । ।
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी । । १७.७ । ।
तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः ।
स्मरन्तः पश्चिमां आज्ञां भर्तुः संग्रामयायिनः । । १७.८ । ।
ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः ।
विमानं नवं उद्वेदि चतुःस्तम्भप्रतिष्टं । । १७.९ । ।
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितं । । १७.१० । ।
नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति । । १७.११ । ।
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन् । । १७.१२ । ।
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
उपचक्रमिरे पूर्वं अभिषेक्तुं द्विजातयः । । १७.१३ । ।
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
सशब्दं अभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः । । १७.१४ । ।
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः ।
प्रवृद्ध इव प्रजन्यः चातकैरभिनन्दितः । । १७.१५ । ।
तस्य सन्मन्त्रपूताभिः स्नानं अद्भिः प्रतीच्छतः ।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः । । १७.१६ । ।
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावत्तेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः । । १७.१७ । ।
ते प्रीतमनसस्तस्मै यां आशिषं उदीरयन् ।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः । । १७.१८ । ।
बन्धच्छेदं स बद्धानां वधार्हाणां अवध्यतां ।
धुर्याणां च धुरो मोक्षं अदोहं चादिषद्गवां । । १७.१९ । ।
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् । । १७.२० । ।
ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि ।
सोत्तरच्छदं अध्यास्त नेपथ्यग्रहणाय सः । । १७.२१ । ।
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।
आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः । । १७.२२ । ।
तेऽ स्य मुक्तागुणोन्नद्धं मौलिं अन्तर्गतस्रजं ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना । । १७.२३ । ।
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्त्रं विन्यस्तरोचनं । । १७.२४ । ।
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः । । १७.२५ । ।
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव । । १७.२६ । ।
स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभां । । १७.२७ । ।
वितानसहितं तत्र भेजे पैतृकं आसनं ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षितां । । १७.२८ । ।
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महथ् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवं । । १७.२९ । ।
बभौ भूयः कुमारत्वादाधिराज्यं अवाप्य सः ।
रेखा भावादुपारूढः सामग्र्यं इव चन्द्रमाः । । १७.३० । ।
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणं ।
मूर्तिमन्तं अमन्यन्त विश्वासं अनुजीविनः । । १७.३१ । ।
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजां ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा । । १७.३२ । ।
तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतं । । १७.३३ । ।
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः ।
सोऽतीत्य तेजसां वृत्तिं समं एवोत्थितो गुणैः । । १७.३४ । ।
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवं । । १७.३५ । ।
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः । । १७.३६ । ।
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः । । १७.३७ । ।
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः । । १७.३८ । ।
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयं ।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः । । १७.३९ । ।
ततः परं अभिव्यक्तास्ॐअनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः । । १७.४० । ।
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः । । १७.४१ । ।
यदुवाच न तन्मिथ्या यद्ददौ न जहार तथ् ।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् । । १७.४२ । ।
वयोरूपविभूतीनां एकैकं मदकारणं ।
तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः । । १७.४३ । ।
इत्थं जनितरागासु प्रकृतिष्वनुवासरं ।
अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः । । १७.४४ । ।
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः सोऽभ्यन्तरान्नित्यान्षट्पूर्वं अजयद्रिपून् । । १७.४५ । ।
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीरासीदनपायिनी । । १७.४६ । ।
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं ।
अतः सिद्धिं समेताभ्यां उभाभ्यां अन्वियेष सः । । १७.४७ । ।
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टं अभवत्किंचिद्व्यभ्रस्येव विवस्वतः । । १७.४८ । ।
रात्रिंदिवविभागेषु यदादिष्टं महीक्षितां ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः । । १७.४९ । ।
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते । । १७.५० । ।
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि । । १७.५१ । ।
दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषां ।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः । । १७.५२ । ।
बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे । । १७.५३ । ।
अपथेन प्रववृते न जातूपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः । । १७.५४ । ।
कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयथ् । । १७.५५ । ।
शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः । । १७.५६ । ।
न धर्मं अर्थकामाभ्यां बबाधे न च तेन तौ ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु । । १७.५७ । ।
हीनान्यनुपकर्तःणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि श्तापितान्यतः । । १७.५८ । ।
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलं ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा । । १७.५९ । ।
कोशेनाश्रयणीयत्वं इति तस्यार्थसंग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते । । १७.६० । ।
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् । । १७.६१ । ।
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत । । १७.६२ । ।
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसं । । १७.६३ । ।
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु । । १७.६४ । ।
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वं आश्रमैश्चक्रे वर्णैरपि षड्संशभाक् । । १७.६५ । ।
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशं एव भूः । । १७.६६ । ।
स गुणानां बलानां च षण्णां षण्मुखविक्रमः ।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु । । १७.६७ । ।
इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधां ।
आ तीर्थादप्रतीघातं स तस्याः फलं आनशे । । १७.६८ । ।
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी । । १७.६९ । ।
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः । । १७.७० । ।
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तसमवृद्धिश्च न चाभूत्ताविव क्षयी । । १७.७१ । ।
सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः ।
उदधेरिव जीमूताः प्रापुर्दातृत्वं अर्थिनः । । १७.७२ । ।
स्तूयमानः स जिह्राय स्तुत्यं एव समाचरन् ।
तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः । । १७.७३ । ।
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः । । १७.७४ । ।
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरं । । १७.७५ । ।
पराभिसंधानपरं यद्यप्यस्य विचेष्टितं ।
जिगीषोरश्वमेधाय धर्म्यं एव बभूव तथ् । । १७.७६ । ।
एवं उद्यन्प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः । । १७.७७ । ।
पञ्चमं लोकपालानां तं ऊचुः साम्ययोगतः ।
भूतानां महतां षष्ठं अष्टमं कुलभूभृतां । । १७.७८ । ।
दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पितां ।
दधुः शिरोभिर्भूपाला देवः पौरंदरीं इव । । १७.७९ । ।
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणीभूतं नामास्य धनदस्य च । । १७.८० । ।
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणां ।
पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः । । १७.८१ । ।
इति कालिदासविरचिते रघुवंशे सप्तदशः सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)