कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः



कृतसीतापरित्यागः स रत्नाकरमेखलां ।
बुभूजे पृथिवीपालः पृथिवीं एव केवलां । । १५.१ । ।
लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः । । १५.२ । ।
अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं । । १५.३ । ।
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां ।
धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः । । १५.४ । ।
ते रामाय वधोपायं आचख्युर्विबुधविषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति । । १५.५ । ।
आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ् । । १५.६ । ।
यः कश्चन रघूणां हि परं एकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः । । १५.७ । ।
अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी ।
ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः । । १५.८ । ।
रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ् । । १५.९ । ।
आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान् । । १५.१० । ।
तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने । । १५.११ । ।
तं ऋषिः पूजयां आस कुमारं क्लान्तवाहनं ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः । । १५.१२ । ।
तस्यां एवास्य यामिन्यां अन्तर्वत्नी प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः । । १५.१३ । ।
संतानश्रवणाद्भ्रातुः स्ॐइत्रिः स्ॐअनस्यवान् ।
प्राञ्जलिर्मुनिं आमन्त्र्य प्रातर्युक्तरथो ययौ । । १५.१४ । ।
स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करं इवादाय सत्त्वराशिं उपस्थितः । । १५.१५ । ।
धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः । । १५.१६ । ।
अपशुलं तं आसाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां । । १५.१७ । ।
नातिपर्याप्तं आलक्ष्य मत्कुक्षेरद्य भोजनं ।
दिष्ट्या त्वं असि मे धात्रा भीग्तेनेवोपपादितः । । १५.१८ । ।
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुं उत्पाटयां आस मुस्तास्तम्बं इव द्रुमं । । १५.१९ । ।
स्ॐइत्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः । । १५.२० । ।
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितं । । १५.२१ । ।
ऐन्द्रं अस्त्रं उपादाय शत्रुघ्नेन स ताडितः ।
सिकताभ्योऽपि हि परां प्रपेदे परमाणुतां । । १५.२२ । ।
दक्षिणं दोषं उद्यम्य राक्षसस्तं उपाद्रवथ् ।
एकताल इवोपातपवनप्रेरितो गिरिः । । १५.२३ । ।
कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनां । । १५.२४ । ।
वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः ।
तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः । । १५.२५ । ।
स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यं आत्मानं इन्द्रजिद्वधशोभिनः । । १५.२६ । ।
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः । । १५.२७ । ।
उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः । । १५.२८ । ।
या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता । । १५.२९ । ।
तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीं ।
हेम भक्तिमतीं भूमेः प्रवेणीं इव प्रिपिये । । १५.३० । ।
सखा दशरथस्याथ जनकस्य च मन्त्रकृथ् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि । । १५.३१ । ।
स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः । । १५.३२ । ।
साङ्गं च वेदं अध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयां आस कविप्रथमपद्धतिं । । १५.३३ । ।
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ । । १५.३४ । ।
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः । । १५.३५ । ।
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः । । १५.३६ । ।
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगाथ् ।
मैथिलीतनयोद्गीतनिष्पन्दमृगं आश्रमं । । १५.३७ । ।
वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीं ।
लवणस्य वधात्पौरैरतिगौरवं ईक्षितः । । १५.३८ । ।
स ददर्श सभामध्ये सभासद्भिरुपस्थितं ।
रामं सीतापरित्यागादसामण्यपतिं भुवः । । १५.३९ । ।
तं अभ्यनन्दत्प्रणतं लवणान्तकं अग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणं । । १५.४० । ।
स पृष्टः सर्वतो वार्त्तां आख्याद्राज्ञे न संततिं ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनाथ् । । १५.४१ । ।
अथ जानपदो विप्रः शिशुं अप्राप्तयौवनं ।
अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः । । १५.४२ । ।
शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।
रामहस्तं अनुप्राप्य कष्टात्कष्टतरं गता । । १५.४३ । ।
श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदं अस्पृशथ् । । १५.४४ । ।
स मुहूर्तं सहस्वेति द्विजं आश्वास्य दुःखितं ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया । । १५.४५ । ।
आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती । । १५.४६ । ।
राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तं अन्विष्य प्रशमयेर्भवितासि ततः कृती । । १५.४७ । ।
इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियां ।
दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना । । १५.४८ । ।
अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनं ।
ददर्श कंचिदैक्श्वाकस्तपस्यन्तं अध्ॐउखं । । १५.४९ । ।
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनं । । १५.५० । ।
तपस्यनधिकारित्वात्प्रजानां तं अघावहं ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे । । १५.५१ । ।
स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं इव पङ्कजं ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरथ् । । १५.५२ । ।
कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिं ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना । । १५.५३ । ।
रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना । । १५.५४ । ।
कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहं ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयं । । १५.५५ । ।
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः । । १५.५६ । ।
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयां आस त्रातुर्वैवस्वतादपि । । १५.५७ । ।
तं अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यं इवाम्भोभिरभ्यवर्षन्नुपायनैः । । १५.५८ । ।
दिग्भ्यो निमन्त्रिताश्चैनं अभिजग्मुर्महर्षयः ।
न भ्ॐआन्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि । । १५.५९ । ।
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः । । १५.६० । ।
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी । । १५.६१ । ।
विधेरधिकसंभारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः । । १५.६२ । ।
अथ प्राचेतसोपज्ञं रामायणं इतस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ । । १५.६३ । ।
वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुं अलं स्यातां न शृण्वतां । । १५.६४ । ।
रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितं ।
ददर्श सानुजो रामः शुश्राव च कुतूहली । । १५.६५ । ।
तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली । । १५.६६ । ।
वयोवेषविसंवादि रामस्य च तयोश्च सा ।
जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत । । १५.६७ । ।
उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा । । १५.६८ । ।
गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिं अशंसतां । । १५.६९ । ।
अथ सावरजो रामः प्राचेतसं उपेयिवान् ।
उरिक्र्त्यात्मनो देहं राज्यं अस्मै न्यवेदयथ् । । १५.७० । ।
स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहं । । १५.७१ । ।
तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः । । १५.७२ । ।
ताः स्वचारित्रं उद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीं एनां प्रतिपत्स्ये तदाज्ञया । । १५.७३ । ।
इति प्रतिश्रुते राज्ञा जानकीं आस्रमान्मुनिः ।
शिष्यैरानाययां आस स्वसिद्धिं नियमैरिव । । १५.७४ । ।
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविं आह्वाययां आस प्रस्तुतप्रतिपत्तये । । १५.७५ । ।
स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः । । १५.७६ । ।
काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
कविं आह्वाययां आस शान्तेन वपुषैव सा । । १५.७७ । ।
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः । । १५.७८ । ।
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से स्ववृत्ते लोकं इत्यशाथ् । । १५.७९ । ।
अथ वाल्मीक्शिष्येण पुण्यं आवर्जितं पयः ।
आचम्योदीरयां आस सीता सत्यां सरस्वतीं । । १५.८० । ।
वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि मां अन्तर्धातुं अर्हसि । । १५.८१ । ।
एवं उक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदं इव ज्योतिः प्रभामण्डलं उद्ययौ । । १५.८२ । ।
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा । । १५.८३ । ।
सा सीतां अङ्कं आरोप्य भर्तरि प्रहितेक्षणां ।
मा मेति व्याहरत्येव तस्मिन्पातालं अभ्यगाथ् । । १५.८४ । ।
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः ।
गुरुर्विधिबलापेक्षी शमयां आस धन्विनः । । १५.८५ । ।
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः । । १५.८६ । ।
युधाजितस्तु संदेशात्स देश सिन्धुनामकं ।
ददौ दत्तप्रभावाय भरताय धृतप्रजः । । १५.८७ । ।
भरतस्तत्र गन्धर्वान्युधि निजित्य केवलं ।
आतोद्यं ग्राहयां आस समत्याजयदायुधं । । १५.८८ । ।
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकं अगात्पुनः । । १५.८९ । ।
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ । । १५.९० । ।
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमाथ् । । १५.९१ । ।
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवं ।
रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति । । १५.९२ । ।
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवं अध्यास्व शासनात्परमेष्ठिनः । । १५.९३ । ।
विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनथ् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः । । १५.९४ । ।
स गत्वा सरयूतीरं देहत्यागेन योगविथ् ।
चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः । । १५.९५ । ।
तस्मिन्नात्मचतुर्भागे प्राङ्नाकं अधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव । । १५.९६ । ।
स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशं ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवं । । १५.९७ । ।
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जं अयोध्यया । । १५.९८ । ।
जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः । । १५.९९ । ।
उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनां । । १५.१०० । ।
यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जतां ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे । । १५.१०१ । ।
स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरं अकल्पयथ् । । १५.१०२ । ।
निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुं अविशत्सर्वलोकप्रतिष्ठां ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयं इव गिरौ दक्षिणे चोत्तरे च । । १५.१०३ । ।

इति कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी