कालिदासविरचिते रघुवंशे अष्टादशः सर्गः




स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यं आहुर्निषधाख्यं एव । । १८.१ । ।
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन । । १८.२ । ।
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
क्ॐउद्वतेयः कुमुदावदातैर्द्यां अर्जितां कर्मभिरारुरोह । । १८.३ । ।
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपोअत्रां भुवं एकवीरः पुरार्गलादीर्घभुजो बुभोज । । १८.४ । ।
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः । । १८.५ । ।
नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभ्ॐआसं इव प्रजानां । । १८.६ । ।
तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं ।
मृगैरजर्यं जरस्पोदैष्टं अदेहबन्धाय पुनर्बबन्ध । । १८.७ । ।
तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः ।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षं इवाश्रिता श्रीः । । १८.८ । ।
स क्षेमधन्वानं अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षं ।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार । । १८.९ । ।
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूथ् ।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य । । १८.१० । ।
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव । । १८.११ । ।
पूर्वस्तयोरात्मसमे चिरोढां आत्मोद्भवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकं । । १८.१२ । ।
वशी सुतस्तस्य वशंवदत्वात्स्वेषां इवासीद्द्विषतां अपीष्टः ।
सकृद्(?) विविग्नानपि हि प्रयुक्तं माधुर्यं ईष्टे हरिणान्ग्रहीतुं । । १८.१३ । ।
अहीनगुर्नाम स गां समग्रां अहीनबाहुद्रविणः शशास ।
यो हीन संसर्गपराङ्मुखत्वाद्माधुर्यं ईष्टे हरिणान्ग्रहीतुं । । १८.१४ । ।
गुरोः स चानन्तरं अन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव । । १८.१५ । ।
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयं ।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रं । । १८.१६ । ।
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतां अव्रजदीड्यमानः । । १८.१७ । ।
तं आत्मसंपन्नं अनिन्दितात्मा कृत्वा युवानं युवराजं एव ।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञां उपरुद्धवृत्तं । । १८.१८ । ।
तं रागबन्धिष्ववितृप्तं एव भोगेषु सौभाग्यविशेषभोग्यं ।
विलासिनीनां अरतिक्षमापि जरा वृथा मत्सरिणी जहार । । १८.१९ । ।
उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य । । १८.२० । ।
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः ।
बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः । । १८.२१ । ।
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणं अर्णवान्ता ।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः । । १८.२२ । ।
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदं अश्विरूपः ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वं आहुः । । १८.२३ । ।
आराध्य विश्वेश्वरं ईश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे ।
पातुं सहो विश्वसखः समग्रां विश्वंभरां आत्मजमूर्तिरात्मा । । १८.२४ । ।
अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः ।
द्विषां असह्यः सुतरां तरूणां हिरण्यरेता सानिलोऽभूथ् । । १८.२५ । ।
पिता पितःणां अनृणस्तं अन्ते वयस्यनन्तानि सुखानि लिप्सुः ।
राजानं आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव । । १८.२६ । ।
कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य ।
तस्यौरसः स्ॐअसुतः सुतोऽभून्नेत्रोत्सवः स्ॐअ इव द्वितीयः । । १८.२७ । ।
कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिं आजगाम ।
ब्रह्मिष्ठं आधाय निजेऽधिकारे ब्रह्मिष्ठं एव स्वतनुप्रसूतं । । १८.२८ । ।
यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्कां ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः । । १८.२९ । ।
पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयदग्रसंख्यां । । १८.३० । ।
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृषन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वं आप । । १८.३१ । ।
तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यं असूत पत्नी ।
यस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये । । १८.३२ । ।
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य योगं अजन्मनेऽकल्पत जन्मभीरुः । । १८.३३ । ।
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीं ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतां अरीणां । । १८.३४ । ।
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः । । १८.३५ । ।
स्वर्गामिनस्तस्य तं ऐकमत्यादमात्यवर्गः कुलतन्तुं एकं ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार । । १८.३६ । ।
ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रं आसीथ् । । १८.३७ । ।
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातं अवाप्य मेघः । । १८.३८ । ।
तं राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेषं ।
षड्वर्षदेशियं अपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण । । १८.३९ । ।
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेज्ॐअहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण । । १८.४० । ।
तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठं ।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ । । १८.४१ । ।
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि । । १८.४२ । ।
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षथ् ।
तस्याननादुच्चरितो विवादश्चक्शाल वेलास्वपि नार्णवानां । । १८.४३ । ।
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार । । १८.४४ । ।
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगाथ् ।
नितान्तगुर्वीं अपि चानुभावाद्धुरं धरित्र्या बिभरां बभूव । । १८.४५ । ।
न्यस्ताक्षरां अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावथ् ।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः । । १८.४६ । ।
उरस्यपर्याप्तभागा प्रौढीभविष्यन्तं उदीक्षमाणा ।
संजातलज्जेव तं आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः । । १८.४७ । ।
अनश्नुवानेन युगोपमानं अबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः । । १८.४८ । ।
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिं ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः । । १८.४९ । ।
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणां ।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः । । १८.५० । ।
व्यूह्य स्थितः किंचिदिवोत्तरार्धं उन्नद्धचूडोऽञ्चितस्व्यजानुः ।
आकर्णं आकृष्टसबानधन्वा व्यरोचत्ऽ आस्ते स विनीयमानः । । १८.५१ । ।
अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालं ।
अकृतकविधि सर्वाङ्गीणं आकल्पजातं विलसितपदं आद्यं यौवनं स प्रपेदे । । १८.५२ । ।
प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः । । १८.५३ । ।

इति कालिदासविरचिते रघुवंशे अष्टादशः सर्गः


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)