चन्द्रशेखर आजाद:

पण्डितचन्‍द्रशेखर आजाद:
23 जुलाई 1906 त: 27 फरवरी 1931 पर्यन्‍तम्

उपनाम
आजाद, पण्डितजी, बलराज,  'Quick Silver' च
जन्‍मस्‍थानम् 
बदरका उन्‍नाव जनपद:, उत्‍तरप्रदेश
जन्‍मस्‍थानम्
अल्‍फ्रेडपार्क, इलाहाबाद
आन्‍दोलनम् 
प्रमुखसंगठनम् 
हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसिएशन, 1928

           पण्डित चन्द्रशेखर ‘आजाद’ (२३ जुलाई, 1९०६ - २७ फरवरी, 1931) ऐतिहासिकदृष्‍ट्या भारतीयस्‍वतन्‍त्रतासंग्रामस्‍य महानसेनानायकः आसीत् । सः पण्डितरामप्रसादबिस्मिल, भगतसिंहादीनां महानक्रान्तिकारिणाम् अन्‍यतमः मित्रमपि आसीत् । 1922 ख्रीस्‍ताब्‍दे वर्षे गाँन्धिना असहयोग आन्‍दोलनस्‍य आकस्मिक् पिधाने तस्‍य विचारधारा परिवर्तिता, तेन क्रान्तिकारीगतिविधिषु संलग्‍नः अभूत् । तदैव सः हिन्‍दुस्‍तानरिपब्लिकनएसोसियन इत्‍यस्‍य समूहस्‍य सक्रियसदस्‍यतामपि स्‍वीकृतवान् । अनया संस्‍‍थया सः रामप्रसादबिस्मिलस्‍य नेतृत्‍वे 9 अगस्‍त 1925 ख्रीस्‍ताब्‍दे काकोरी काण्‍डमपि कृतवान् । अनन्‍तरं भूमिगतः अपि अभवत् । एतदनन्‍तरं 1927 ख्रीस्‍ताब्‍दे वर्षे बिस्मिलमहोदयेन सह एव चतुर्णाम् इतोपि बन्‍धूनां बलिदानानन्‍तरं सः समस्‍तउत्‍तरभारतस्‍य क्रान्तिकारीसमूहान् एकत्रीकृत्‍य हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसियेशन इत्‍यस्‍य समूहस्‍य गठनं कृतवान् तथा च भगतसिंहेन सह मिलित्‍वा लाहौरप्रान्‍ते लालालाजपतरायस्‍य मृत्‍योः प्रतिघातः साण्‍डर्सवधं कृत्‍वा स्‍वीकृतवान् । अनन्‍तरं देहलीं प्राप्‍य असेम्‍बलीविस्‍फोटकाण्‍डमपि साधितवान् ।


जन्म प्रारम्भिकजीवनं च:-
पण्डितचन्‍द्रशेखराजादस्‍य जन्‍म उन्‍नावजनपदस्‍य बदरका ग्रामे 23 जुलाई 1906 ख्रीस्‍ताब्‍दे वर्षे अभवत् । आजादस्‍य पिता पण्डित सीताराम तिवारी 1956 ख्रीस्‍ताब्‍दस्‍य अकालकारणात् स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य मध्‍यप्रदेशस्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं भावरा ग्रामे न्‍यवसत् । अत्रैव बालचन्‍द्रशेखरस्‍य बाल्‍यकालः अतीतः । तस्‍य मातुः नाम जगरानीदेवी इति आसीत् । आदिवासीप्रदेशे बाल्‍यकालः व्‍यतीतः सन चन्‍द्रशेखरः अपि भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः । एवं विधा लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् ।
तदा वाराणसी क्रान्तिकारिणां केन्‍द्रमासीत् । चन्‍द्रशेखरस्‍य मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनस्‍य उपायाः समागताः । सः मन्‍मथनाथगुप्‍त एवं च प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगत्‍य क्रान्तिकारीसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां सह संघः हिन्‍दुस्‍तान प्रजातन्‍त्र संघ इति नाम्‍ना ज्ञायते स्‍म ।




सुसंस्काराः:-
चन्‍द्रशेखरस्‍य स्‍वभावे तस्‍य पितुः प्रतिबिम्‍बनम् आसीत् । सः पितावदेव स्‍वाभिमानी, हठधर्मी, साहसी वचनदृढः आसीत् । सः परेषामुपरि अत्‍याचारं न तु करोति स्‍म नैव सहते स्‍म ।
सीतारामतिवारीवयर्ः एकस्मिन् उपवने रक्षणकार्यं करोति स्म । बुभुक्षितः सन अपि सः कदापि न तु स्‍वयमेव उपवनस्‍य फलं खादति स्‍म नैव अपरान् अपि फलं ददाति स्‍म । तस्‍य एतत् सर्वं गुणं चन्‍द्रशेखरे अपि आगतम् ।


प्रथमा रोमांचकरी घटना:-
1919 ख्रीस्‍ताब्‍दे वर्षे चन्‍द्रशेखरः अध्‍ययने रतः आसीत् तदैव जलियावाला बागकाण्‍डमभवत् येन देशस्‍य युवानः उद्वेलिताः अभवन् । यदा गान्धिना 1921 ख्रीस्‍ताब्‍दे असहयोगआन्‍दोलनं प्रारब्‍धं तदा जनानां रोषः ज्‍वालामुखीवत् निर्गतः । ते मार्गेषु आगताः, चन्‍द्रशेखरः अपि विद्यालयस्‍य छात्रैः सह एव आन्‍दोलनं भागं गृहीतवान् । तत्र सः रक्षकैः हस्‍तगतः । न्‍यायालये न्‍यायाधीषस्‍य प्रश्‍नः अभवत् - किं नाम तव
उत्‍तरं आगतम् - आजाद
प्रश्‍नः - पितुः नाम
उत्‍तरं - स्‍वतन्‍त्रता
कुत्र निवसति
कारागारे
न्‍यायाधीषः अकारणमेव तं प्रति 15 आघातस्‍य दण्‍डं निर्धारितवान् । प्रत्‍येकेन आघातेन सह तस्‍य मुखात् निर्गच्‍छति स्‍म - भारत माता की जय ।
ततः बन्‍धनात् निमुक्‍तः सन सः उद्घोषं कृतवान् यत् अद्य आरभ्‍य अहं फिरंगीवैदेशिकानां हस्‍ते न पतिष्‍यामि जीवनपर्यन्‍तम् । तदा आरभ्‍य सः कदापि जीवने वैदेशिकानां हस्‍ते नैवागतम् ।


क्रान्तिकारी संगठनम्:-
असहयोगान्‍दोलनस्‍य अन्‍तर्गतमेव यदा फरवरी 1922 ख्रीस्‍ताब्‍दे चैरी चैरा इत्‍यस्‍य घटनायाः अनन्‍तरं गान्धिना अकारणमेव आन्‍दोलनं स्‍थगितं चेत् देशस्‍य बहवः नवयुवकैः सहैव आजादस्‍य अपि काॅंग्रेस तः मोहभंगः जातः एवं च पण्डित रामप्रसादबिस्मिल, शचीन्‍द्रनाथ सान्‍याल, योगेशचन्‍द्र चटर्जी इत्‍यादयैः उत्‍तरभारतीयक्रान्तिकारिणामेकं दलं हिन्‍दुस्‍तानी प्रजातान्त्रिकसंघम् (एच.आर.ए.) इत्‍यस्‍य गठनं कृतम् । चन्‍द्रशेखरः अपि अस्मिन् दले सम्मिलितः अभवत् । अनेन संगठनेन ग्रामस्‍य धनिकानां गृहे चैरकार्यं कर्तुं विचारः प्रतिपादितः । किन्‍तु कस्‍याश्चित् महिलायाः उपरि हस्‍तं न उत्‍थापयेम इत्यपि अंगीकृतवन्‍तः । एकस्मिन् गृहे चैरकार्यं कुर्वन् आजादस्‍य भुशुण्डिं एकया महिलया स्‍वीकृते सत्‍यपि आजादः तस्‍याः उपरि हस्‍तं नोत्‍थापितवान् । अस्मिन् चैरकार्ये संलग्‍नः अष्‍टजनानाम् उपरि यदा ग्रामीणाः आक्रमणं कृतवन्‍तः तदा बिस्मिलेन महिलायाः हस्‍तात् आजादस्‍य भुशुण्डिं स्‍वीकर्तुं तां एका चपेटिका दत्ता, आजादं कर्षित्‍वा बहिः आनीतं च । एतदनन्‍तरं दलेन केवलं सर्वकारीयप्रतिष्‍ठानेषु एव लुण्‍ठनकार्यं सम्‍पादितुं निर्णयः स्‍वीकृतः । 1 जनवरी 1925 ख्रीस्‍ताब्‍दे वर्षे अनेन दलेन सम्‍पूर्णे भारते पत्रम् आवंटितं (द रिवोल्‍युशनरी) इति यस्मिन् दलस्‍य नीतिनाम् उद्घाटनम् आसीत् । अस्मिन् पत्रे सशस्त्रक्रान्‍तेः चर्चा आसीत् । सूचनायाः लेखकरूपेण विजयसिंह इति काल्‍पनिकनाम दत्‍तमासीत् । शचीन्‍द्रनाथ सान्‍याल एतं पत्रं वंटितुं बंगालं प्रति गच्‍छन् आसीत् तत्रैव मार्गे रक्षकैः तं बाँकुरा स्‍थाने बन्‍धने कृत्‍वा कारागारे पातितं । एच. आर. ए. इत्‍यस्‍य गठनावसरे एव एतेषु त्रिषु प्रमुखेषु (बिस्मिल, सान्‍याल, चटर्जी) संगठनस्‍योद्देश्‍येषु मतवैभिन्‍यम् आसीत् ।
अस्‍य संघस्‍य नीतीनुसारं 9 अगस्‍त 1925 ख्रीस्‍ताब्‍दे काकोरीकाण्‍डं कृतं किन्‍तु ततः अपि पूर्वमेव अशफाक उल्‍ला खॉं एतेषां घटनानां विरोधः कृतवान् । तस्‍य भयमासीत् यत् अनेन प्रशासनं तेषां दलस्‍य मूलोच्‍छेदनं कर्तुं कृतसंकल्‍पं भविष्‍यति । अभवत् अपि तदैव । आग्‍लीयाः तु चन्‍द्रशेखरं गृहीतुं न शक्‍तवन्‍तः किन्‍तु ते सर्वोच्‍चकार्यकर्तृन् पण्डित रामप्रसाद बिस्मिल, अशफाकउल्‍ला खां, रोशन सिंह इत्‍यादीन 19 दिसम्‍बर 1926 ख्रीस्‍ताब्‍दे अथ च राजेन्‍द्रनाथ लाहिडी महोदयं ततोपि 2 दिनपूर्वमेव फॉंसी दत्‍वा हतवन्‍तः । अस्मिन् समये प्रायशः दलं निष्‍कृयमभवत् । प्रायेण एकदा-द्विधा वा चन्‍द्रशेखरेण भगतसिंहेन सह मिलित्‍वा बिस्मिलादिक्रान्तिकारिणां मोचनाय प्रयासं कृतं किन्‍तु सफलतां न प्राप्‍तवन्‍तः ।
4 क्रान्तिकारिणां कृते फॉंसी, 16 आजीवनबन्‍धनदण्‍डानन्‍तरं चन्‍द्रशेखरेण उत्‍तरभारतस्‍य सर्वान् क्रान्तिकारिन् आहूय 8 सितम्‍बर 1928 ख्रीस्‍ताब्‍दे देहली राज्‍यस्‍य फिरोजशाहकोटलाक्षेत्रे एका गुप्‍तसभा कृता । अस्‍यां सभायामेव भगतसिंहमपि प्रचारकार्यस्‍य प्रमुखदायित्‍वं दत्‍तम् । चन्‍द्रशेखरेण प्रमुखस्‍य दायित्‍वं स्‍वीकृतम् । संगठनस्‍य नामपरिवर्तनं कृत्‍वा हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसियेशन इति कृतम् । संघस्‍य लक्ष्‍यमासीत् - युद्ध अन्तिमनिर्णयपर्यन्‍तं भवेत् । अन्तिमनिर्णयः जयः वा मृत्‍युः वा इति ।


चरम सक्रियता:-
आजादस्‍य प्रशंसकेषु पण्डितमोतीलाल नेहः, पुरुषोत्‍तमदास टंडनयोः नाम अपि प्रसिद्धमस्ति । जवाहरलाल नेहरुमहोदयेन आजादस्‍य मेलनं आनन्‍दभवन मध्‍ये एव अभवत् । नेहरुः चन्‍द्रशेखरआजादस्‍य विचाराणां विरोधिः आसीत् । सः आजादं प्रति फांसीवादी मनोवृत्ति इति अभिधानमपि प्रयुज्‍ज्‍यते स्‍म किन्‍तु तस्‍य विरोधः मन्‍मथनाथगुप्‍तेन बहुधा कृतः ।
भगतसिंहेन यदा असेम्‍बलीमध्‍ये विस्‍फोटं कृतं तदा आजादः बहुवारं तस्‍य मुक्‍त्‍यर्थं प्रयासं कृतवान् । भगतसिंह, सुखदेव, राजगुरुः एतेषां त्रयाणां फॉंसीदण्‍डम् अवरोद्धुं आजादः दुर्गा भ्रातृजायां दुर्गां गान्धिपार्श्‍वे प्रेषितं, गान्धिना तु केवलं नकारात्‍मकप्रतिक्रिया एव प्राप्‍ता तया । आजादः आत्‍मनः बलेन एव झॉंसी कानपुरनगयोर्ः स्‍थानं निर्मापितम् । झॉंसी मध्‍ये मास्‍टर रुद्रनारायण, सदाशिव मलकापुरकर, भगवानदास माहौर एवं च विश्‍वनाथ वैशम्‍पायनादयाः सक्रियाः आसन्, कर्णपुरे च पण्डित शालिग्रामशुक्‍लः आसीत् । 1 दिसम्‍बर 1930 ख्रीस्‍ताब्‍दे आजादेन सह मेलनाय गन्‍तुकामः शालिग्रामः मार्गे एव रक्षकैः निपातितः ।

बलिदानम्:-
आजादेन नेहरुणा आग्रहः कृतः यत् सः गान्धिनं प्रेरयेत् भगतादिनां फांसीदण्‍डं आजीवनकारावासदण्‍डे परिवर्तितुं, किन्‍तु नेहःः तेन सह कलहः कृत्‍वा गन्‍तुं उक्‍तवान् । सः ततः साक्षात् अल्‍फ्रेटपार्कमध्‍ये गतवान् । एकेन मित्रेण सह तत्र सः मन्‍त्रणायां व्‍यस्‍तः आसीत् तदैव सर्वतः तं आंग्‍लरक्षकाः आविष्‍टवन्‍तः । तत्रैव तेन सह युद्धं कुर्वन् आत्‍मनः अन्तिमगुलिकातः सः आत्‍मनः प्राणघातः कृतवान् । 27 फरवरी 1931 ख्रीस्‍ताब्‍दः इतिहासे वैशिष्‍ट्यं प्राप्‍तवान् ।
चन्द्रशेखर आजादः वीरतायाः नूतनी परिभाषा लिखितवान् । तस्‍य मृत्‍युअनन्‍तरं आन्‍दोलनं इतोपि तीव्रतरं जातम् । तस्‍य बलिदानस्‍य 16 वर्षानन्‍तरं 15 अगस्‍त 1947 ख्रीस्‍ताब्‍दे भारतं स्‍वतन्‍त्रं जातम् । तस्‍य स्‍वप्‍नः तु पूणर्ः किन्‍तु तत् द्रष्‍टुं सः जीवितगात्रेण अस्‍माकं मध्‍ये उपस्थितः नासीत् । आजादः आत्‍मनः दलस्‍य क्रान्तिकारिषु आदरदृ‍ष्‍ट्या दृष्‍टः सर्वेरपि । सर्वे तं सर्वदा पण्डितजी इति एव सम्‍बोधितवन्‍तः । सः वास्‍तविकअर्थेषु पण्डितरामप्रसाद बिस्मिलस्‍य उत्‍तराधिकारी आसीत् ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .