कालिदासविरचिते रघुवंशे द्वादशः सर्गः

निर्विष्टविषयस्नेहः स दशान्तं उपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि । । १२.१ । ।
तं कर्णमूलं आगत्य रामे श्रीर्नस्यतां इति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा । । १२.२ । ।
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् । । १२.३ । ।
तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया ।
दूषयां आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः । । १२.४ । ।
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ । । १२.५ । ।
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियं । । १२.६ । ।
पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीथ् । । १२.७ । ।
दधतो मङ्गलक्ष्ॐए वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः । । १२.८ । ।
स सीतालक्ष्मणसखः सत्याद्गुरुं अलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः । । १२.९ । ।
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजं ।
शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत । । १२.१० । ।
विप्रोषितकुमारं तद्(?) राज्यं अस्तमितेश्वरं ।
रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ । । १२.११ । ।
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनं ।
मौलैरानाययां आसुर्भर्तं स्तम्भिताश्रुभिः । । १२.१२ । ।
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः । । १२.१३ । ।
ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः ।
तस्य पश्यन्सस्ॐइत्रेरुदश्रुर्वसतिद्रुमान् । । १२.१४ । ।
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयां चक्रे तं अनुच्छिष्टसंपदा । । १२.१५ । ।
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारं आत्मानं मेने स्वीकरणाद्भुवः । । १२.१६ । ।
तं अशक्यं अपाक्रष्टुं निर्देशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते । । १२.१७ । ।
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीं ।
नन्दिग्रामगतस्तस्य राज्यं न्यासं इवाभुनक् । । १२.१८ । ।
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तं इवाकरोथ् । । १२.१९ । ।
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा । । १२.२० । ।
प्रभावस्तम्भितच्छायं आश्रितः स वनस्पतिं ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमाथ् । । १२.२१ । ।
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यं इवाचरन् । । १२.२२ । ।
मृगमांसं ततः सीतां रक्षन्तीं आतपे धृतं ।
पक्षतुण्डनखाघातैर्बबाधे वायसो बलाथ् । । १२.२२* । ।
तस्मिन्नास्थदिषीकास्त्रं रामो रामावभोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः । । १२.२३ । ।
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ । । १२.२४ । ।
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशं ऋक्षेषु वार्षिकेष्विव भास्करः । । १२.२५ । ।
बभौ तं अनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी । । १२.२६ । ।
अनुसूयातिसृष्टेन पुण्यगन्धेन काननं ।
सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदं । । १२.२७ । ।
संध्याभ्रकपिषस्तत्र विराधो नाम राक्षसः ।
अतिष्ठन्मार्गं आवृत्य रामस्येन्दोरिव ग्रहः । । १२.२८ । ।
स जहरा तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिं अवग्रह इवान्तरे । । १२.२९ । ।
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति श्तलीं ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः । । १२.३० । ।
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोष्हस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव । । १२.३१ । ।
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमं । । १२.३२ । ।
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणां अकालज्ञो मओभवः । । १२.३३ । ।
कलत्रवानहं बाले कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास तां । । १२.३४ । ।
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता ।
साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् । । १२.३५ । ।
संरम्भं मैथिलीहासः क्षणं स्ॐयां निनाय तां ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः । । १२.३६ । ।
फलं अस्योपहासस्य सद्यः प्राप्स्यसि पश्य मां ।
मृग्यः परिभवो व्याघ्र्यां इत्यवेहि त्वया कृतं । । १२.३७ । ।
इत्युक्त्वा मैथिलीं भर्तुरङ्के निर्विशतीं भयाथ् ।
रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत । । १२.३८ । ।
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीं ।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति तां । । १२.३९ । ।
पर्णशालां अथ क्षिप्रं विधृतासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां तां अयोजयथ् । । १२.४० । ।
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे । । १२.४१ । ।
प्राप्य चाशु जन्स्थानं खरादिभ्यस्तथाविधं ।
रामोपक्रमं आचख्यौ रक्षःपरिभवं नवं । । १२.४२ । ।
मुखावयवलूणां तां नैरृता यत्पुरोदधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलं । । १२.४३ । ।
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे । । १२.४४ । ।
एको दाशरथी रामो यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः । । १२.४५ । ।
असज्जनेन काकुत्स्थः प्रयुक्तं अथ दूषणं ।
न चक्षमे शुभाचारः स दूषणं इवात्मनः । । १२.४६ । ।
तं शरैः प्रतिजग्राह खरतिशिरसौ च सः ।
ख्रमशस्ते पुनस्तस्य चापात्समं इवोद्ययुः । । १२.४७ । ।
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः । । १२.४८ । ।
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसां ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन । । १२.४९ । ।
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषां ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी । । १२.५० । ।
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसां ।
तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवथ् । । १२.५१ । ।
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः ।
रामेण निहतं मेने पदं दशसु मूर्धसु । । १२.५२ । ।
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः । । १२.५३ । ।
तौ सीतान्वेषिणौ गृध्रं लूनपक्षं अपश्यतां ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः । । १२.५४ । ।
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीं ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः । । १२.५५ । ।
तयोस्रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः । । १२.५६ । ।
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्छ सख्यं रामस्य समानव्यसने हरौ । । १२.५७ । ।
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ् । । १२.५८ । ।
इतस्ततश्च वैदेहीं अन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः । । १२.५९ । ।
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनाथ् ।
मारुतिः सागरं तीर्णः संसारं इव निर्ममः । । १२.६० । ।
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः । । १२.६१ । ।
तस्यै भर्तुरभिज्ञामं अङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतं इवानुष्णैस्तदानन्दाश्रुभिन्दुभिः । । १२.६२ । ।
निर्वाप्य प्रियसंदेशैः सीतां अक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः । । १२.६३ । ।
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयं आयातं वैदेह्या इव मूर्तिमथ् । । १२.६४ । ।
स प्राप हृदयन्यस्तमणिपर्शनिमीलितः ।
अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिं । । १२.६५ । ।
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुं । । १२.६६ । ।
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं धरा-पृष्ठे व्य्ॐनि संबाधवर्तिभिः । । १२.६७ । ।
निर्विष्टं उदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिं आदिश्य चोदितः । । १२.६८ । ।
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः । । १२.६९ । ।
स सेतुं बन्धयां आस प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः । । १२.७० । ।
तेनोत्तीर्य पथा लङ्कां रोधयां आस पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः । । १२.७१ । ।
रणः प्रववृते तत्र भीमः प्लवगरक्षसां ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः । । १२.७२ । ।
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः । । १२.७३ । ।
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनां ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयथ् । । १२.७४ । ।
कामं जीवति मे नाथ इति सा विजहौ शुचं ।
प्राङ्मत्वा सत्यं अस्यान्तं जीवितास्मीति लज्जिता । । १२.७५ । ।
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवथ् । । १२.७६ । ।
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणं ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा । । १२.७७ । ।
स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः । । १२.७८ । ।
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभं ।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयथ् । । १२.७९ । ।
क्लेशेन महता निद्रां त्याजितं रणदुर्जयं ।
रावणः प्रेषयां आस युद्धायानुजं आत्मनः । । १२.७९आ । ।
जघान स तदादेशात्कपीनुग्राननेकशः ।
विवेश च पुरीं लङ्कां समादाय हरीश्वरं । । १२.७९भ् । ।
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः । । १२.८० । ।
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः । । १२.८१ । ।
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि रच्छोणितनन्दीष्विव । । १२.८२ । ।
निर्ययावथ पौलस्थ्यः पुनर्युद्धाय मन्दिराथ् ।
अरावणं अरामं वा जगदद्येति निश्चितः । । १२.८३ । ।
रामं पदातिं आलोक्य लङ्केषं च वरूथिनं ।
हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः । । १२.८४ । ।
तं आधूतद्वजपटं व्य्ॐअगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रं अध्यास्त राघवः । । १२.८५ । ।
मातलिस्तस्य माहेन्द्रं आमुमोच तनुच्छदं ।
यत्रोत्पलददलक्लैब्यं अस्त्राण्यापुः सुरद्विषां । । १२.८६ । ।
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिराथ् ।
रामरावणयोर्युद्धं चरितार्थं इवाभवथ् । । १२.८७ । ।
भुजमूर्धोरुबाहुल्यादेकोऽपि धन्दानुजः ।
ददृशे सोऽयथापूर्वो मातृवंश इव स्थितः । । १२.८८ । ।
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरं ।
रामस्तुलितकैलासं अरातिं बह्वमन्यत । । १२.८९ । ।
तस्य स्फुरति पौलस्त्यह्सीतासंगमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे । । १२.९० । ।
रावणस्यापि रामास्तो भित्त्वा हृदयं आशुगः ।
विवेश भुवं आख्यातुं उरगेभ्य इव प्रियं । । १२.९१ । ।
वचसैव तयोर्वाक्यं अस्त्रं अस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव । । १२.९२ । ।
विक्रमव्यतिहारेण अस्त्रं अस्त्रेण निघ्नतोः ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव । । १२.९३ । ।
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे । । १२.९४ । ।
अयःशङ्कुचितां रक्षः शतघ्नीं अथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिं अक्षिपथ् । । १२.९५ । ।
राघवो रथं अप्राप्तां तां आशां च सुरद्विषां ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखं । । १२.९६ । ।
अमोघं संदधे चास्मै धनुष्यकेअध्नुर्धरः ।
ब्राह्मं अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधं । । १२.९७ । ।
तद्व्य्ॐनि दशधा भिन्नं ददृशे दीप्तिमन्मुखं ।
वपुर्महोरगस्येव करालफणमण्डलं । । १२.९८ । ।
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयथ् ।
स रावणशिरःपङ्क्तिं अज्ञातव्रणवेदनां । । १२.९९ । ।
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा । । १२.१०० । ।
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशश्वास पुनः संधानशङ्किनां । । १२.१०१ । ।
अथ मदगुरुपक्षैर्लोकपालद्विपानां अनुगतं अलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात । । १२.१०२ । ।
यन्ता हरेः सपदि संहृतकार्मुकज्यं आपृच्छ्य राघवं अनुष्ठितदेवकार्यं ।
नामाङ्करावणशराङ्कितकेतुयष्टिं ऊर्ध्वं रथं हरिसहस्रयुजं निनाय । । १२.१०३ । ।
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः ।
रविसुतसहितेन तेनानुयातः सस्ॐइत्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीं । । १२.१०४ । ।
इति कालिदासविरचिते रघुवंशे द्वादशः सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .