श्री महावीरन धाम

Mahaveeran dham 5    श्रीमहावीरनधाममंदिरम् अम्‍बेडकरनगरस्‍य (उत्‍तरप्रदेशस्‍य) प्रशिद्धहनुमानमन्दिरेषु अन्‍यतम: अस्ति ।  अस्‍य मन्दिरस्‍य वैशिष्‍टं न केवलम् अम्‍बेडकरनगरे अपितु समग्रे उत्‍तरप्रदेशे विदितमस्ति ।  अत्र भगतव: हनुमत: दर्शनाय दूरस्‍तात बहव: जना: प्रतिदिनम् आग‍च्‍छन्ति ।
स्थिति: - श्रीमहावीरनधाम अम्‍बेडकरनगरजनपदात् (जिल्‍लात:) प्रायश: 50 कि.मि. मिति दूरे स्थिते शूरापुरआपणे स्थितमस्ति ।  अम्‍बेडकरनगरात् महावीरनपर्यन्‍तं गन्‍तुं यदि आत्‍मन: यानं भवेत् अथवा भाटके यानं स्‍वीकुर्यात् चेत् सौकर्यं भवेत् ।  सामान्‍य भाटकेन (किरायाद्वारा) गन्‍तुं शहजादपुरक्षेत्रात् यानं स्‍वीकरणीयं भवेत् दोस्‍तपुर इति आपणाय ।  तस्मिन् मार्गे एव भूत्‍वा यानं शूरापुरआपणस्‍य कृते गच्‍छति ।








ऐतिहासिकं महत्‍वम् - महावीरनधाम्‍न: सुष्‍ठु ऐतिहासिकं महत्‍वं विद्यते ।  अस्‍य धाम्‍न: स्‍थापना कदा अभवत् इति तु सम्‍यक् न ज्ञात: इदानीं पर्यन्‍तं, किन्‍तु स्‍थानीया: जना: अस्‍य नूतनपरिवेशस्‍य स्‍थापनाविषये अवश्‍यमेव वदन्ति ।  अस्‍य पूर्वमेव स्थितं सरोवरं मकरीकुण्‍ड इति उच्‍यते ।  एवं जना: वदन्ति यत् एतस्‍मात् सरोवरात् एव भगवत: श्रीहनुमत: वर्तमान् प्रतिमा निर्गता आसीत् ।  अस्‍य स्‍थापना ग्रामीणजनै: मिलित्‍वा कृता‍सीत् ।  किन्‍तु तत् मकरीकुण्‍डं कदाआरभ्‍य अस्ति इति एतस्मिन् विषये केपि न जानन्ति ।
अस्‍य मकरीकुण्‍डस्‍य वैशिष्‍ट्यमस्ति यत् अस्‍य जलं कदापि शुष्‍कं नैव भवति ।  अकालं भवेत् दुर्भिक्षं वा किन्‍तु अस्‍य जलं कदापि शुष्‍कं न भवति इति ।
कथा - अस्मिन् विषये एका कथा प्रचलिता अस्ति यत् यदा रामावतारे भगवत: रामस्‍य भ्राता लक्ष्‍मण: मेघनादस्‍य शक्तिघातेन मूर्छित: जात: तदा सुषेणवैद्येन संजीवनी इति आनेतुं श्री‍हनुमत: प्रेरित: ।  श्रीहनुमान जी आकाशमार्गेण गच्‍छन् आसीत् ।  एषा घटना रावण: श्रुतवान् ।  स: जानाति स्‍म यत् हनुमान जी संजीवनीम् आनेतुं समर्थ: अस्ति यतोहि स: पूर्वमेव तस्‍य बलं ज्ञातवान् आसीत् ।  अत: बलेन अस्‍य मार्गे बाधा कर्तुं शक्‍यं नास्ति इति विचार्य स: स्‍वानुचरं कालनेमि इत्‍यभिधानकं स्‍वमायया भगवत: हनुमत: मार्गबाधा भवतु इति प्रेरितवान् ।  कालनेमि: एकस्‍य साधो: स्‍वरूपं धृत्‍वा मार्गे रामनामोच्‍चारणम् आरब्‍धम् ।  श्री हनुमान् जी यदा तं प्रति गतवान् तदा स: तम् (हनुमतं) मम शिष्‍यत्वं स्‍वीकुरु इति उक्‍तवान् ।  शिष्‍यत्‍वं स्‍वीकर्तुं यदा श्रीहनुमान् जी सिद्ध भवति स्‍म तदा स: स्‍नानं कर्तुं भवान् कुण्‍डे गच्‍छतु इति आदिष्‍टवान् ।  श्रीहनुमान् जी कुण्‍डे गतवान् किन्‍तु स: न जानाति स्‍म यत् कुण्‍डे एका मकरी विराजते ।  कालनेमि: चिन्तितवान् यत् एष: कुण्‍डे प्रविशेत् ।  तत्र मकरी एतम् आहाररूपेण स्‍वीकरिष्‍यति इति ।
यदा श्री हनुमान् जी कुण्‍डे प्रविष्‍टवान् तदा मकरी भगवत: पादौ गृहीतवती ।  श्रीहनुमान् जी क्रीडायामेव तां हतवान् ।  तदा तस्‍या: मकर्या: आकृति: देव्‍या: अभवत् ।  सा उक्‍तवती यत् एष: कालनेमि: दुष्‍ट: न तु साधु: ।  एवं विज्ञाय श्रीहनुमान् जी कुण्‍डात् बहिरागतवान् ।  कालनेमिं प्रति गतवान् ।  तं हतवान् ।  पुनश्‍च भगवत: रामस्‍य कार्यसाधनाय अग्रे गतवान् ।
यस्मिन् कुण्‍डे श्रीहनुमान् जी स्‍नानं कृतवान्, मकरीं हतवान् स: कुण्‍ड: एव सम्‍प्रति मकरीकुण्‍ड इति अभिधीयते ।  यत्र श्रीहनुमानजी कालनेमिं हतवान् तदेव स्‍थानं महावीरन् मन्दिरं इति कथ्‍यते ।
अस्‍य पवित्रस्‍थानस्‍य दर्शनेन एव जनानां सर्वपापशमनं भवति ।  अत्र जनानां सर्वा: मनोकामना: पूर्यते ।  जनानां प्रार्थना साक्षात् भगवन्‍तं हनुमतं प्रति गच्‍छति ।  एवं वक्‍तुमपि शक्‍यते यत् भगवान् श्री हनुमान् जी अत्र साक्षात् विराजते कलौयुगे भक्‍तान् दर्शनं प्रददातुमिति ।
ऊँ श्री हनुमते नम:

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .