संदेश

September, 2012 की पोस्ट दिखाई जा रही हैं

स्‍व. श्री रामकृपालपाण्‍डेय स्‍मारक खेल-कूद प्रतियोगिता सम्‍पूर्णा अभवत् ।

चित्र
 ईशापुर, महबूबगंज, फैजाबाद, गत रविवासरे 23 दिनांके ईशापुर ग्रामे स्‍व. श्री रामकृपालपाण्‍डेय स्मारक क्रीडा प्रतियोगिता सम्‍पन्‍ना अभवत् ।  आयोजक: माननीय: श्रीराममुनिपाण्‍डेय: सूचितवान् यत् एषा प्रतियोगिता गत 24 वर्षेभ्‍य: जायमान: अस्ति अनवरतरूपेण ।  अस्‍यां प्रतियोगितायां प्रायश: दशाधिकजिल्‍लाया: विविधा: क्रीडका: भागं वहन्ति ।  प्रतियोगिताया: प्रारम्‍भ: 100 मी. धावनेन अभवत् ।  पुनश्‍च क्रमश: 200 मी., 400 मी., 800 मी. 1600 मी. इति धावनानि अभवन् ।  अनन्‍तरं हस्‍तकन्‍दुक क्रीडा अपि आयोजिता ।  अस्‍यां क्रीडायां अलनपुर इति समूह: उपविजेता, सरैया इति समूह: विजेता अभवत् ।

अस्‍या: प्रतियोगिताया: कानिचन चित्राणि अत्र प्रस्‍तूयन्‍ते ।










-->

बडीदेवकालीमन्दिरस्‍य प्रतिमा: चोरिता: (फैजाबाद)

फैजाबाद, शुक्रवासरे फैजाबादनगरस्‍य ऐतिहासिकशक्तिपीठे देवकाली मन्दिरे स्‍थापिता: भगवत्‍य: तिस्र: प्रतिमा: चोरिता: ।  एता: प्रतिमा: सहस्रवर्षेभ्‍य: अपि प्राचीना: आसन् इति ।  प्रतिमाभि: सह एव त्रिकिलोमि‍तस्‍य छत्रम्, मुकुट: सिंहासनंचापि चोरितम् ।  घटना शुक्रवासरे रात्रौ घटिता ।  शनिवासरे प्रात:काले यदा मुख्‍यपण्डित: भगवत्य: द्वारोद्घाटनाय गत: तदा स: एतां घटनां ज्ञात्‍वा अन्‍यान् जनान् अपि सूचितवान् ।  शीघ्रमेव एषा सूचना स्‍थानीयेषु अपि गता साक्षात् एव जनसम्मर्द: एकत्रित: सन् रोष: प्रकटित: । रक्षकप्रशानेन उक्‍तमस्ति यत् शीघ्रातिशीघ्रमेव एता: प्रतिमा: तस्‍या: चौरा: च प्राप्‍स्‍यन्‍ते ।  फैजाबादनगरे दिनद्वयात् महान् सम्‍मर्द: अस्ति तेन पुलिसप्रशासनेन कर्फ्यू इति कृतमस्ति ।  अद्य सायं पर्यन्‍तं चौरानां कापि सूचना न प्रा‍प्‍तासीत् ।  भगवत्‍य: एतत् मन्दिरं न केवलं हिन्‍दूजनानाम् अपितु मुगलानामपि आस्‍थाकेन्‍द्रमासीत् अतएव स्‍थानीयहिन्‍दुभि: सह एव मुगला: अपि मार्गे उपविश्य रोषं प्रक‍टयन्‍त: सन्ति ।  सम्‍पूर्णे शहरे सुरक्षाव्‍यवस्‍था वर्धिता अस्ति । 

पिंगल-छन्दशास्त्रम्

महत्‍वम् - छन्‍दशास्‍त्रं वैदिकसाहित्‍यस्‍य पंचमांगमस्ति ।  उक्‍तमप्‍यस्ति । - 

छन्‍द: पादौ तु वेदस्‍य हस्‍तौ कल्‍पो थ पठ्यते 

ज्‍योतिषामयनं चक्षुर्निरुक्‍तं  श्रोत्रमुच्‍यते 
शिक्षा घ्राणं तु वेदस्‍य मुखं व्‍याकरणं स्‍मृतम् 
तस्‍मात् साड्.मधीत्‍यैव ब्रह्मलोके महीयते ।। 

आचार्यकात्‍यायन: छन्‍दशास्‍त्रस्‍य महत्‍ववर्णनं कुर्वन् वदति - यो ह वा अविदितर्षेयच्‍छन्‍दो -दैवत-ब्राह्मणेन मन्‍त्रेण याजयति वा अध्‍यापयति वा स्‍थाणुं वर्च्‍छति गर्ते वा पात्‍यते या पापीयान् भवति ।  (सर्वानुक्रमणी 1/1)
वेदेषु अपि गायत्री, उष्णिक्, अनुष्‍टुप्, वृहती, पंक्ति, त्रिष्‍टुप्, एवं च जगती इत्‍यादय: छन्‍दा: प्रयुक्‍ता: सन्ति ।   

व्‍युत्‍पत्ति: -

यथा आचार्यपाणिनिना व्‍याकरणशास्‍त्रस्‍य सूत्राणि, शौनकादिभि: प्रातिशाख्‍यानां सूत्राणि, वात्‍स्‍यायनेन च कामशास्‍त्रस्‍य सूत्राणि लिखितानि तथैव महर्षिपिंगल: छन्‍दशास्‍त्रस्‍य सूत्राणि विलिखितवान् ।  एतदर्थमेव छन्‍द शास्‍त्रस्‍य अपरं नाम पिड्.लशास्‍त्रमपि अस्ति । 

आचार्यभरतेन उक्‍तम् - 
छन्‍दहीनो न शब्‍दो स्ति, न छन्‍द: शब्‍दवर्जितम् ।  (नाट्यशास्‍त्रम् 14/45)

महर्षिकात्‍यायनेन …

नियतिकृतनियमरहिताम् .....

नियतिकृतनियमरहितां ह्लादैकमयीमनन्‍यपरतन्‍त्राम्
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।।

काव्‍यप्रकाशस्‍य प्रारम्‍भे आचार्यमम्मटेन भगवतीसरस्‍वतीदेव्या: आराधनं कुर्वन् मंगलाचरणम् कृयते ।

सरलार्थ: - या नियतिर्मित (ब्रह्मणा निर्मित) नियमै: स्‍वतन्‍त्रा, केवलम् आनन्‍दस्‍वरूपा, अन्‍येषां नियमाणामपि परतन्‍त्रतां न वहति, यस्यां नव रसा: विद्यन्‍ते सा कवे: वाग्‍देवी सर्वोत्‍कृष्‍टा अस्ति ।

-->

वास्‍तविकस्‍वतन्‍त्रता

स्वतन्त्रतादिवसस्य प्रत्येकक्षणम् अस्मान् अक्षुण्णप्रेरणां प्रददाति ।  इयमेव स्मृतिं संगृहीतुं इमं राष्ट्रीपर्वरूपेण सम्मानं दीयते -
‘‘समृद्धं सर्वसौभाग्यं स्वदेशं भारतं वन्दे ।              परं प्रेमास्पदं पुण्यं प्रियं चाभारतं वन्दे ।।’’गीतगंगा) अस्मिन्नेव दिने स्वतन्त्रता-संग्रामस्य विजयिनः वीराः स्वतन्त्रतां दापितवन्तः, देशस्य स्वतन्त्रतायाःच कर्णधारान् इदं सन्देशम् अपि दत्तवन्तः यत् महान् संकटानि तीत्र्वा यां स्वतन्त्रतां वयं प्राप्तवन्तः तां भवन्तः सर्वे सम्यक्रूपेण संरक्षयन्तु ।  तदेव अस्माकं योगक्षेमं पूर्णं भविष्यति ।
इदानीं वयं स्वतन्त्राः स्मः ।  सर्वतः ध्वनिः आगच्छति यत् विकासशीलं भारतवर्षं दिनानुदिनं प्रगतिपथे अग्रसरो अस्ति ।  यत् राजनैतिकदलं सत्तां प्राप्नोति, पूर्वम् एवमेव उद्घोषयति यत् ‘‘देशतः निर्धनतां, अशिक्षां अस्पृष्यतां च नाशयिष्यामि ।  इदम् अस्माकं प्रथमं कर्तव्यमस्ति ।’’  अहं विचारयामि यत् एतैः प्रयासैः षष्‍ठ्याधिकवर्षेषु देशेन किंचित् उन्नतिः प्राप्ता परम् अद्यापि पूर्णरूपेण सामाजिक-आर्थिक-राजनैतिकस्वतन्त्रता च न प्राप्ता । -
‘‘प्रभातं तु जातं तमो नाऽपयातम् । …

आधुनिकभारतम्

आङ्ग्लेयप्रभुत्वात् विमुक्तिं प्राप्य यदा वयं प्रजास्वामिकप्रभुत्वं निर्मितवन्तः तदारभ्य आधुनिकभारतमिति कथ्यते ।  ईदृशे भारते प्रजास्वाम्यं समतौल्याभावेन नाममात्रमस्ति ।  देशोऽयं खण्डितोऽस्ति । जनाः बहुधा वर्गरूपेण विभक्ताः ।  पालकाः तेषु वर्गेषु पक्षपातिनसन्त्यनुचितरीत्या ।  समन्याय पालनस्य राहित्यं जनानां मध्ये विद्वेषं जनयति। शासनसभासभ्येषु लोकसभासभ्येषु कार्यनिर्वाहकवर्गेषु न्यायविभागे च बाहुळ्येन निन्दितचरिताः प्रविशन्ति ।  एषु कार्यदक्षता लुप्यते । धनार्जनदृक्पथमधिकमस्ति । पदवीकांक्षाः आनुवंशिकपालनाभिरतिः अलसत्वं अधिकारदाहश्च वर्धन्ते दिने दिने ।  प्रजानां वा देशस्य वा समस्यां परिष्कर्तुं तेषां समुचिता शक्तिर्न दृश्यते ।  राजकीयपक्षाः मिथः कलहायन्ते ।  मतदानाय जनान् प्रलोभयन्ति । नायकत्वचयनं न प्रज्ञया, किन्तु, धन-व्ययेन भवति । रक्षकभटैर्विना,
आन्दोळनं विना चयनमसाध्यं दृश्यते । परीक्षानिर्वहणमपि तथैव ।
विद्याविधानं स्वदेशीयं नास्ति ।  विदेशीविद्याविधानमेव चलति । विद्या विक्रीयते आपणे वस्तूनीव । न कस्यापि जातीयता दृष्टिर्वा स्वदेशीयचिन्तनं वा न दृश्यते । स्वार्थप्रयोजनानि समधिका…

नैतिकमूल्‍यानां महत्‍वम्

आदिकालादेव मानवाः पशुवृत्तिं विहाय येन केनापि प्रकारेण प्राकृतिकधरातलात् उच्चैः स्थानं प्राप्तुं प्रयत्नशीलाः विद्यन्ते। अयं प्रयासः एव मानवस्य नैतिकतायाः प्रमाणमस्ति, अतः तेन अनेकानि नैतिकमूल्यानि सृष्टानि मूल्यचेतनायाः विकासः कृतः च ।  इदमेव मूल्यं संस्था-व्यवस्थासु, सर्जना-वर्जनासु विधिनिषेधेसु चापि व्याप्तमस्ति। इमानि नैतिकमूल्यानि शाष्वतं विद्यन्ते यानि प्रत्येकऽस्मिन् समाजे सर्वकालेषु समस्त वातावरणेषु च महत्वपूर्णानि वर्तन्ते ।
एतानि मूल्यानि मनुष्यस्य प्रारम्भिक जीवनात्समारभ्य अद्यावधि पर्यन्तं प्रासंगिकानि सन्ति एवं यावत् जीवने मानवतायाः बीजांकुरः विद्यते तावत् एतानि मूल्यानि प्रासंगिकानि भविष्यन्ति।

नैतिकमूल्यानि मनुष्यस्य मूलप्रेरणायामाधारभूतानि सन्ति ।  एभिरैव राष्ट्रियचरित्रनिर्माणं भवति ।  मानवता नैतिक मूल्यानां समष्टिः वर्तते, अनया शक्त्या एव इतिहासः परिवर्तते ।  मानवजीवनस्य समस्ताभिव्यक्तीनाम् उपलब्धीनां सर्जनम् एतैः सम्भवति।
‘नयनंनीतिः नीतेरिमानि मूल्यानि- नैतिकमूल्यानि’  यया  मनुष्यस्य जीवनं सुचारुसफलं च भवति सा नीतिः कथ्यते ।  इयं नीतिः मात्र जनसमाजस्य कृते एव न अपितु ज…

सामान्‍यज्ञानम्

(12 अगस्त) लंदनओलंपिक्रीडायां भारतेन 6 पदकानि विजितानि ।ओलंपिकइतिहासे भारतस्य सर्वोत्तमं प्रदर्शनमस्ति एतत् । (12 अगस्त) लन्दनओलम्पिक्रीडायाः समापनं विविधैः आयोजनैः सह अभवत् ।(12 अगस्त) मल्लक्रीडायां सुशीलकुमारः रजतपदकं विजितवान् ।(10 अगस्त) जन्माष्टमीपर्वस्य सम्पूर्णे उत्तरभारते महोत्सवः ।(9 अगस्त) मुष्टिप्रहरणे एम.सी.मैरीकॉम काँस्य पदकं विजितवती ।(6 अगस्त) बैडमिंटन प्रतियोगितायां साइना नेहवालः काँस्यपदकं विजितवती ।(4 अगस्त) विजयकुमारः 25मी. भुशुण्डिलक्ष्यभेदप्रतियोगितायां रजतपदकं प्राप्तवान् ।(10 अगस्त) भुशुण्डिद्वारा लक्ष्यभेदस्पर्धायां गगननारंगः कांस्यं विजितवान् ।(2 अगस्त) श्रावणपूर्णिमायां रक्षाबन्धनोत्सवः सम्पूर्णे विश्वे मोदितः ।2011 ख्रीस्ताब्दे वस्तुनिर्यातव्यवस्थायां भारतस्य प्रथमस्थानम् ।भारतस्य रक्षाअनुसंधानेन ब्रह़मोस सुपरसोनिक प्रक्षेपास्त्रस्य जुलाईमासे 29 दिनांके सफलपरीक्षणं कृतम् ।जुलाईमासस्य 27 दिनांकतः लंदनओलंपिक्रीडायाः प्रारम्भः ।जुलाईमासस्य 25 दिनांके प्रणवमुखर्जिः भारतस्य 14तमस्य राष्ट्रपतिपदस्य शपथं स्वीकृतवान् । सः पी.ए.संगमां पराजितवान् ।पद्मव…

कीदृशी स्वतंत्रता इयम्

65तमस्य वर्षस्य स्वतन्त्रतादिवसस्य उपलक्ष्ये सर्वेभ्यः स्वतन्त्रता दिवसस्य शुभाषयः।  अस्याः स्वतन्त्रतायाः कृते अस्माकं देशे ये देशभक्ताः स्व-प्राणाहुतिं प्रदत्तवन्तः। तेभ्यः सर्वेभ्यः शत-शत नमनं वर्तते मम पक्षतः।
वयं सर्वे प्रतिवर्षं अगस्तमासे पंचदशदिनाङ्के स्वतन्त्रता दिवसं मोदयामः परन्तु किं वयं कदापि एतदपि चिन्तितवन्तः यत् यस्याः स्वतन्त्रतायाः परिकल्पना आहुतिभूताः देशभक्ताः कृतवन्तः सा स्वतन्त्रता वयं प्राप्तवन्तः?। यदि आम तर्हि कथम्? अहं तु चिन्तयामि यत् स्वतन्त्रतायाः 65वर्षाणि न जातानि अपितु पराधीनतायाः 265 वर्षाणि अभवन् ।  इदानीं भवन्तः वदिष्‍यन्ति यत् कथं वदति अयं मूर्खः।  परन्तु या सत्यता वर्तते तदहं वदामि सर्वेऽपि देशवासिनः इतिहासं पठिवन्तः, पठन्तः अपि सन्ति, पठिष्‍यन्ति अपि ।  सर्वेऽपि जानन्ति यत् स्वतन्त्रता कीदृषी भवति? यः स्वतन्त्रः भवति तस्य स्वस्य एकः नियमः भवति यथा कस्मिश्चित देशं यदि भवन्तः गच्छन्ति तर्हि तस्य कृते तस्य देशस्य अनुमतिपत्रं(पासपोर्ट वीजा) इति स्वीकरणीया भवति परन्तु यदि स्वदेशे कस्मिश्चित् प्रदेशं गच्छति तर्हि तस्य कृते अनुमतिपत्रस्य आवश्‍यकता न भवति।…

अमरशहीदभगतसिंह:

चित्र
प्रसिद्धक्रान्तिदूतः भगतसिंहस्य विषये कः न जानाति भारतीयः ।  23वर्षस्य लघुवये अपि यत् महत्कार्यं तेन कृतमासीत् तत् विस्मर्तुं शत्रवः अपि न शक्यन्ते, भारतीयाः किम् ।  तस्य द्वे मित्रे राजगुरुः, सुखदेवः च; एते त्रयः मिलित्वा ब्रिटिशराज्यस्य मूलोच्छेदने महत्भूमिकां गृहीतवन्तः, येन सम्पूर्णभारते लघुबालाः, युवानः, वृद्धाः च सर्वे भगतसिंहः एव भवामि इति चिन्तयन्ति स्म तस्मिन् समये ।  भारतीयस्वतन्त्रतासंग्रामस्य प्राणभूतः सन्ति एते त्रयः महापुरुषा: ।
जन्म: भगतसिंहस्य जन्म 28 दिनांके सितम्बरमासे शनिवासरे, 1907 ख्रीस्ताब्दे लायलपुरजनपदस्य बंगाग्रामे जातमासीत् ।  तस्य पितुः नाम सरदार किशन सिंहः आसीत् माता च विद्यावतीकौर इति आसीत् ।  एते आर्यसमाजं गृहीतवन्तः आसन् ।
अमृतसरे अप्रैलमासस्य 13 दिनांके 1919 ख्रीस्ताब्दे जलियावालाबागकांडम् इति नरसंहारः अभवत् येन भगतसिंहः अतिप्रभावितः अभवत् ।  सः तदा नेशनल कॉलेज मध्ये पठन् आसीत् ।  शिक्षां त्यक्त्वा सः स्वतन्त्रतासंग्रामे कूर्दितवान् ।  सः नौजवान भारत सभा इत्यस्य स्थापना कृतवान् ।  काकोरीकाण्डे रामप्रसादबिस्मिलस्य मृत्युनन्तरं भगतसिंहः पण्डितचन्द्रशेखरस…

हिन्‍दी दिवसस्‍य शुभकामना:

प्रिय बान्‍धवा:
हिन्‍दी अस्‍माकं मातृभाषा इति वारं-वारं कथनस्‍य आवश्‍यकता नास्ति ।  अद्य हिन्‍दी भाषाया: महत्‍वं वैदेशिकेषु अपि वर्धते इति हर्षस्‍य विषय: ।  भारते अपि हिन्‍दी भाषाया: वर्चस्‍वं स्‍थापितं सम्‍प्रति ।  अस्‍माकं विविधा: संस्‍था: अपि अस्‍य वर्धनाय प्रयत्‍नं कुर्वन्‍त: सन्ति सतत रूपेण ।
अग्रे कदाचित् चतुर्पंच वर्षेभ्‍य: एव वयं हिन्‍दीभाषां विश्‍वस्‍य प्रमुखभाषारूपेण द्रष्‍टुं शक्‍नुयाम इति मे आशा ।  सम्‍प्रति जालजगति अपि हिन्‍दीभाषाया: प्रसार: वर्धमान: अस्ति ।  जना: स्‍वेच्छिकरूपेण हिन्‍दीभाषाया: प्रयोगं कुर्वन्‍त: सन्ति ।  हिन्‍दू अपि सम्‍प्रति जागृत: अस्ति अत: सम्‍प्रति वक्‍तुं शक्‍यमस्ति यत् अस्‍माकमेषा भाषा शीघ्रमेव विश्‍वभाषा इति भविष्‍यति ।

हिन्‍दीदिवसे भवतां सर्वेषां कृते संस्‍कृतजगत: हार्दिकं धन्‍यवादा: आभार: च हिन्‍दीभाषावर्धनाय
हिन्‍दी दिवसे काव्‍यमाध्‍यमेन सर्वान् शुभकामना: ददत् कवि आनन्‍दस्‍य एतां रचनाम् अवश्‍यमेव पठन्‍तु ।

हिन्‍दी हिन्‍दुस्‍थान हमारा 
-->

प्राणिजीवने स्‍वतन्‍त्रता

स्वतंत्रतायाः प्राणिजीवने अत्यधिक महत्वं वर्तते । उक्तमपि चास्ति “सर्वं परवशं दुःखम्, सर्वमात्मवशं सुखम्“ ।  सर्वे प्राणिनः स्वातन्त्र्यमिच्छन्ति ।  कोपि परतन्त्रो भवितुं नेच्छति ।  मानवाः एव न अपितु समस्त पशुपक्षिणः अपि स्वतन्त्रतामिच्छन्ति ।
15 अगस्त भारतीयानां स्वतन्त्रतायाः दिनमस्ति ।  अस्मिन् दिने 1947 ख्रीष्ताब्दे आंग्लशासनात् भारतं स्वतन्त्रमभूत् ।  ततः पूर्वं भारतं बहुकालपर्यन्तं परतंत्रतायां बद्धमासीत् ।  इस्वीये द्वादशशतीतः सप्तदशशतीपर्यन्तं भारतं मुगलानां बन्धने आसीत् ततः परम् आग्लानां बन्धने पतितम् ।  भारतस्य स्वतन्त्रतायाः कृते प्रथमवारं 1857 ईसवीये मंगलपाण्डेयः, लक्ष्मीबाई प्रभितिभिः वीरैः आंग्लैः सह युद्धं कृतम् ।  तत्प्रभृत्येव क्रान्तिकारिभिः तदा आरभ्य एव निरंतरं स्वतन्त्रतासंग्रामं प्रचालितम् ।  एतदनन्तरम् आंग्लभारते एव आई.सी.एस. परीक्षा उत्तीर्णा सन अपि नेताजी सुभाषचन्द्रबोसः भारतभूमेः स्वतन्त्र्तायाः कृते आत्मनः प्राणमपि अत्यजत् ।  सः बाल्यकालादेव बुद्धिमान् आसीत् ।  प्रारम्भे तस्य पिता आंग्लशासनस्य समर्थकः आसीत् किन्तु सुभाषः बाल्यकालातेव आंग्लशासनस्य विरोधिः आसी…

भगवान् पाणिनिकृत अष्‍टाध्‍यायी

अष्‍टाध्‍यायी संस्‍कृतव्‍याकरणग्रन्‍थेषु अन्‍यतम: अस्ति ।  भगवता पाणिनिना कृत एष: ग्रन्‍थ: लौकिकसंस्‍कृतव्‍याकरणस्‍य तु प्राणभूत: एव ।  सम्‍प्रति प्राप्‍त व्‍याकरणग्रन्‍थेषु सर्वतो प्राचीन: ग्रन्‍थ: अस्ति एष: ।  भगवान् पाणिनि: भगवत: श्रीशिवस्‍य आराधनां सम्‍पादितवान् तेन हि प्रसन्‍न: शिव: तस्‍य कृते चतुर्दशवारं ढक्‍कावादनं कृतवान् ।  
नृत्‍तावसाने नटराजराजो ननाद ढक्‍कां नवपंचवारम् । उद्धर्तुकाम: सनकादिसिद्धानेतद्विमर्षे शिवसूत्रजालम् ।। ढक्‍कावादनस्‍य ध्‍वनिना एव भगवान् पाणिनि: माहेश्‍वरसूत्रमिति रचितवान् ।  अस्‍य सूत्रस्‍य उपरि एव सम्‍पूर्णं व्‍याकरणम् आधृतमस्ति ।  एतानि चतुर्दशसूत्राणि - 
अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल्  सन्ति । इति  एकस्य शब्दस्य अन्तिमः अक्षरः अनुबन्धः इति कथ्यते । "आदिरन्त्यॆन सहॆता" इत्यनॆन सूत्रॆण प्रत्याहार-शब्दस्य बॊध: जायतॆ । चतुर्दश सूत्रै: ४२ + १ प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारॆणैव् सम्पूर्णम् व्याकरणम् रचितम्  ।
अस्मिन् ग्रन्‍थे 8 अध्‍याया: सन्ति, प्रत्‍येकेषु अध्‍यायेषु 4-4 पा…

पाणिनीय अष्‍टाध्‍यायी

श्रीमद् अष्‍टाध्यायी
प्रथमोऽध्यायः 
प्रथमः पादः
1 वृद्धिरादैच्
2 अदेड्.गुणः
3 इको गुण-वृद्धी
4न धातु-लोप आर्ध-धातुके
5 क्डि.ति च
6 दीधी-वेवीटाम्
7 हलोऽनन्तराः संयोगः
8 मुख-नासिका वचनोऽनुनासिकः
9 तुल्यास्य-प्रयत्नं सवर्णम्
(वार्तिक) ऋ-लृ-वर्णयोर्मिथः सावर्ण्‍यं वाच्यम्
10 नाज्झलौ
11 ईदूदेद् द्विवचनं प्रगृह्यम्
12 अदसो मात्
13 शे
14 निपात् एकजनाड्.
15 ओत्
16 संबुद्धौ षाकल्यस्येतावनार्शे
17 उञः
18 ऊँ
19 ईदूतौ च सप्त्यम्यर्थे ‘इति प्रगृह्यम्’
20 दाधा घ्वदाप्
21 आद्यन्तवदेकस्मिन्
22 तरप्-तमपौ घः
23 बहु-गण-वतु-डति संख्या
24 ष्‍णान्ता षट्
25 डति च
26 क्त-क्तवतू निष्‍ठा
27 सर्वादीनि सर्व-नामानि
28 विभाषा दिक्-समासे बहु-व्रीहौ
29 न बहु-व्रीहौ
30 तृतीया-समो
31 द्वन्द्वे च
32 विभाषा जसि
33 प्रथम-चरम-तयाल्पार्ध-कतिपय-नेमाश्‍च
34 पूर्व-परावर-दक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
35 स्वमज्ञाति-धनाख्यायाम्
36 अन्तरं बहिर्योगोपसंव्यानयोः
37 स्वरादि-निपातमव्ययम्
38 तद्धितश्‍चासर्व-विभक्तिः
39 कृन्मेजन्तः
40 क्त्वा-तोसुन्-कसुनः 41 अव्ययीभावश्‍च
42 शि सर्वनामस्थानम्
43 सुडनपुंसकस्य
44 न वेति विभाषा
45 इग्यणः सम्प्रसारणम्
46 आद्यन्तौ टकितौ
47 मिदच…

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः

परमात्मनःसर्वव्यापित्वादि महिमा वर्णितास्त्येतन्मन्त्रे । तत्=परं ब्रह्म, एजति=चलति; तत् उ=तदेव, नैजति= न चलति; तत्, दूरे तिष्ठति, तत् उ अन्तिके=समीपे च तिष्ठति; तत् अस्य सर्वस्य=एतस्य समस्तस्य (जगतः) अन्तः बाह्यतश्च (तिष्ठति) ।" अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इति हि खलु नारायणोपनिषत् ।  भक्ताननुग्रहीतुं परमात्मा दूरमिति अन्तिकमिति न चिन्तयति ।  यत्र कुत्रापि वा भक्तः तिष्ठतु ।  तस्य रक्षणाय तत्र गच्छति परमात्मा । अत्र प्रह्लादः गजेन्द्रः पाञ्चाली अहल्या ध्रुवः उदाहर्तुमर्हन्ति ।  "गॉविन्देति यदाऽक्रन्दत् कृष्णा(द्रौपदी) मां दूरवासिनं ऋणं प्रवृद्धमिवे"ति भावयन् परमात्मा श्रीकृष्णः तां ररक्ष खलु ।  एवमेव नक्राक्रान्ते करीन्द्रे, मूल मूलेत्याह्वयन्, तत्समये "नाहं नाहं नचाह" मिति देवैः त्यक्तहस्ते सति सपद्यागत्य परमात्मा तं रक्षितवान् खलु ।  एतदीशावास्योपनिषन्मन्त्रार्थमेव "नम्माळ्वार्" नामको दाक्षिणात्यो प्रपन्नजनकूटस्थः एवमुवाच द्राविडभाषायाम्--"वन्दाय् पोले(As if coming nearer) वारादाय् (Goes beyond reach i.e…

''स्‍व. श्री रामकृपाल पाण्‍डेय स्‍मारक खेल-कूद प्रतियोगिता व सांस्‍कृतिककार्यक्रम'' इत्‍यस्‍य आयोजनम्

विगतषड्विंशतिवर्षेभ्‍य: जायमान: ''स्‍व. श्री रामकृपाल पाण्‍डेय स्‍मारक खेल-कूद प्रतियोगिता एवं सांस्‍कृतिक कार्यक्रम''(ग्राम-ईशापुरम्, महबूबगंज, फैजाबाद- निकट श्री श्रृंगीऋषि आश्रम धाम) कार्यक्रम: अस्मिन् वर्षे अपि 23 सितम्‍बर 2012 (ज्‍येष्‍ठ रविवासर:) निर्धारित: अस्ति । अस्य कार्यक्रमस्‍य आयोजक: श्रीमान् राममुनिपाण्‍डेयवर्य:सूचितवान् यत् एष: कार्यक्रम: तस्‍य स्‍व. पितु: श्री रामकृपालपाण्‍डेयस्‍य श्रद्धांजलिरूपेण आयोज्‍यते । अस्‍य आयोजनं विगत षडविंशतिवर्षेभ्‍य: अनवरतरूपेण भवति । कार्यक्रमस्‍य सम्‍पूर्णव्‍यय: आयोजकस्‍यैव भवति । आयोजने विविधा: कार्यक्रमा: भवन्ति । तेषु प्रमुखकार्यक्रमा: अधोक्‍ता: सन्ति -
100 मी. धावनम् - लघुबालानाम् (आयुसीमा - 5-10 वर्षं यावत्) 200 मी. धावनम् - लघुबालानाम् (आयुसीमा - 8-14 वर्षं यावत्) 400 मी. धावनम् - कनिष्‍ठज्‍येष्‍ठबालनाम् (आयुसीमा - 10-18 वर्षं यावत्) 800 मी. धावनम् - ज्‍येष्‍ठानाम् (आयुसीमा - 14-22 वर्षं यावत्) 1600 मी. धावनम् - ज्‍येष्‍ठानाम् (15वर्षत: यावच्‍छक्‍यम्)कूर्दनक्रीडा - ज्‍येष्‍ठानाम् (आयुसीमा - 18त: उपरि…

यस्‍तु सर्वाणि....

यस्‍तु सर्वाणि भूतान्‍यात्‍मन्‍येवानुपश्‍यति । सर्वभूतेषु चात्‍मानं ततो न विजुगुप्‍सते ।।6
अन्‍वय: - तु य: सर्वाणि भूतानि आत्‍मनि एव अनुपश्‍यति, च सर्वभू‍तेषु आत्‍मानम् तत: न विजुगुप्‍सते ।
सरलार्थ: - किन्‍तु य: मनुष्‍य: सर्वान् प्राणीन् परमात्‍मनि एव निरन्‍तरं पश्‍यति ।  सर्वेषु जीवेषु च तं परमात्‍मनं पश्‍यति स: केनचिदपि सह घृणां न करोति ।

तदेजति तन्‍नैजति - ईशावास्‍योपनिषद्

तदेजति तन्‍नैजति तद् दूरे तद्वन्तिके । तदन्‍तरस्‍य सर्वस्‍य तदु सर्वस्‍यास्‍य बाह्यत: ।।5
अन्‍वय: - तत् एजति, तत् न एजति ।  तत् दूरे, तत् उ अन्तिके तत् अस्‍य सर्वस्‍य अन्‍त:, तत् अस्‍य सर्वस्‍य उ बाह्यत: ।
सरलार्थ: - स: (परमेश्‍वर:) चलति (गतिं करोति), स: न चलति, स: दूरादपि दूरमस्ति, स: निकटादपि सन्निकटमस्ति ।  स: अस्‍य जगत: अन्‍त: सर्वत्र व्‍याप्‍तमस्ति (परिपूर्णमस्ति) , एवं च स: सम्‍पूर्णं विश्‍वं बहिष्‍ठादपि आवृतवानस्ति । 

अनेजदेकं मनसो जवीयो .....

अनेजदेकं मनसो जवीयो नैनद्देवा आप्‍नुवन् पूर्वमर्षत्  तद्धावतोऽन्‍यानत्‍येति तिष्‍ठत्‍तस्मिन्‍नपो मातरिश्‍वा दधाति ।।4
अन्‍वय: - अनेजत् एकम् मनस: जवीय: ।  पूर्वम् अर्षत् ।  एनत् देवा: न आप्‍नुवन् ।  तत् अन्‍यान् धावत: तिष्‍ठत् अत्‍येति ।  तस्मिन् मातरिश्‍वा अप: दधाति ।
सरलार्थ: - स: (परमेश्‍वर:) अचलम्, एकं, मनत: अपि तीव्रगतियुक्‍तमस्ति ।  स: सर्वेषाम् आदि:, ज्ञानस्‍वरूपं सर्वद्रष्‍टा चास्ति ।  एतं परमेश्‍वरम् इन्‍द्रादया: देवा: अपि प्राप्‍तुं न शक्‍तवन्‍त: ।  स: एकस्मिन् स्‍थाने भूत्‍वा (स्थित्‍वा) एव तीव्रगत्‍या धावत: जनानाम् अतिक्रमणं करोति ।  तेन एव वायु: जलवृष्टिरादिक्रिया: सम्‍पादयितुं शक्‍नोति । इति 

असुर्या नाम ते लोका......

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।3
अन्वयः - असुर्या नाम लोकाः ते अन्धेन तमसा आवृताः ।  ये के च आत्महनः जनाः, ते प्रेत्य तान् अभिगच्छन्ति ।

सरलार्थः - असुराणां ये लोकाः सन्ति, ते सर्वे एव अज्ञानस्य, दुःखस्य, क्लेशस्य च महानान्धकारेण आच्छादिताः सन्ति ।  ये केपि आत्महन्ताजनाः सन्ति ते मरणं प्राप्य तान एव लोकान् बारं बारं प्राप्नुवन्ति ।


ईशावास्‍योपनिषद् - 3

कुर्वन्‍नेवेह कर्माणि ....

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।।2
अन्वयः - इह कर्माणि कुर्वन् एव शतम् समाः जिजीविषेत् ।  एवम् कर्म त्वयि नरे न लिप्यते ।  इतः अन्यथा न अस्ति ।

सरलार्थः - अस्मिन् जगति मनुष्‍या: विहितकर्माणि कुर्वन्तः सन शतवर्षपर्यन्तं जीवितुमिच्छेयुः ।  एवं विधा कृतकर्मषु मनुष्‍या: लिप्ताः न भविष्‍यन्ति ।  एतदरिक्तं कर्मबन्धनात् मोक्षस्य अन्यः उपायः नास्ति ।

ईशावास्‍योपनिषद्  - 2

शिवरात्रिपर्वमाहात्‍म्‍यम् - बिल्‍वपत्रकथा ।

चित्र
एकदा पार्वतीदेवी भगवन्‍तं शंकरं प्रति अपृच्‍छत्, किं तत् व्रतं येन सारल्येन श्रेष्‍ठरूपेण च मनुष्‍या: भवतां कृपां प्राप्‍नुवन्ति । उत्‍तररूपेण श्रीशिव: एकां कथां श्रावितवान् । -
एकस्मिन् ग्रामे एक: आखेटक: परिवारेण सह निव‍सति स्‍म । पशूनां आखेटेन स: स्‍वकु‍टुम्‍बं पालयति स्‍म । स: एकस्‍य साहूकारस्‍य ऋणी अपि आसीत् । समये स: साहूकारस्‍य धनं दातुं न शक्‍तवान् । क्रोधित: धनिक: तं आखेटकं शिवमठे अरोधयत् । तस्मिन् दिवसे शिवरात्रिपर्वम् आसीत् ।
      शिवमठे शिवकथा जायमाना आसीत् । आखेटक: अवधानेन शिवरात्रिव्रतकथां श्रुतवान् । संध्‍याकाले धनिक: तम् आहूतवान् एवं च देयस्‍य ऋणस्‍य विषये पृष्‍टवान् । अग्रिमे दिवसे सर्वं धनं दा‍स्‍यामि इति वचनं दत्‍वा आखेटक: मुक्तिं प्राप्‍तवान् । तत: निर्गत्‍य बभुक्षया व्‍याकुल: सन् स: वने आखेटार्थं अटनं प्रारभत् किन्‍तु सम्‍पूर्णे दिवसे कारागारे आसीत् अत: थकित: अपि आसीत् येन आखेटं कर्तुमपि न शक्‍तवान् । स: आखेटं कर्तुं एकस्‍य तडागस्‍य पार्श्‍वे गतवान् । तत्रास्थिते विल्‍ववृक्षे स: आश्रयं स्‍वीकृत्‍य आखेटस्‍य आगमनप्रतीक्षां प्रारब्‍धव…

नाटकम्

नाटकम् अवस्थानुकृतिर्नाट्यम् - अवस्थायाः अनुकरणं नाटकमिति कथ्यते ।  यत्र काव्ये निबद्धै: उत वर्णितैः धीरोदात्तादि चतुर्भिः नायकैः आंगिकवाचिकआहार्यसात्विकअभिनयद्वारा अवस्थानुकरणं क्रियते तत् नाटकमिति कथ्यते ।

रूपं दृश्यतयोच्यते - इदं नाटकमेव रूपमपि कथ्यते ।  रंगमंचे नाटकस्य अभिनयकारणात् एव इदं रूपमपि कथ्यते ।  अस्माकं चक्षुरिन्द्रियस्य विषयं रूपमिति, तस्यैव विषयः सन् नाटकमपि रूपम् इति कथ्यते ।

रूपकं तत्‍समारोपात् - नाटकमेव रूपकम् अपि कथ्‍यते ।  यथा रूपकालंकारे उपमानस्‍य उपमेये आरोप: क्रियते तथैव नाटके अपि रामादिइतिहासपुरुषाणाम् आरोप: नटादिषु क्रियते, अतएव नाटकस्‍य अपरं नाम रूपकम्  अपि अस्ति ।  इति 
एवं विधा नाटकस्‍य त्रीणि अभिधानानि नाटकं, रूपं, रूपकं च सन्ति ।  इति 

दशरूपकस्य मंगलाचरणम्

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ।।
सरलार्थः - भगवतः नीलकण्ठस्य ताण्डवे मदजलेन पूरितः सन् गभीरः ध्वनिमानः गणेशः मृदघõवदाचरति ।  तस्मै गणेशाय नमः ।

शिक्षकदिवसविशिष्‍टम्

"शिवे रुष्टे गुरुस्त्राता,गुरौ रुष्टे न कश्चन" इति सूक्तिरेव गुरोर्महत्त्वं सूचयति।
अज्ञानतिमिरान्धस्यज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः"।।
गुशब्दस्त्वन्धकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधत्वात् गुरुरित्यबिधीयते ॥
"गुरोस्तु मौनं व्याख्यानं, शिष्यास्तु छिन्नसंशयाः" इति सूक्तिरेव गुरुशिष्ययोस्सम्बन्धः कथं वर्तेतेति कथयति । गुरुः केवलं मौनं प्रदर्श्यैव शिष्येषु परिवर्तनं सम्पादयति । स एव उत्तमो गुरुः । गुरुमेव आचार्य इति च ब्रूमः ।  आचार्यो नाम कः? "आचिनोति हि शास्त्रार्थान्, यस्स्वयमाचरति, इतरानाचारे स्थापयति च सः आचार्य इति निर्वचनम् । आचार्यस्सहरिस्साक्षादित्यपि च सूक्तिः ।

द्वारा - Iragavarapu Narasimhacharya

यस्य देवे पराभक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता हि अर्थाः प्रकाशन्ते महात्मनः।।

द्वारा- Geetha Raja

शान्तिपाठ: - ईशोपनिषद्

शान्तिपाठः
ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ऊँ शान्तिः शान्तिः शान्तिः
अन्वयः - ऊँ अदः पूर्णम् इदम् पूर्णम् पूर्णात् पूर्णम् उदच्यते ।  पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ।
सरलार्थ: - सः परमेश्वरः सर्वथा पूर्णमस्ति ।  एतत् जगदपि पूर्णमेवास्ति यतोहि पूर्णात् एव पूर्णस्य उत्पत्तिरिति अस्ति ।  तेन पूर्णेन पूर्णस्य निष्कासने सति अपि तत् पूर्णमेव अवशिष्यते इति ।  त्रितापस्य शान्तिः भवेत् ।


ईशावास्‍योपनिषद्

ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत् तेन त्यक्तेन भुंजीथा मा गृधः कस्य स्विद् धनम् ।।1

अन्वयः - जगत्याम् यत् किंच जगत्, इदम् सर्वम् ईशा वास्यम् तेन त्यक्तेन भुंजीथाः मा गृधः कस्य स्वित् धनम् ।
सरलार्थः - ब्रह्माण्डे यत् किमपि जड़-चेतनरूपी जगत् अस्ति, तत् सर्वम् ईश्‍वरेण एव अभिव्याप्तम् अस्ति ।  अतः तेन ईश्‍वरेण सह (तं मनसि निधाय) संसाधनानां त्यागपूर्वकम् उपयोगः कर्तव्यः ।  भोग्यपदार्थेषु आसक्तिः मा भवेत् यतोहि धन-धान्यानि, भोग्यपदार्थाः, संसाधनानि वा कस्य भूत्वा तिष्ठन्ति इति ।  इत्‍युक्‍ते केषांचिदपि न भवन्ति ।  इति