नैतिकमूल्‍यानां महत्‍वम्

आदिकालादेव मानवाः पशुवृत्तिं विहाय येन केनापि प्रकारेण प्राकृतिकधरातलात् उच्चैः स्थानं प्राप्तुं प्रयत्नशीलाः विद्यन्ते। अयं प्रयासः एव मानवस्य नैतिकतायाः प्रमाणमस्ति, अतः तेन अनेकानि नैतिकमूल्यानि सृष्टानि मूल्यचेतनायाः विकासः कृतः च ।  इदमेव मूल्यं संस्था-व्यवस्थासु, सर्जना-वर्जनासु विधिनिषेधेसु चापि व्याप्तमस्ति। इमानि नैतिकमूल्यानि शाष्वतं विद्यन्ते यानि प्रत्येकऽस्मिन् समाजे सर्वकालेषु समस्त वातावरणेषु च महत्वपूर्णानि वर्तन्ते ।
एतानि मूल्यानि मनुष्यस्य प्रारम्भिक जीवनात्समारभ्य अद्यावधि पर्यन्तं प्रासंगिकानि सन्ति एवं यावत् जीवने मानवतायाः बीजांकुरः विद्यते तावत् एतानि मूल्यानि प्रासंगिकानि भविष्यन्ति।

नैतिकमूल्यानि मनुष्यस्य मूलप्रेरणायामाधारभूतानि सन्ति ।  एभिरैव राष्ट्रियचरित्रनिर्माणं भवति ।  मानवता नैतिक मूल्यानां समष्टिः वर्तते, अनया शक्त्या एव इतिहासः परिवर्तते ।  मानवजीवनस्य समस्ताभिव्यक्तीनाम् उपलब्धीनां सर्जनम् एतैः सम्भवति।
‘नयनंनीतिः नीतेरिमानि मूल्यानि- नैतिकमूल्यानि’ 
यया  मनुष्यस्य जीवनं सुचारुसफलं च भवति सा नीतिः कथ्यते ।  इयं नीतिः मात्र जनसमाजस्य कृते एव न अपितु जनानां नृपाणां समेषां च व्यवहाराय भवति ।  नीतिगत व्यवहारेण् प्रजानां शासकानां समस्तलोकस्य चापि कल्याणं भवति।

वैदिककालादेव ऋषयः, कवयः, नीतिकाराः, नीतिवाक्यानि कथाभिः श्‍लोकैश्‍च व्यरचयन् ।  इत्थं नीतिः व्यवहारविदे, शिवेतरक्षतये, सद्यःपरनिर्वृत्तये, कान्तासम्मिततयोपदेशयुजे चास्ति ।  सर्वत्र दया, ममता, करुणा, अहिंसा, स्नेहः, त्यागः, विश्‍वबन्धुत्वभावना, कर्तव्यनिष्ठा, पवित्रता, न्यायप्रियता, क्षमाशीलता, इन्द्रियनिग्रहश्‍च इमानि शाष्वत नैतिकमूल्यानि सन्ति ।
तीर्थाटनं, गुरुसेवा, मातृपितृसेवा, यजनं, याजनं, नदीसुस्नानं, संध्‍यावंदनं, षोडशसंस्काराः एते मुख्यरूपेण धर्मपदवाच्याः ।  एषु कर्मसु नीतेः मिश्रणं नास्ति ।  अतः धर्मो व्यापकः ।  धृतिः, दया, सहिष्णुता, परोपकाराद्याचरणेषु द्वयोः सांकर्यमस्ति ।  परमेतत् निश्चितं यत् द्वयोराचरणेन लोकस्य परमं कल्याणं जायते एव ।  नीतिकाराणां मते इमाः नैतिकतायाः गुणाः यथा-
जीवहिंसया विरक्तिः, पैशुन्यात् निवृत्तिः, सत्यभाषणं, अतिलोभात् वितृष्णा, दीनेभ्यः सत्पात्रेभ्यश्‍च दानम्, गुरुजनेष्‍वनुरागः, विनयशीलता, श्रद्धाश्‍च; अनुत्सेकः, अतिथिसत्कारः, न्याय-वृत्तिः, सत्संगानुरक्तिः, विपदिधैर्यं, अभ्युदये क्षमा, सदसिवाक्पटुता, समयस्य सदुपयोगः इत्यादयः नैतिकाचाराः ।  एषामाचरणेनैव व्यक्तेः समाजस्य, राष्ट्रस्य विश्‍वस्य च सर्वथा कल्याणं सम्पद्यते।
विद्यार्थिनां कृते महर्षिणा भर्तृहरिणां कथितम्-
”अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्द्धन्ते आर्युविद्या यशो बलम्।।“ 
स्त्रीणां प्रमुखो धर्मः श्रीमद्भागवतपुराणे वर्णितमस्ति-
“भर्तुः शुश्रूषणं स्त्रीणां परमोधर्मो ह्यमायया।
तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणं“।। 
निष्छलभावेन स्वपत्युः एवं तत्सम्बन्धिनां सुश्रूषाकरणं, सन्ततेः सम्यग्भरणपोषणमेव स्त्रीणां परमोधर्मः अस्ति ।  यदि पतिः दुश्‍चरित्रः, दुव्र्यसनी अपि भवेत् तर्हि स्त्रीणां कर्तव्यमस्ति -
”दुःशीलो दुर्भगो वृद्धो जडो रोग्यध्नोऽपिवा।
पतिः स्त्रीभिर्नहातव्यो लोकेप्सुभिरपातकी।।“ 
विचार्यमाणे साहित्ये आदिकालादेव सर्वेषु राष्ट्रेषु अयं विश्‍वासः प्रचलितः आसीत् ।  अन्येषु प्रयोजनेसु सत्स्वपि एकं मुख्यं प्रयोजनं नैतिक परिपोषः ।  पेटरः, अरस्तू, प्लेटो, होरेसादि सर्वेभारतीयैः आंग्लैः च विचारकैः काव्यस्य मुख्यप्रयोजनं नैतिकविकासः एव स्वीकृतः ।
नीतिशतकम्, दृष्टान्तशतकम्, पंचतन्त्रः, नीतिसारः, विदुलोपाख्यानम्, विदुरनीतिः, चाणक्यनीतिश्‍च इत्यादीनि बहूनि नीतिगर्भाणि पुस्तकानि उपलभ्यन्ते ।  वेदे अपि नैतिकमूल्यानि सुष्ठुरूपेण वर्णितानि सन्ति।
परन्तु अधुना वयं यानि मूल्यानि धारयामः तानि सम्भवतः भविष्‍यकाले समाजसन्तुलनाय, समायोजनाय च अहितकराणि, घातकानि च सन्ति; सनातनपरम्परां विस्मृत्य सन्देहास्पदस्थितौ च विद्यन्ते ।  पाश्‍चात्यसंस्कृतेः आधुनिकमानवसमाजः दिग्भ्रमितः वर्तते ।  सः उचितानुचितमूल्यांकनं कर्तुम् अशक्तः ।  केचन जनाः पूर्णरूपेण पाश्‍चात्यसंस्कृतौ एव लिप्ताः आत्मानं गौरवान्विताः चिन्तयन्ति ।  अतः आवश्‍यकमस्ति यत् वयं स्वप्राचीना भारतीय संस्कृतेः सभ्यतायाश्‍च अनुपालनं कृत्वा स्वचिन्तनं परिपुष्ट्य आवश्‍यकतानुरूपं आधुनिकप्राचीनपरम्परयोः समिश्रणं कृत्वा स्वजीवने योजयामः ।  यदि वयमधुना स्वनैतिकमूल्यानां ह्रासं न विरमेम तर्हि भविष्‍ये  अस्माकं संस्कृतिः, सभ्यता, अस्मिता च संकटापन्ना स्थितौ भविष्यति; यस्य संरक्षणं, संवर्धनं च अस्माकं परं कर्तव्यमस्ति।
       अतएव स्पष्टरूपेण वक्तुं शक्यते- आधुनिकविषमपरिस्थितौ नैतिकमूल्यानां आवश्‍यकता वर्तते। यतोहि प्राचीन साहित्येषु वेदेषु नैतिकमूल्यानां परम्परा प्रवहति, तत्पश्‍चात् नैकैः ऋषिभिः, मनीषिभिः स्व-स्व दर्शनसाहित्यं विविधरूपेषु प्रकटीकृतम्; येन मानवाः पूर्णरूपेण लाभान्विताः अभवन् ।  परन्तु अधुना पाश्‍चात्यसभ्यतायाः अन्धानुकरणे संस्कृतेः सभ्यतायाश्‍च ह्रासं दूरीकर्तुं नैतिकमूल्यानां महती आवश्‍यकता वर्तते ।।

-->
डॉ. कुलदीपक शुक्‍ल: 
एसोसिएट प्रोफेसर, अजुनगंज महाविद्यालय: 
लखनउ 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .