पिंगल-छन्दशास्त्रम्


महत्‍वम् - छन्‍दशास्‍त्रं वैदिकसाहित्‍यस्‍य पंचमांगमस्ति ।  उक्‍तमप्‍यस्ति । - 

छन्‍द: पादौ तु वेदस्‍य हस्‍तौ कल्‍पो थ पठ्यते 

ज्‍योतिषामयनं चक्षुर्निरुक्‍तं  श्रोत्रमुच्‍यते 
शिक्षा घ्राणं तु वेदस्‍य मुखं व्‍याकरणं स्‍मृतम् 
तस्‍मात् साड्.मधीत्‍यैव ब्रह्मलोके महीयते ।। 

आचार्यकात्‍यायन: छन्‍दशास्‍त्रस्‍य महत्‍ववर्णनं कुर्वन् वदति - यो ह वा अविदितर्षेयच्‍छन्‍दो -दैवत-ब्राह्मणेन मन्‍त्रेण याजयति वा अध्‍यापयति वा स्‍थाणुं वर्च्‍छति गर्ते वा पात्‍यते या पापीयान् भवति ।  (सर्वानुक्रमणी 1/1)
वेदेषु अपि गायत्री, उष्णिक्, अनुष्‍टुप्, वृहती, पंक्ति, त्रिष्‍टुप्, एवं च जगती इत्‍यादय: छन्‍दा: प्रयुक्‍ता: सन्ति ।   

व्‍युत्‍पत्ति: -

यथा आचार्यपाणिनिना व्‍याकरणशास्‍त्रस्‍य सूत्राणि, शौनकादिभि: प्रातिशाख्‍यानां सूत्राणि, वात्‍स्‍यायनेन च कामशास्‍त्रस्‍य सूत्राणि लिखितानि तथैव महर्षिपिंगल: छन्‍दशास्‍त्रस्‍य सूत्राणि विलिखितवान् ।  एतदर्थमेव छन्‍द शास्‍त्रस्‍य अपरं नाम पिड्.लशास्‍त्रमपि अस्ति । 

आचार्यभरतेन उक्‍तम् - 
छन्‍दहीनो न शब्‍दो स्ति, न छन्‍द: शब्‍दवर्जितम् ।  (नाट्यशास्‍त्रम् 14/45)

महर्षिकात्‍यायनेन अपि तस्‍यैव समर्थनं कृतम् - 
छन्‍दोभूतमिदं सर्वं वाड्.मयं स्‍याद् विजानत: 
नाच्‍छन्‍दसि न चापृष्‍टे शब्‍दश्‍चरति कश्‍चन ।।   (ऋक् यजुष् परिशिष्‍टम्)

लौकिके साहित्‍ये सर्वप्रथम: छन्‍द: महर्षिवाल्मीकिना प्रयुक्‍तम् ।  क्रौंचयुगलस्‍य वियोगं दृष्‍ट्वा तस्‍य मुखात् साक्षात् निर्गतम् - 
मा निषाद् प्रतिष्‍ठां त्‍वमागम शाश्‍वती समा: 
यत्‍क्रौंचमि‍थुनादेकम् अवधी: काममोहितम् ।।
एष: श्‍लोक: लौकिकसंस्‍कृतसाहित्‍यस्‍य सर्वप्रथम: श्‍लोक: (छन्‍द:) अभवत् ।  अतएव अस्‍य नाम अपि श्लोक: (अनुष्‍टुप्) इति अभवत् ।

छन्‍दशब्‍दस्‍य व्‍युत्‍पत्तिं कुर्वन् निरुक्‍ते आचार्ययास्‍क: अवदत् - 
छन्‍दान्सि छादनात् ।  (निरुक्‍तं 1/3)
इत्‍युक्‍ते मनोभावान् य: आच्‍छन्‍नं करोति स: छन्‍द: । 

एका अन्‍या व्‍युत्‍पत्ति: अपि एवमेव वदति आचार्यस्‍य समर्थने - 
छादयन्ति ह वा एनं पापात् कर्मण: 

अपरा व्‍युत्‍पत्तिरपि एतयो: समर्थनं करोति 
चन्दयति आह्लादयति इति छन्‍द: 
इत्‍युक्‍ते पाठकान् य: आह्लादयति स: छन्‍द: । 

एवं विधा वक्‍तुं शक्‍यमस्ति यत् छन्‍दशब्‍देन वैदिकलौकिकशास्‍त्रयो: प्राप्‍तछन्‍दानाम् अवगमनं भवति ।   छन्‍दस्‍य परिचयं द्विधा क्रियते ।  मात्रागणनाधारेण वर्णगणनाधारेण च ।  मात्रागणनाधारेण कृतं वर्गीकरणं मात्रिकम् उच्‍यते, यत: वर्णगणनानुसारं कृतं वर्गीकरणं वर्णिकम् इति उच्‍यते ।  एवं विधा छन्‍दस्‍य प्रारम्भिकभेद: द्वि‍धा अस्ति । 
1- मात्रिकम् (वृत्‍त) - अस्मिन् अक्षराणां गणना क्रियते । 
2- वर्णिकम् (जाति) - अस्मिन् मात्रा: गण्‍यन्‍ते । 

अमरकोषस्‍य अनुसारं 
छन्‍दस् शब्‍दस्‍य चत्‍वार: अर्था: भवन्ति - 1. पद्यम्, 2. अभिलाषा, 3. वेद, 4. स्‍वच्‍छन्‍दता ।  प्रायेण छन्‍दशब्‍दस्‍य 'पद्य' अर्थ: लोके अतिप्रचलित: अस्ति । 

पद्य शब्‍दस्‍य व्‍युत्‍पत्ति: एवम् अस्ति - 
''पदम् चरणम् अर्हतीति पद्यम् । 
अर्थात् यत् चरणेषु विभक्‍तमस्ति तत् पद्यम् । 
-->

टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी