प्राणिजीवने स्‍वतन्‍त्रता


स्वतंत्रतायाः प्राणिजीवने अत्यधिक महत्वं वर्तते । उक्तमपि चास्ति “सर्वं परवशं दुःखम्, सर्वमात्मवशं सुखम्“ ।  सर्वे प्राणिनः स्वातन्त्र्यमिच्छन्ति ।  कोपि परतन्त्रो भवितुं नेच्छति ।  मानवाः एव न अपितु समस्त पशुपक्षिणः अपि स्वतन्त्रतामिच्छन्ति ।
15 अगस्त भारतीयानां स्वतन्त्रतायाः दिनमस्ति ।  अस्मिन् दिने 1947 ख्रीष्ताब्दे आंग्लशासनात् भारतं स्वतन्त्रमभूत् ।  ततः पूर्वं भारतं बहुकालपर्यन्तं परतंत्रतायां बद्धमासीत् ।  इस्वीये द्वादशशतीतः सप्तदशशतीपर्यन्तं भारतं मुगलानां बन्धने आसीत् ततः परम् आग्लानां बन्धने पतितम् ।  भारतस्य स्वतन्त्रतायाः कृते प्रथमवारं 1857 ईसवीये मंगलपाण्डेयः, लक्ष्मीबाई प्रभितिभिः वीरैः आंग्लैः सह युद्धं कृतम् ।  तत्प्रभृत्येव क्रान्तिकारिभिः तदा आरभ्य एव निरंतरं स्वतन्त्रतासंग्रामं प्रचालितम् ।  एतदनन्तरम् आंग्लभारते एव आई.सी.एस. परीक्षा उत्तीर्णा सन अपि नेताजी सुभाषचन्द्रबोसः भारतभूमेः स्वतन्त्र्तायाः कृते आत्मनः प्राणमपि अत्यजत् ।  सः बाल्यकालादेव बुद्धिमान् आसीत् ।  प्रारम्भे तस्य पिता आंग्लशासनस्य समर्थकः आसीत् किन्तु सुभाषः बाल्यकालातेव आंग्लशासनस्य विरोधिः आसीत् ।  सुभाषः स्वतन्त्रभारतं अइच्छत् । द्वितीयविश्वयुद्धे सः आजादहिन्दफौजस्य सर्वोच्चसेनापति आसीत् । रासबिहारी बोसः सुभाषं दक्षिणोत्तर जम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तर जम्बुद्वीपात् पूर्वोत्तरभारते आंग्लराज्ये आक्रमणम् अकरोत् । सुभाषस्य स्वाधीनतायाम् योगदानम् अद्वितीयम् अस्ति ।  केचित् बुधाः अवदन्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।
पश्चात् गांधिनः नेतृत्वे अहिंसासिद्धांतसमर्थितअसहयोगआन्दोलननाम्नः उपयुद्धम् कृतम् ।  भगत सिंह, चंद्रशेखर आजाद प्रभृतयः वीराः भारतीय स्वतन्त्रतायाः कृते स्वप्राणान् समर्पितवन्तः ।  बहुकालात् लब्धायाः स्वतंत्रतायाः कृते अस्मिन् दिने उत्सवः भवति, प्रभातगानं भवति, राष्ट्रध्वज-वन्दनं भवति च ।  “स्वराज्यं जन्मसिद्ध अधिकारः’’ इति जानिमः वयं किन्तु अस्माकं स्वतंत्रतायाः सन्दर्भे अयं ज्ञानं सम्प्रति अप्रासंगिकमस्ति ।  स्वाधीन भारते अद्य किमर्थं अस्माकं दुर्गतिः जायमाना अस्ति इति सोचनीयः।
कदाचित् सम्पूर्णविश्वयस्य सिरमौरवत् भारतवर्षस्य अद्य का गतिः अस्ति इति वयं सम्यकतया जानिमः ।  अस्माकं भारतं सुवर्णखगः इति आसीत् खलु किन्तु अद्य न सा स्थितिः नैव सा सम्पन्नता इति विचारणीयः विषयः ।  अस्य् भारतस्य क्रोडे आगन्तुं  देवाः अपि उत्सुकाः भवन्ति ।  देवा अस्य  देशस्य च महिमागानम् कुर्वन्ति।



गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे
स्वर्गापवर्गास्पदमार्गभूते भवन्तु भूयः पुरुषः सुरत्वा्त् ।।
इति विष्णुपुराणे निगदितम्
कानिचन् कारणानि सन्ति यत् अस्माकं प्रगतिः दुर्गतेः परिवर्तिता भवति ।  प्रथमा तु अस्माकं परस्पर द्वेषभावना ।  अद्य पर्यन्तं अस्माकं मनः विश्वबन्धुत्वं इति भावनया न प्रचोदितः ।  वयं अद्यापि मनसा विभिन्नधर्मावलम्विनः न तु मानवता इति एकस्य एव धर्मस्य पोषकाः ।  वयं अद्य पर्यन्तं हिन्दवः, मुस्लिमाः न तु केवलं भारतीयाः इति एतदर्थमेव अद्य अस्माकं ऐक्यसम्बन्धः क्षीयते न तु वर्धते।
द्वितीयं इदं यत् अद्य अस्मासु केचन मूर्ख-पण्डिताः ये केवलं ग्रन्थानां समालोचनायां स्व आत्म तुष्टिः प्राप्यन्ते ।  तान अहं मूर्ख-पण्डिताः इति किमर्थं उक्तवान ।  यतोहि वास्तविकरूपेण ते विद्वान्सः, तेषां विभिन्नं दिशायां गतिः अस्ति  अतः ते पण्डिताः किन्तु ते स्व विद्वतां केवलं परेषां पादकर्षणे एव प्रयोजयन्ति अतः ते मूर्खा: ।  वयं सर्वे एकीभूतं भवितुं शक्नुमः किन्तु  तदर्थं अस्माकं आग्रहः, अस्माकं मनः, अस्माकं विचाराः समानाः भवेयुः ।  वेदः अपि उच्यते - समानी व आकूतिः समानानि हृदयानि वः ।
प्रत्येकस्य मनुष्यस्य स्वधर्मे आस्था स्वाभाविकमेव पुनश्च स्वग्रन्थानां प्रति अपि तस्या सम्मा नभावना भवति एव अतः यदा कश्चित् अन्यः तस्य भावनायाः उपरि कुठाराघातः करोति चेत् सः मनुष्‍या: मनसा खिन्नः भवति अतः सः अपि कटुप्रत्युत्तरं ददाति ।  एवं विधा शब्दयुद्धः आरभ्यते ।  अतः मम अनुरोधः अस्ति यत भवन्तः सर्वे मिलित्वा स्वतान्त्रतायाः रक्षणं कुर्वन्तु ।  राष्ट्रीयता सर्वोपरि अस्ति, इति सदैव स्मरेत ।

जयतु भारतम्  , जयतु संस्कृतम्

नेहा शुक्ला
लखनऊ
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी