आधुनिकभारतम्

आङ्ग्लेयप्रभुत्वात् विमुक्तिं प्राप्य यदा वयं प्रजास्वामिकप्रभुत्वं निर्मितवन्तः तदारभ्य आधुनिकभारतमिति कथ्यते ।  ईदृशे भारते प्रजास्वाम्यं समतौल्याभावेन नाममात्रमस्ति ।  देशोऽयं खण्डितोऽस्ति । जनाः बहुधा वर्गरूपेण विभक्ताः ।  पालकाः तेषु वर्गेषु पक्षपातिनसन्त्यनुचितरीत्या ।  समन्याय पालनस्य राहित्यं जनानां मध्ये विद्वेषं जनयति। शासनसभासभ्येषु लोकसभासभ्येषु कार्यनिर्वाहकवर्गेषु न्यायविभागे च बाहुळ्येन निन्दितचरिताः प्रविशन्ति ।  एषु कार्यदक्षता लुप्यते । धनार्जनदृक्पथमधिकमस्ति । पदवीकांक्षाः आनुवंशिकपालनाभिरतिः अलसत्वं अधिकारदाहश्च वर्धन्ते दिने दिने ।  प्रजानां वा देशस्य वा समस्यां परिष्कर्तुं तेषां समुचिता शक्तिर्न दृश्यते ।  राजकीयपक्षाः मिथः कलहायन्ते ।  मतदानाय जनान् प्रलोभयन्ति । नायकत्वचयनं न प्रज्ञया, किन्तु, धन-व्ययेन भवति । रक्षकभटैर्विना,
आन्दोळनं विना चयनमसाध्यं दृश्यते । परीक्षानिर्वहणमपि तथैव ।
विद्याविधानं स्वदेशीयं नास्ति ।  विदेशीविद्याविधानमेव चलति । विद्या विक्रीयते आपणे वस्तूनीव । न कस्यापि जातीयता दृष्टिर्वा स्वदेशीयचिन्तनं वा न दृश्यते । स्वार्थप्रयोजनानि समधिकानि जातानि । धनार्जनैकपराः भवन्ति ।  शुल्कानि द्विगुणीकृतानि त्रिगुणीकृतानि च कुर्वन्ति । प्रायेण विद्यालयेषु निरसनप्रदर्शनानि सम्भवन्ति । विद्यार्थिनीविद्यार्थिनः कैश्चित् राजकीयपक्षैः अपमार्गे नीयन्ते । विदेशम्प्रति पठनाय उद्योगाय वा गत्वा विद्यार्थिनः विद्यार्थिन्यश्च वञ्चिता भवन्ति ।  ते निरुद्योगिनो भूत्वा विप्लवमार्गमनुसरन्ति ।  अधीता विद्या जीवनस्य मूल्यानि न ददाति । व्यवस्थासु व्यक्तिषु वा नैतिकता धार्मिकता सौशील्यादिगुणा वा गगनकुसुमानि भवन्ति ।
विदेशीया विषमसंस्कृतिः भारते प्रविष्टा ।   स्वलिङ्गसम्पर्कः, सम्पर्कव्याधिः, प्रेमिकदिवसस्य संरम्भः, मादकद्रव्यसेवनं, विशृङ्खल सहनर्तनमेवमादीनि कानिचिदुदाहरणानि ।
राजकीयपक्षेषु पक्षात् पक्षस्य लङ्घनं पालने स्थिरत्वं न सम्पादयति । विद्यालयेषु कुत्रचिदपि पर्यवेक्षणं समर्थं नास्ति । प्रश्नपत्रसङ्ग्रथनेऽपि अध्यापकाः अलसाः भवन्ति । प्राग्दत्तान्येव प्रश्नपत्राणि आम्रेडितानि कुर्वन्ति ।  विविधशिक्षाभियानव्याजेन लक्षशः कोटिशश्च धनव्ययो भवति । परन्तु सार्थकता नास्ति ।
पालकवर्गाः विविधरूपेषु विविधस्तरेषु अभियोगान् प्राप्नुवन्ति । न्यायाधिपतयोऽपि प्रायेण उत्कोचं स्वीकृत्य कारागारबद्धाः भवन्ति ।  न्यायवादिनोऽपि बहिरागत्य निराहारदीक्षां आन्दोळनञ्च कुर्वन्ति ।  लोकयान, रेलयान दुर्घटनानि नित्यकृत्यानि भवन्ति ।  सचिवालयेषु मन्त्रिणां वा उद्योगिनां वा कार्यशीलता न दृष्टा ।  रक्तचन्दन, खनिज, वालुकादीनां चैर्याणि भवन्त्येव ।  समूलं निवारयिता न कोऽप्यस्ति ।  राजमार्गे स्त्रीणां मङ्गळसूत्रसहित कण्ठहाराः, गृहेभ्योऽपि स्वर्णाभरणानि बलात् तर्जयित्वा अपह्रियन्ते ।  वित्तकोशाः लुण्ठिता भवन्ति ।
अपराधिविषये शिक्षापि सम्यक् नास्ति ।  दण्डनं विलम्ब्यते ।  तेन न्यायो न लभ्यते ।  अदण्ड्याः दण्ड्यन्ते ।  दण्ड्याः उपेक्ष्यन्ते ।  शिशवोऽपि चिकित्सालयात् अपह्रियन्ते । व्यक्तिविग्रहाः प्रतिष्ठाप्यन्ते । कोपेन ते ध्वस्ताः क्रियन्ते । महापुरुषाः
अनुभवज्ञाः दिवङ्गताः । किञ्चिज्ञ्ज्ञाः अकिञ्चित्कराः पालकवर्गेषु बहुळास्सन्ति ।  समाजसेवनं विस्मृतम् ।  व्यक्त्याराधनं प्राथम्यं वहति । कुटुम्बेष्वपि जनाः विघटिताः कलहायन्ते च ।  पिता पुत्रं हन्ति ।  पुत्रः पितरं हन्ति ।
एवं दम्पत्योरपि । निरुद्योगिनः न सम्यक् व्यापृताः विध्वंसनचणाः भवन्ति ।  अहिंसया स्वातन्त्र्यं प्राप्तमिति जनाः चिन्तयन्ति ।  परन्तु, वस्तुतः हिंसैव प्रवृत्ता । सा प्रायेण येन केनापि रूपेण अनुवर्तते एव । स्वदेशीयचिन्तनं स्वधर्मे निष्ठा, स्वदेशीयवस्तूनामुपयोगः मृग्यन्ते ।
इतिबाधाः आततायिनस्सन्त्येव । अरिषड्वर्गः विजृम्भते ।  पारिश्रामिकीकरणेन वातावरणकालुष्यं रोगकारकम्भवति ।  अद्यैवं वार्ता श्रुता--रक्षकभटानां भार्याः स्वासां भर्तारः दूरतीराणि प्रेष्यन्तेति निरसनं प्रदर्शयन्ति ।  विधर्मीय मतान्तरीकरण, बलात्कार विवाहैः परिवर्तनादिकं प्रवर्तते एव ।
एवं आधिभौतिक, आधिदैविक, आध्यात्मिक तापाः अपि जनान् पीडयन्तः भारतं शान्तिरहितं, पुष्टिरहितं तुष्टिरहितं  शक्तिरहितञ्च कुर्वन्ति ।  एवमस्ति भारतमाधुनिकम् ।
अभिवाद्य,
ऐएन्नेस्साचार्यः।
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी