अमरशहीदभगतसिंह:


प्रसिद्धक्रान्तिदूतः भगतसिंहस्य विषये कः न जानाति भारतीयः ।  23वर्षस्य लघुवये अपि यत् महत्कार्यं तेन कृतमासीत् तत् विस्मर्तुं शत्रवः अपि न शक्यन्ते, भारतीयाः किम् ।  तस्य द्वे मित्रे राजगुरुः, सुखदेवः च; एते त्रयः मिलित्वा ब्रिटिशराज्यस्य मूलोच्छेदने महत्भूमिकां गृहीतवन्तः, येन सम्पूर्णभारते लघुबालाः, युवानः, वृद्धाः च सर्वे भगतसिंहः एव भवामि इति चिन्तयन्ति स्म तस्मिन् समये ।  भारतीयस्वतन्त्रतासंग्रामस्य प्राणभूतः सन्ति एते त्रयः महापुरुषा: ।
जन्म: भगतसिंहस्य जन्म 28 दिनांके सितम्बरमासे शनिवासरे, 1907 ख्रीस्ताब्दे लायलपुरजनपदस्य बंगाग्रामे जातमासीत् ।  तस्य पितुः नाम सरदार किशन सिंहः आसीत् माता च विद्यावतीकौर इति आसीत् ।  एते आर्यसमाजं गृहीतवन्तः आसन् ।
अमृतसरे अप्रैलमासस्य 13 दिनांके 1919 ख्रीस्ताब्दे जलियावालाबागकांडम् इति नरसंहारः अभवत् येन भगतसिंहः अतिप्रभावितः अभवत् ।  सः तदा नेशनल कॉलेज मध्ये पठन् आसीत् ।  शिक्षां त्यक्त्वा सः स्वतन्त्रतासंग्रामे कूर्दितवान् ।  सः नौजवान भारत सभा इत्यस्य स्थापना कृतवान् ।  काकोरीकाण्डे रामप्रसादबिस्मिलस्य मृत्युनन्तरं भगतसिंहः पण्डितचन्द्रशेखरस्य समूहे हिन्दुस्तान रिपब्लिकन एसोसियेशन आगतवान् ।  अस्य संघस्य नामपरिवर्तनं कृत्वा हिन्दुस्तान सोशलिस्ट रिपब्लिकन एसोसिएशन इति कृतवान् ।  अस्मिन् संघे एव भूत्वा राजगुरुणा सह मिलित्वा दिसम्बर मासे 17 दिनांके 1928 ख्रीस्ताब्दे आंग्लाधिकारिणं जे.पी. सांडर्स इति अयं हतवान् ।  बटुकेश्‍वरदत्तेन सह मिलित्वा अलीपुरमार्गे स्थितः एसेम्बली मध्ये 8 अप्रैल 1929 ख्रीस्ताब्दे विस्फोटकः पातितवान् तत्रैव बन्धनमपि स्वीकृतवान् ।
प्रमुखगतिविधयः - 12 वर्षस्यैव अवस्थायां यदा जलियावालाबागकाण्डं जातं तदैव भगतसिंहः 12 मील पदयात्रां कृत्वा जलियावालाउपवनं प्राप्तवान् ।  गान्धिना असहयोग आन्दोलनं कृतम् यस्मिन् भगतसिंहः सहभागं गृहीत्वा अंहिसात्मकक्रान्ते भागं स्वीकृतवान् ।  किन्तु अकारणमेव असहयोगान्दोलनस्य निरस्तीकरणे भगतसिंहः अपि रुष्‍ट: जातः ।  सः सशस्त्रआन्दोलने सक्रियः अभवत् ।  तदा एव तस्य मेलनं चन्द्रशेखरेण सह जातः ।  तत्रैव भगवतीचरण व्होरा, सुखदेव, राजगुरुः आदयः अपि प्राप्ताः ।
1928 ईसवीये साइमन कमीशन इत्यस्य बहिष्‍कारे भागं वहन् लाला लाजपतरायः दण्डप्रहारेण दिवंगतः अभवत् ।  तस्य मृत्योः प्रतिशोधं स्वीकर्तुं भगतसिंहः, राजगुरुः, बटुकेश्‍वरः च त्रयः मिलित्वा योजनां साधितवन्तः ।  लाहौरकोतवाली पुरतः भगतसिंहः, राजगुरुः च व्यस्तमुद्रायाम् अटनमारब्धवन्तौ ।  बटुकेश्‍वरदत्तः आत्मनः साइकिलयानं स्वीकृत्य मार्गे एव उपविष्‍टवान् ।  सः यानसाधनाव्याजेन मार्गे एव उपाविशत् ।  चन्द्रशेखरः डी.ए.वी.विद्यालयस्य परिधिभित्तेः पृष्‍ठे निमीलितः सन रक्षाकार्यं कुर्वन्नासीत् ।
सपाद चतुर्वादने स्काटस्य स्थाने ए.एस.पी. साण्डर्सः आगतः ।  राजगुरुः भुशुण्डिद्वारा गुलिकाप्रहारं कृत्वा तं तत्रैव हतवान् ।  पृष्‍ठे आगच्छन् रक्षकं चन्द्रशेखर आजादः हतवान् ।  अनेन प्रकारेण लाला लाजपतरायस्य प्रतिशोधः स्वीकृतः ।
8 अप्रैल 1929 ख्रीस्ताब्दे भगतसिंहः बटुकेश्‍वरदत्तेन सह मिलित्वा असेम्बलीमध्ये विस्फोटं पातितवान् ।  अनेन माध्यमेन सः सम्पूर्णे भारते एतं सन्देशं प्रसारितवान् यत् आग्लीयाः अस्माकमुपरि अनाचारं कुर्वन्तः सन्ति ।  एतस्य विरुद्धं जनाः प्रयत्नं कुर्वन्तः सन्ति ।  अतः भवन्तः अपि जागृताः भवन्तु ।
विस्फोटकं पातयित्वा भगतसिंहः तत्रैव स्थितवान् ।  आत्मनं बन्दीकृतवान् च ।  सः जानाति स्म यत् एते आंग्लीयाः तं फाँसी इति दण्डं दास्यन्ति किन्तु तथापि सः आत्मानं बन्दीकृतवान् येन सः साक्षात् भारतीयान् सन्देशं दातुं शक्नुयात् स्वतन्त्रतासंग्रामस्य कृते ।  तस्य अस्य प्रकरणस्य प्रभावः अपि द्विगुणितः ।  सम्पूर्णे भारते जनाः जागरिताः अभवन् ।  सर्वे स्वतन्त्रतासंग्रामे कूर्दनमारब्धवन्तः ।
कारागारे भगतसिंहः वर्षद्वयपर्यन्तं स्थितवान् ।  तत्र विभिन्नलेखमाध्यमेन सः जनजागरणमारब्धवान् ।  तत्रैव मित्रैः सह 64 दिवसस्य अनश्‍नं कृतवान् यस्मिन् यतीन्द्रनाथः दिवंगतः ।
23 मार्च 1931 दिनाँके सायंकाले 7.23 वादने भगतसिंहः, सुखदेवः, राजगुरुः च त्रयः अपि मृत्यवे समर्पिताः ।  फाँसीदण्डं प्रति गमनसमये ते मिलित्वा गायन्तः आसन् -
मेरा रंग दे बसन्ती चोला
आंग्लीया भगतसिंहस्य शरीरस्य शताधिकविच्छेदं कृत्वा सतलजनद्यां क्षिप्तवन्तः किन्तु तदैव ग्रामीणाः आगत्य विच्छेदान् एकत्रीकृत्वा विधिवतदाहसंस्कारं कृतवन्तः ।
भगतसिंहः हिन्दी, उर्दू, पंजाबी, आंग्लं तथा च बांग्ला भाषा: जानाति स्म् ।  मृत्योः पूर्वं भ्राता कुलतारं प्रेषिते पत्रे भगतसिंहः लिखितवान् -

उन्हें यह फिक्र है हरदम, नयी तर्ज-ए-जफा क्या है ?
हमें यह शौक है देखें, सितम की इन्तहा क्या है ?
दहर से क्यों खफा रहें, चर्ख का क्या गिला करें ।
सारा जहाँ अदू सही, आओ! मुकाबला करें ।।

भगतसिंहस्य मृत्योरनन्तरं प्रायेण सर्वे भारतीयाः गान्धिनः विरोधमारब्धवन्तः ।  ते सर्वेऽपि भगतसिंहस्य मृत्योः उत्तरदायित्वं गान्धिनं मत्वा तं हन्तुमपि सिद्धाः आसन् किन्तु पदे-पदे आंग्लाधिकारिणः तस्य रक्षां कृतवन्तः ।
भगतसिंहस्य बलिदानं वृथैव न गतम् ।  तस्य मृत्योः 10 वर्षानन्तरे एव आंग्लशासनस्य मूलविच्छेदः अभवत् ।  औपचारिकरूपेण आंग्लीयाः 15 अगस्त 1947 ख्रीस्ताब्दे भारतस्य स्वतन्त्रतामंगीकृतवन्तः ।
अद्यापि भारतपाकिस्तानयोः जनाः भगतसिंहस्य वीरतायाः गानं कुर्वन्तः आत्मानं धन्यमनुभूयन्ते ।
इति
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .