वास्‍तविकस्‍वतन्‍त्रता


स्वतन्त्रतादिवसस्य प्रत्येकक्षणम् अस्मान् अक्षुण्णप्रेरणां प्रददाति ।  इयमेव स्मृतिं संगृहीतुं इमं राष्ट्रीपर्वरूपेण सम्मानं दीयते -
‘‘समृद्धं सर्वसौभाग्यं स्वदेशं भारतं वन्दे ।
             परं प्रेमास्पदं पुण्यं प्रियं चाभारतं वन्दे ।।’’ गीतगंगा)
अस्मिन्नेव दिने स्वतन्त्रता-संग्रामस्य विजयिनः वीराः स्वतन्त्रतां दापितवन्तः, देशस्य स्वतन्त्रतायाःच कर्णधारान् इदं सन्देशम् अपि दत्तवन्तः यत् महान् संकटानि तीत्र्वा यां स्वतन्त्रतां वयं प्राप्तवन्तः तां भवन्तः सर्वे सम्यक्रूपेण संरक्षयन्तु ।  तदेव अस्माकं योगक्षेमं पूर्णं भविष्यति ।
इदानीं वयं स्वतन्त्राः स्मः ।  सर्वतः ध्वनिः आगच्छति यत् विकासशीलं भारतवर्षं दिनानुदिनं प्रगतिपथे अग्रसरो अस्ति ।  यत् राजनैतिकदलं सत्तां प्राप्नोति, पूर्वम् एवमेव उद्घोषयति यत् ‘‘देशतः निर्धनतां, अशिक्षां अस्पृष्यतां च नाशयिष्यामि ।  इदम् अस्माकं प्रथमं कर्तव्यमस्ति ।’’  अहं विचारयामि यत् एतैः प्रयासैः षष्‍ठ्याधिकवर्षेषु देशेन किंचित् उन्नतिः प्राप्ता परम् अद्यापि पूर्णरूपेण सामाजिक-आर्थिक-राजनैतिकस्वतन्त्रता च न प्राप्ता । -
‘‘प्रभातं तु जातं तमो नाऽपयातम् ।
गता यामिनी सा जगन्नोविभातम् ।।
                                       (गीतगंगा)
अद्यापि देश: मानसिकरूपेण परतन्त्रो अस्ति, यद्यपि बाह्यरूपेण स्वतन्त्रता प्राप्ता ।  अस्य कारणम् इदमस्ति यत् अद्यापि अधिकांश-भारतीयाः आंग्लभषाभाषणे गौरवम् अनुभवन्ति ।  नेतारः अधिकारिणः मन्त्रिणश्‍च स्वविचारान् अधिकांशतः आंग्लभाषायामेव प्रकटयन्ति ।  विदेशयात्रासु-पत्रकारवार्तासु च प्रत्युत सार्वजनिकसभासु आंग्लभाषायाः एव प्रयोगं कुर्वन्ति राष्ट्रभाषा हिन्द्याः, मातृभाषा देववाणीसंस्कृतस्य च उपेक्षां कुर्वन्ति ।
अद्यापि राष्ट्रिय-पर्वाणि आंग्लदिनांकेषु एव मोदयन्ति ।  ‘15 अगस्त, 26 जनवरी, 2 इत्यादीनि ।  किम् एतेषु दिनांकेषु कापि भारतीयतिथिः नासीत् यत् आंग्लदिनांकानामावश्‍यकता अभवत् ।  सर्वे जानन्ति एव यत् भारते विक्रमसंवत्-शकसंवत् च पूर्वमेव प्रचलितौ ।  चैत्रादयः द्वादशमासाः अपि सर्वसाधारणे प्रचलिताः सन्ति ।  ‘15 अगस्त’ इति दिनांके श्रावणमास-कृष्णपक्ष-तिथिःचतुर्दशी दिनं-शुक्रवासरः विक्रमसंवत् 1947 आसीत् परं इमां त्यक्त्वा पराधीनतां प्रदर्शयन्ति ।

यदा आर्थिकस्वतन्त्रतायाः प्रश्‍नम् आगच्छति तदापि निराशा एव दृष्यते ।  अद्यापि ऋणार्थं धनिकदेशानां आश्रयं गृह्णन्ति ।  अद्यापि देशे असंख्याः भिक्षुकाः भ्रमन्ति ।  बुभुक्षा-पिपासया च शिशवः रुदन्ति ।  निर्धनता अट्टहासं करोति ।  अस्यां दशायां उन्नतिः कथं सम्भवा अस्ति ।
इदानीं आतंकवादः वर्द्धते ।  सम्पूर्णदेश: आतंकेन आतंकितः अस्ति ।  कदा-कुत्र-कः स्वजीवनलीलां समाप्तं करिष्यति, कोपि न जानाति ।  सहस्राधिकाः सैनिकाः निरपराधनागरिकाः च मृत्यं प्राप्नुवन्ति ।  इयं कीदृषी स्वतन्त्रता ?
‘‘दर्शं-दर्शं देव-देशस्य दैन्यं
स्मारं स्मारं मातृभूमेर्भविष्‍यम् ।
श्रावं-श्रावं क्र्रन्दनं पीडितानां
चित्रं नित्यं हा भृषं दूयते नः ।।
                                   (युगदर्शनम्)
सम्पूर्णराष्ट्रे भ्रष्टाचाररूपी राक्षसः मुखम् उद्घाटय स्थितोस्ति ।  कुत्रचित् उत्कोचः, कुत्रचित् परधनहरणं इत्यादीनां वार्ताः वार्तापत्रे आकाशवाण्यां, दूरदर्शने च पठिताः श्रुताः च ।
इदं सर्वं जायमाने सति वयं स्वतन्त्राः इति चिन्तयामः ।  पूर्वोक्तानां समस्यानां निवारणार्थं पूर्णस्वतन्त्रतां च प्राप्तुं वास्तविकं संघर्षम् अवशिष्टमस्ति ।  अस्य मात्रेकम् उपायं वर्तते यत् जनानां चारित्रिकपतनं रुन्ध्यात्, यतोहि जनेन समाजस्य निर्माणं भवित समाजेन राष्ट्रस्य च ।  यदि प्रत्येकः जनः सच्चरित्रं भविष्यति तर्हि समाजं चरित्रवान् भवितु शक्नोति ।  तदेव राष्ट्रं सर्वोन्नतिं प्राप्य अखण्डं भविष्यति ।  वयं वास्तविकस्वतन्त्रतां च प्राप्तुं समर्थाः भविष्यामः ।  व्यासेन अपि कथितम् -
‘‘वृत्तं यत्नेन संरक्षेत् वित्तमायाति याति च ।
अक्षीणो वित्ततः क्षीणो, वृत्ततस्तु हतो हतः ।।’’
अन्तिमे -
यत्कीत्र्या धवलीकृतं त्रिभुवनं पुण्यैर्जगत्पावितं
गीर्वाणैरपि गीयमानचरितं शष्वत्स्वधर्मै स्थितम् ।
पूज्यं प्राज्यमृतं प्रमोदभरितं प्रेमास्पदं शम्प्रदं
भूयाद् भूतलभत्य भूषणमिदं भूयोपि नो भारतम् ।
(युगदर्शनम्)


मुदिता तिवारी
वाजपेयीकालोनी
लखीमपुर खीरी, उ.प्र.
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .