कीदृशी स्वतंत्रता इयम्

65तमस्य वर्षस्य स्वतन्त्रतादिवसस्य उपलक्ष्ये सर्वेभ्यः स्वतन्त्रता दिवसस्य शुभाषयः।  अस्याः स्वतन्त्रतायाः कृते अस्माकं देशे ये देशभक्ताः स्व-प्राणाहुतिं प्रदत्तवन्तः। तेभ्यः सर्वेभ्यः शत-शत नमनं वर्तते मम पक्षतः।
वयं सर्वे प्रतिवर्षं अगस्तमासे पंचदशदिनाङ्के स्वतन्त्रता दिवसं मोदयामः परन्तु किं वयं कदापि एतदपि चिन्तितवन्तः यत् यस्याः स्वतन्त्रतायाः परिकल्पना आहुतिभूताः देशभक्ताः कृतवन्तः सा स्वतन्त्रता वयं प्राप्तवन्तः?। यदि आम तर्हि कथम्? अहं तु चिन्तयामि यत् स्वतन्त्रतायाः 65वर्षाणि न जातानि अपितु पराधीनतायाः 265 वर्षाणि अभवन् ।  इदानीं भवन्तः वदिष्‍यन्ति यत् कथं वदति अयं मूर्खः।  परन्तु या सत्यता वर्तते तदहं वदामि सर्वेऽपि देशवासिनः इतिहासं पठिवन्तः, पठन्तः अपि सन्ति, पठिष्‍यन्ति अपि ।  सर्वेऽपि जानन्ति यत् स्वतन्त्रता कीदृषी भवति? यः स्वतन्त्रः भवति तस्य स्वस्य एकः नियमः भवति यथा कस्मिश्चित देशं यदि भवन्तः गच्छन्ति तर्हि तस्य कृते तस्य देशस्य अनुमतिपत्रं(पासपोर्ट वीजा) इति स्वीकरणीया भवति परन्तु यदि स्वदेशे कस्मिश्चित् प्रदेशं गच्छति तर्हि तस्य कृते अनुमतिपत्रस्य आवश्‍यकता न भवति। परन्तु विगत2002 तमे वर्षे यदा अस्माकं देशे ब्रिटेनदेशस्य महारानी ‘एलीजावेथ’ आगता आसीत् सा अस्माकं देशे अनुमतिपत्रं विना आगतवती।
सा किमर्थं अनुमतिपत्रं न स्वीकृतवती? किं तस्याः कृते एष: नियमः नास्ति यदि नास्ति तर्हि किमर्थं? तस्य एकं कारणम् अस्ति यत् 15 अगस्तसन् 1947तमे वर्षे यदा अस्माभिः स्वतन्त्रता प्राप्ता आसीत् तदा ऑग्लैः एकं सहमतिपत्रं निर्मितम् आसीत् तदासीत् यत् एकस्य विशालदेशस्य अधीनस्थः द्वौ लघुःदेशौ ।  इत्युक्ते ब्रिटेनदेशस्य अधीनस्थः भारतं पाकिस्थानं च एतौ द्वौ देशौ तस्य उपनिवेशौ स्तः ।  तस्मिन् पत्रे लिखितम् अस्ति यत् ऑग्लजनाः भारतस्य नागरिकः भवितुं अर्हन्ति ।

एतदर्थं ब्रिटेनदेशस्य महारानी भारतस्य अनुमतिपत्रं  न स्वीकृतवती यदि एतत सत्यं अस्ति यत् अद्यापि भारतं ब्रिटेनस्य उपनिवेश: अस्ति तर्हि किमर्थं अस्मान् इतिहासे पाठ्यते यत् 15 अगस्त 1947 तमे वर्षे वयं स्वतन्त्रः अभवाम; किमर्थं वयं प्रतिवर्षं अगस्तमासे स्वतन्त्रतायाः कालं स्वीकुर्मः ।  द्वितीया वार्ता अन्यत् अपि वर्तते यत् इस्टइण्डिया कम्पन्याः स्थापनाय यदा ‘जार्जपंचमः’ अस्माकं देशे आगतवान् तदा सः अपि अनुमतिपत्रं न स्वीकृवान् आसीत् तदा तु सम्यक् आसीत् ।  यत् तस्मिन् समये भारतं ब्रिटेनस्य उपनिवेश: आसीत् ।  तस्य आगमने सम्पूर्णे भारते हर्षोल्लासः स्वीकृतः तस्मिन् समये तस्य स्वागतार्थं एकस्य गीतस्य रचना जाता आसीत् तस्य गीतस्य रचना अस्माकं भारतदेशस्य एकः चाटुकारः कृतवान् आसीत ।
अस्माकं देशे पूर्वं भाटः चारणाः च भवन्ति स्म ।  ये स्व-राज्ञानां यशगानं कुर्वन्ति स्म ।  तादृश: एव चारणस्य भाटस्य च कार्यं कृतवान् आसीत् रविन्द्रनाथटैगोरमहोदयः सः जार्जपंचमस्य स्वागतार्थं यत् गीतं लिखितवान् तत् गीतम् अस्ति ‘‘जन गण मन अधिनायक जय हे’’ अस्य गीतस्य भावार्थं भवन्तः अवलोकयन्तु यत् गीतेऽस्मिन् सः वदति यत् भो! जार्ज पंचम! भवान् भारतीयानां जनानां मनसः अधिनायकः अस्ति भवतः जयः भवेत् ।  भवान् तु भारतस्य भाग्यविधाता वर्तते ।  एतादृशी पराधीनतायाः उदाहरणं अन्यत्र कुत्र वा लप्‍ष्‍यते ।  एतादृषः अधिकारः तु कंचित् ईश्‍वरम् अपि न ददाति ।  परन्तु पश्‍यन्तु टैगोरमहोदयस्य चाटुकारिताम् ।
अनन्तरं वदति यत् पंजाब-सिन्धु-गुजरात-माराठा-द्राविण-उत्कल-बंगालादयः देशा: भवतः कृते आशीषं याचयन्ति यत् भवतः कल्याणं भवेत्, भवतः जयः च भवेत् ।  ये भारतीयाः तस्य अनाचारेण त्रस्ताः आसन् ते तस्य कल्याणस्य कामनां कुर्वन्ति कीदृशीविरोधाभाषी उक्तिः वर्तते ।  तस्मिन्नेव गीते प्रसन्नं भूत्त्वा जार्जपंचमः टैगोरमहोदयं नोबेल पुरस्कारं प्रदत्तवान् आसीत् तदा टैगोरमहोदयः चिन्तितवान यत् भारतीयाः जनाः ज्ञाष्‍यन्ति यत् अस्य गीतस्य कृते एष: पुरस्कारः एनं प्राप्तं तर्हि अहं समाजे घृणायाः पात्रो भाविष्‍यामि तदा निवेदनं कृत्त्वा तं पुरस्कारं ‘गीतांजलिः’ इति पुस्तकस्य पारितोषिकं वर्तते इति उद्घोषणां कारितवान् ।
तस्मिन् समये ये आग्लविरोधिनः देशभक्ताः आसन् यथा बालगंगाधरतिलकः लालालाजपतरायः इत्यादयः जार्जपंचमस्य आगमने विरोधं प्रदर्शितवन्तः तदा तेषामुपरि आंग्लरक्षकैः दण्डप्रहारः कृतः आसीत् यतोहि तस्मिन् समये आग्लानां शासनम् आसीत भारते जार्जपंचमस्य विरोधः इत्युक्ते आग्लानां विरोधः, अतः ते दण्डिताः परन्तु अद्यतने विगत2002 तमे वर्षे यदा ब्रिटेनस्य महारानी आगता तस्मिन् समये अपि एतेन एव गीतेन तस्याः स्वागतं कृतं भारतीयनेतृभिः ।  यदा तस्याः आगमने ‘आजादीबचाओ’ इति संगठनस्य केचन् कार्यकर्तारः विरोधं कृष्‍णपट्टिकां दर्शयित्‍वा कृतवन्तः तस्मिन् समये अपि स्वतन्त्रे भारते भारतीयसैनिकैः एव भारतीयानामोपरि दण्ड प्रहारं कृतम्।
यदि एतादृशी स्थितिः अस्ति भारते तर्हि कुत्र वर्तते अस्माकं स्वतन्त्रता ।  15 अगस्त 1947तमे वर्षे रात्रिद्वादशवादने वयं स्वतन्त्रतां प्राप्तवन्तः ।  सर्वेऽपि कोलाहलं कृतवन्तः यत् ‘स्वराज्यम्’ आगतम् परन्तु वयं ‘स्वराज’ इत्यस्य भावम् अन्यथा स्वीकृतवन्तः तस्य सत्यता तु अस्ति यत् आग्लेयः स्वराज्यस्य हस्तानान्तरणं कृतवन्तः यत् कतिचन् दिनानि भवान् मम राज्यं चालयतु पुनः आवश्‍यकतानुसारं स्वीकरिष्‍यामि अतैव स्वराज्यं द्रष्‍टुं एव ब्रिटेनस्य रानी आगता आसीत् अतः तस्याः कृते अनुमति पत्रस्य (पासपोर्ट) वीजायाः आवश्‍यकता न आसीत् यतोहि सा स्वस्यैव उपनिवेशे आगाता आसीत्।
बान्धवाः ! किंचित जागृताः भवन्तु ।  अस्माकं पुरतः यं भ्रमयुक्तम् इतिहासं जनाः पाठयन्तः सन्ति, वयं पठन्तः च स्म; तस्य सत्यतायाः अवलोकनं कुर्वन्तु तदा ज्ञानं भविष्‍यति यत् वयं स्वतन्त्रतां प्राप्तवन्तः न वा । अतः पुनः एकवारं सर्वेभ्यः स्वतन्त्रता दिवसस्य शुभाशयं यच्छन् स्व-गिरां विरमामि ।
भवन्तः पठित्त्वा यथा प्रतिक्रियां प्रदाष्‍यन्ति तथा पुनः अन्वेषणं कृत्‍वा स्व-विचारं प्रकटिष्‍यामि।

नमोनमः धन्यवादः।

प्रमोदकुमार:
अध्‍यक्ष: - संस्‍कृतजगत्
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी