अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः




    परमात्मनःसर्वव्यापित्वादि महिमा वर्णितास्त्येतन्मन्त्रे । तत्=परं ब्रह्म, एजति=चलति; तत् उ=तदेव, नैजति= न चलति; तत्, दूरे तिष्ठति, तत् उ अन्तिके=समीपे च तिष्ठति; तत् अस्य सर्वस्य=एतस्य समस्तस्य (जगतः) अन्तः बाह्यतश्च (तिष्ठति) ।" अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इति हि खलु नारायणोपनिषत् ।  भक्ताननुग्रहीतुं परमात्मा दूरमिति अन्तिकमिति न चिन्तयति ।  यत्र कुत्रापि वा भक्तः तिष्ठतु ।  तस्य रक्षणाय तत्र गच्छति परमात्मा । अत्र प्रह्लादः गजेन्द्रः पाञ्चाली अहल्या ध्रुवः उदाहर्तुमर्हन्ति ।  "गॉविन्देति यदाऽक्रन्दत् कृष्णा(द्रौपदी) मां दूरवासिनं ऋणं प्रवृद्धमिवे"ति भावयन् परमात्मा श्रीकृष्णः तां ररक्ष खलु ।  एवमेव नक्राक्रान्ते करीन्द्रे, मूल मूलेत्याह्वयन्, तत्समये "नाहं नाहं नचाह" मिति देवैः त्यक्तहस्ते सति सपद्यागत्य परमात्मा तं रक्षितवान् खलु ।  एतदीशावास्योपनिषन्मन्त्रार्थमेव "नम्माळ्वार्" नामको दाक्षिणात्यो प्रपन्नजनकूटस्थः एवमुवाच द्राविडभाषायाम्--"वन्दाय् पोले(As if coming nearer) वारादाय् (Goes beyond reach i.e.Doesn't come), वारादाय् पोले( As if going beyond reach) वरुवाने (Comes nearer i.e. approaches) एष भगवतः महिमा । "एजति" इत्यस्य "कम्पते"इत्यप्यर्थोऽस्ति । तर्हि, विपन्नान् दृष्ट्वा द्रवतीत्यर्थःसपदि साहाय्यं कर्तुम् ।  स्वस्मिन् विमनस्कानां विषये दूरं गच्छतीत्यर्थः,अर्थात् विमुखो भवति ।  शौनकमहर्षिणा चैवं व्याख्यातमत्र---

श्लो । पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् ।  
तेषां तत् परमं ब्रह्म दूरात् दूरतरे स्थितम् ।",

"तन्मयत्वेन गोविन्दे ये नराः न्यस्तचेतसः ।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके"ति॥ 

"अणोरणीयान् महतो महीयान"पि सः ।

      अन्तर्बहिश्चापि सोऽस्तीत्यत्र उपनिषदन्या भणत्येवम्--"य आत्मनि तिष्ठन्,आत्मनः अन्तः यमात्मा न वेद,यस्यात्मा शरीरमि"त्यादि वाक्यैः"विष्ट्भ्याहमिदं कृत्स्नं एकांशेन स्थितोऽस्मीति,"इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् मम देहे"इति च भगवानेवोक्तवान्खलु भगवद्गीतायाम् ।


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।