संदेश

October, 2012 की पोस्ट दिखाई जा रही हैं

श्रीहरिशरणाष्‍टकम्

ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभासि यतस्त्वमेव  तस्मात्तवमेव शरणं मम दीनबन्धो ।। (शंखपाणे इति पाठान्तरम्)
नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा सन्दृश्‍यते न किल कोऽपि सहायको मे तस्मात्तवमेव शरणं मम दीनबन्धो ।।
नोपासिता मदमपास्य मया महान्त- स्तीर्थानि चास्तिकधिया न हि सेवितानि देवार्चनं च विधिवन्न कृतं कदापि  तस्मात्तवमेव शरणं मम दीनबन्धो ।।
दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति संजीवनं च परहस्तगतं सदैव  तस्मात्तवमेव शरणं मम दीनबन्धो ।।
पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे ख्याता च ते पतितपावनता तु यस्मात्  तस्मात्तवमेव शरणं मम दीनबन्धो ।।
दुःखं जराजननजं विविधाश्‍च रोगाः काकश्‍वसूकरजनिर्निरये च पातः ते विसमृतेः फलमिदं विततं हि लोके तस्मात्तवमेव शरणं मम दीनबन्धो ।।
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्तवमेव शरणं मम दीनबन्धो ।।
वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा सर्वत्र स…

न्यासदशकम्

अहं मद्रक्षणभरो मद्रक्षणफलं तथा न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ।।
न्यस्याम्यकिंचनः श्रीमन्ननुकूलोऽन्यवर्जितः । विश्‍वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ।।
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम् ।।
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् निषिद्धकाम्यरहितं कुरु मां नित्यकिंकरम् ।।
देवीभूषणहेत्यादिजुष्‍टस्य भगवंस्तव  नित्यं निरपराधेषु कैंकर्येषु नियुंक्ष्व माम् ।।
मां मदीयं च निखिलं चेतनाचेतनात्मकम् स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् ।।
त्वमेव रक्षकोऽसि मे त्वमेव करुणाकरः न प्रवर्तय पापानि प्रवृत्तानि निवारय ।।
अकृत्यानां च करणं कृत्यानां वर्जनं च मे क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ।।
श्रीमन्नियतपंचागं मद्रक्षणभरार्पणम् अचीकरत्स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ।। इति श्रीवेंकटनाथकृतं न्यासदशकं सम्पूर्णम् -->

षट्पदीस्तोत्रम्

अविनयमपनय विष्‍णो दमय मनः शमय विषयमृगतृष्‍णाम् । भूतदयां विस्तारय तारय संसारसागरतः ।। दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ।। सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्  सामुद्रो हि तरंग क्वचन समुद्रो न तारंगः ।। उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्‍टे दृष्‍टे भवति प्रभवति न भवति किं भवतिरस्कारः ।। मत्स्यादिभिरवतारैरवतारवतावता सदा वसुधाम् परमेश्‍वर परिपाल्यो भवता भवतापभीतोऽहम् ।। दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ।। नारायण करुणामय शरणं करवाणि तावकौ चरणौ इति षट्पदी मदीये वदनसरोजे सदा वसतु ।।
इति श्रीमच्छंकराचार्यविरचितं षट्पदीस्तोत्रं सम्पूर्णम्
-->

शिवमानसपूजा

रत्नैः कल्‍पतमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम् जातीचम्पकबिल्वपत्ररचितं पुष्‍पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ।।
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रम्भाफलं पानकम् शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ।।
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदग्काहलकला गीतं च नृत्यं तथा साष्‍टांगं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ।।
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ।।
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ।।
इति श्रीमच्छंकराचार्यविरचिता शिवमानसपूजा समाप्ता

श्री परमेश्‍वरस्तोत्रम्

जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पितः प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम् ।।
गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम् तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ।।
मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो करुणाब्धिचलोर्मिजलायनयनं जनतारण तारय तापितकम् ।।
भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमतः करुणांच समर्प्‍य तरिं त्वरितं  जनतारण तारय तापितकम् ।।
अतिनाश्‍य जनुर्मम पुण्यरुचे दुरितौघभरैः परिपूर्णभुवः सुजधन्यमगण्यमपुण्यरुचिं जनतारण तारय तापितकम् ।।
भवकारक नारकहारक हे भवतारक पातकदारक हे हर शंकर किंकरकर्मचयं  जनतारण तारय तापितकम् ।।
तृषितश्चिरमस्मि सुधां हित मे- ऽच्युत चिन्मय देहि वदान्यवर अतिमोहवशेन विनष्‍टकृतं  जनतारण तारय तापितकम् ।।
प्रणमामि नमामि नमामि भवं भवजन्मकृतिप्रणिषूदनकम् गुणहीनमनन्तमितं शरणं  जनतारण तारय तापितकम् ।। इति श्रीपरमेश्‍वरस्तोत्रं सम्पूर्णम्
-->

श्री विष्‍णोरष्‍टाविंशतिनामस्तोत्रम्

अर्जुन उवाच किं नु नाम सहस्राणि जपते च पुनः पुनः
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव
श्रीभगवानुवाच मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ।।
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम्
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ।।
विश्‍वरूपं वासुदेवं रामं नारायणं हरिम्
दामोदरं श्रीधरं च वेदांगं गरुड़ध्वजम् ।।
अनन्तं कृष्‍णगोपालं जपतो नास्ति पातकम्
गवां कोटिप्रदानस्य अश्‍वमेधशतस्य च ।।
कन्यादानसहस्राणां फलं प्राप्नोति मानवः
अमायां वा पौर्णमास्यामेकादश्‍यां तथैव च ।।
सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ।।

इति श्रीकृष्‍णार्जुनसंवादे श्रीविष्‍णोरष्‍टाविंशतिनामस्तोत्रं सम्पूर्णम्-->

मंगलम्

स जयति सिन्धुरवदनो देवो यत्पादपंकजस्मरणम् वासरमणिरिव तमसां राशीन्नाशयति विघ्नानाम् ।।1                                 सुमुखश्‍चैकदन्तश्‍च कपिलो गजकर्णकः  लम्बोदरश्‍च विकटो विघ्ननाशी: विनायकः ।।2                                धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।।3                                विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।।4                                शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।।5                                 व्यासं वसिष्‍ठनप्तारं शक्तेः पौत्रमकल्मषम् पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ।।6                                व्यासाय विष्‍णुरूपाय व्यासरूपाय विष्‍णवे नमो वै ब्रह्मनिधये वासिष्‍ठाय नमो नमः ।।7                                अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः अभाललोचनः शम्भुर्भगवान् बादरायणः ।।8
इति मंगलं सम्पूर्णम्                                        -->

संस्‍कृतजगत् ईपत्रिका (दुर्गापूजा विशेषांक:) प्रकाशित:

मित्राणि
बहुप्रतीक्षित संस्‍कृतजगत् ईपत्रिकाया: चतुर्थसंस्‍करणं सम्‍प्रति प्रकाशितम् ।  दुर्गापूजाविशेषोयं विशेषांक: ।  अन्‍यविषया: अपि न्‍यूनाधिक्‍यरूपेण समाहिता: सन्ति ।  सम्‍प्रति भवन्‍त: अधस्‍तात् श्रृंखलात् इमां प्राप्‍तुं शक्‍यन्‍ते ।  भवतां टिप्‍पणय: अवश्‍यमेव प्राप्‍तव्‍य: येन अग्रिमसंस्‍करणे तान् सर्वान् विषयान् समीकुर्याम् ।
धन्‍यवादा:




पत्रिकां प्राप्‍तुम् अत्र नोदयन्‍तु (प्रथमा श्रृंखला)
पत्रिकां प्राप्‍तुम् अत्र नोदयन्‍तु (द्वितीया श्रृंखला)

धन्‍यवादा:

टी20 विश्‍वकप प्रतिस्‍पर्धायां वेस्‍टेण्‍डीज विजित:, श्रीलंका विनिपातित:

चित्र
कोलंबो श्रीलंका ,  वेस्‍टेण्‍डीजश्रीलंकादेशयो: मध्‍ये टी20 विश्‍वकप प्रतियोगिताया: निर्णायकप्रतिस्‍पर्धायाम् अत्र वेस्‍टेण्‍डीजदेशेन प्रतिस्‍पर्धा 36 धावनांकेन विजित: ।
प्रथमपाल्‍यां वेस्‍टेण्‍डीजदेशेन क्रीडन् 137 धावनांकानि कृतानि ।  प्रत्‍युत्‍तरे श्रीलंका 101 धावनांके एव सीमिता अभवत् ।  एवं विधा वेस्‍टेण्‍डीजदेशेन श्रीलंका 36अंकै: निपातित: ।

अंकतालिका अध: दत्तास्ति -


Batting R B 4s 6s S/R Mahela Jayawardena c Darren Sammy b Sunil Narine 33 36 2 0 91.67 Tillakaratne Dilshan b Ravi Rampaul 0 3 0 0 0.00 Kumar Sangakkara c Kieron Pollard b Samuel Badree 22 26 2 0 84.62