संदेश

December, 2012 की पोस्ट दिखाई जा रही हैं

आचार्य आसुरि: - सांख्‍यकारिका

आसुरि: विविधेषु ग्रन्‍थेषु आचार्य आसुरि: भगवत: कपिलस्‍य शिष्‍य: आसीत् इति ज्ञापितमस्ति ।  तस्‍य एकोपि कृति: सम्‍प्रति न उपलभ्‍यते ।  महाभारते (शान्तिपर्वम्) तस्‍य उद्धरणम् अपि प्राप्‍यते ।  महर्षि आसुरि: महात्‍मा कपिलस्‍य शिष्‍य: आसीत् इति एतस्मिन् विषये अधिका: विद्वान्‍स: एकमता: सन्ति किन्‍तु प्रमाणाभावे बहु किमपि सम्‍यकतया वक्‍तुं न सम्‍भवन्ति ।  केचन मन्‍यन्‍ते यत् आसुरि: पंचशिखाचार्यस्‍य गुरु: आसीत् ।  अस्‍य विषये अधिकविवरणं न प्राप्‍यते ।
-->

कपिलमुनिः - सांख्यशास्‍त्रस्‍य प्रणेता

सांख्यकारिका श्‍वेताश्‍वतरोपनिषदि ‘सांख्य-कपिलशब्दाभ्यां’ प्रथमवारं प्रयोगः प्राप्यते ।  व्यक्ताव्यक्तज्ञ इत्यस्यापि अत्रैव प्राथम्यं प्राप्यते ।
कपिलमुनिः सांख्यपरम्परायाः अधिष्‍ठाता महर्षिकपिलः एवास्ति इति प्रायः सर्वैः मन्यते ।  भारते, भागवते च अस्य विरुद्धप्रसंगः सन् केचन् कपिलं काल्पनिकमपि मन्यन्ते ।  महाभारते एव अस्य द्विधा वर्णनं प्राप्यते ।  एकेन तु एष: कपिलः ब्रह्मणः पुत्रः -
सनकश्‍च सनन्दश्‍च तृतीयश्‍च सनातनः कपिलश्‍चासुरिश्‍चैव वोढुः पंचशिखस्तथा ।। सप्तैते ब्रह्मणः पुत्राः ---------- महाभारतम्/शान्तिपर्वम् द्वितीयेन तु अग्न्यावतारः सिद्ध्यते इति -
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा । अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः --- महाभारतम्/शान्तिपर्वम् भागवतानुसारं कपिलः नारायणस्यैव पंचमः अवतारः -
पंचमे कपिलो नाम सिद्धेश: कालविलुप्तम् प्रोवाचासुरये सांख्यं तत्वग्रामविनिर्णयम् ।।  भागवतम् 1/131 भास्कराचार्यादयः ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे’ मन्त्रानुसारेण कपिलपदात् हिरण्यगर्भ इति आशयं स्वीकुर्वन्ति ।  ‘यो ब्रह्माणं विदधाति पूर्वम्’ इत्यादिमन्त्रेषु सैव कपिलः पूर्वं उत्पन्नं भूत्वा ब्र…