संदेश

January, 2013 की पोस्ट दिखाई जा रही हैं

नोटपैड/टेक्‍स्‍ट एडिट द्वारा एचटीएमएल लेखनम् ।

एचटीएमएल लेखनाय निम्‍नलिखितानां व्‍यावसायिकमृदुवसनानां प्रयोगं कर्तुं शक्‍यमस्ति ।

एडोब ड्रीमवीवर माइक्रोसाफ्ट एक्‍सप्रेशन वेब कॉफीकप एचटीएमएल एडिटर
एतेषु एचटीएमएल पठितुं नोटपैड इत्‍यस्‍य प्रयोग: सुखद:, सर्वोपयुक्‍तं च अस्ति ।

नोटपैड प्रारम्‍भं कर्तुं एवं कुर्वन्‍तु  स्‍टार्ट 
    आल प्रोग्राम्‍स 
           एसेसरीज 
                  नोटपैड
नोटपैड मृदुवसने स्‍व एचटीएमएल कोड टंकयतु । स्‍व एचटीएमएल रक्षयतु  एचटीएमएल ग्रथन(फाइल/डाक्‍यूमेण्‍ट) रक्षणाय सेव ऐज विकल्‍पचयनं करोतु ।  नामस्‍य अनन्‍तरं .htm अथवा .html  लिखन्‍तु ।  सम्‍प्रति रक्षयतु । 
स्‍व एचटीएमएल ग्रथनं कथं जालचालके (ब्राउजर) चालयाम        स्‍व जालचालकं प्रारम्‍भं कुर्वन्‍तु एवं च फाइल विकल्‍पे गत्‍वा ओपन विकल्‍पचयनं कुर्वन्‍तु ।  सम्‍प्रति सामान्‍यतया यत्र ग्रथनं रक्षितं तत: चयनं कुर्वन्‍तु ।
      अन्‍यविधया अपि चालयितुं शक्‍यमस्ति ।  यत्र ग्रथनं रक्षितं तत्र साक्षात् गत्‍वा ग्रथने द्विवारं नोदनीयं ।  ग्रथनं साक्षात् जालचालके उद्घटिष्‍यति  ।  इति


संस्‍कृतजगत् 
-->

एचटीएमएल टैग्स एवं च एलीमेण्‍ट्स ।

मित्राणि  एचटीएमएल इत्‍यस्‍य अस्मिन् पाठ्यक्रमे वयं एचटीएमएल टैग्स एवं च एलीमेण्‍ट्स इत्‍ययो: विषये पठिष्‍याम: ।  अत्र एकमवधातुम् एतदस्ति यत् अत्र प्राय: एचटीएमएल भाषाया: प्रचलितशब्‍दा: आंग्‍ले एव दीयन्‍ते येन जना: सम्यकतया अवगन्‍तु शक्‍नुयु: ।  यदि वयं तेषां शब्‍दानां संस्‍कृतानुवादं कुर्म: चेत् भवतां पठने महासमस्‍या: आगमिष्‍यन्ति ।
एचटीएमएल टैग्‍स  एचटीएमएल मार्कअप टैग्‍स प्राय: एचटीएमएल टैग्‍स इति अपि अभिधीयन्‍ते ।
एचटीएमएल टैग्‍स < > कोष्‍ठकयो: आबद्धानि पिंजाक्षराणि (keywords) भवन्ति । यथा - <html>एचटीएमएल टैग्‍स प्रायेण युगलरूपेण (pairs) प्रयुज्‍ज्‍यन्‍ते यथा <b> एवं च </b>प्रथम टैग प्रारम्‍भ टैग (start tag) अपरं च समाप्ति टैग (end tag)इति उच्‍यते । समाप्ति टैग अपि प्रारम्‍भ टैग वदेव लिख्‍यते केवलं तस्मिन् एकं तिर्यक रेखा (forward slash) प्रारम्‍भे योजितं भवति । एतौ द्वौ अपि टैग क्रमश: उद्घाटक टैग (opening tags), पिधायक टैग (closing tags) च उच्‍येते । यथा -  <tagname>content</tagname>
एचटीएमएल एलीमेण्‍टएचटीएमएल टैग्‍स एवं च एचटीएमएल एलीमेण्‍ट…

संस्‍कृतनिबन्‍धलेखनप्रतियोगिताया: परिणाम: ।

गतमासे गता संस्‍कृतनिबन्‍धलेखनपरीक्षाया: सम्‍प्रति परिणाम: आगत: अस्ति ।  पूर्वकथनानुसारम् अस्‍या: प्रतियोगिताया: स्‍थानत्रयपर्यन्‍तं विजेतार: चिता: सन्ति ।  एतेषां विवरणं लेखै: सह अत्र दीयते । 
प्रथम पुरस्‍कार: श्री प्रमोद कुमार: नईदिल्‍ली
        अस्‍य महोदयस्‍य जन्‍मभूमि: इति लेख: प्रथमपुरस्‍काराय चित: अस्ति ।  प्रथमपुरस्‍काररूपेण एतस्‍मै 5000 रुप्‍यकाणि दास्‍यते ।
द्वितीय: पुरस्‍कार: श्री विशाल सिंह: सिरखिनपुरम्, सुलतानपुरम् उत्‍तरप्रदेश
       अस्‍य वीर उधमसिंह: इति लेख: द्वितीय पुरस्‍काराय चित: अस्ति ।  एतस्‍मै द्वितीयपुरस्‍काररूपेणे निर्धारितराशि: 2500 रुप्‍यकाणि दास्‍यते ।
तृतीय: पुरस्‍कार: श्री गोपाल द्विवेदी झूसी इलाहाबाद उत्‍तरप्रदेश
        अस्‍य लेख: चन्‍द्रगुप्‍त: तृतीयपुरस्‍कारस्‍य कृते चित: अस्ति ।  एतस्‍मै तृतीय पुरस्‍काररूपेण निर्धारित‍राशि: 1000 रुप्‍यकाणि दास्‍यते ।          एतेषां लेखा: संस्‍कृतजगत् ईपत्रिकाया: आगामि संस्‍करणे प्रकाशयिष्‍यते ।
एतेषां महानुभावानां कृते निर्धारितराशि: 26 जनवरी 2013 अवसरे अम्‍बेडकरनगर जनपदस्‍य अनिरुद्धनगर क्षेत्रे, श्री हनुमानमन्दिरे दास…

एचटीएमएल किम् अस्ति ?

एचटीएमएल जालपृष्‍ठं निर्मातुम् एका भाषा अस्ति ।
एचटीएमएल इत्‍युक्‍ते हाइपर टेक्‍स्‍ट मार्कअप लैंग्‍वेज इति अस्ति ।एचटीएमएल एका मार्कअप (निर्धारक) भाषा अस्ति ।एका मार्कअप भाषा मार्कअप चिटिकानां गुम्‍फनं (set of markup tags) भवति चिटिका (टैग) पत्रकस्य (डाक्‍यूमेन्‍ट) विषयवस्‍तुं (कन्‍टेन्‍ट) बोधयति ।एचटीएमएल पत्रकं एचटीएमएल टैग एवं च सामान्‍य अक्षरं (plaintext) वहति ।एचटीएमएल पत्रकं जालपृष्‍ठमपि कथ्‍यते । उदाहरणम्<!DOCTYPE html> <html> <head> SANSKRITJAGAT </head> <body> एचटीएमएल किम् अस्ति ? </body> </html>

-->

सम्‍प्रति पुन: ज्ञानावंटनं प्रारम्‍भं कुर्म: ।

मित्राणि
दिवसा: अतीता: ।  अस्‍माभि: एकमपि लेखं न प्रकाशितं ।  कारणं सम्‍भवत: भवन्‍त: सर्वे जानन्ति एव ।  संस्‍कृतजगत: संरक्षकमहोदय: आदरणीय: श्री अनिरुद्धमुनि पाण्‍डेयवर्य: गतमासे 12 दिनांके एकस्यां दुर्घटनायां व्रणित: ।  तस्‍य चिकित्‍साकार्याय वयं एकमासपर्यन्‍तं सहाराचिकित्‍सालये (लखनउमध्‍ये) एव आस्‍म: ।  सम्‍प्रति तस्‍य स्‍वास्‍थ्‍यं किंचित सम्‍यक् जातमस्ति चेत् अस्‍माकमपि उत्‍साहवर्धनं जातं लेखान् प्रकाशितुम् ।
सम्‍प्रति भवन्‍त: पुन: अस्‍माकं ज्ञानवर्धकलेखा: समये समये प्राप्‍स्‍यन्ति ।  अग्रिमलेखानां कृते अस्‍माकं विषय: प्रायेण तकनीकि: भविष्‍यति ।  तस्मिन् अपि एचटीएमएल संगणकभाषा इति प्रमुखतया प्रकाशयिष्‍याम: ।  अस्‍तु तर्हि अग्रिम लेखस्‍य कृते प्रतीक्षां कुर्वन्‍तु ।

नमस्‍कार:

संस्‍कृतजगत् 
-->