द्वितीया वि‍भक्ति:



द्वितीया विभक्ति विधायकं प्रमुखं सूत्रं ‘’ कर्मणि द्वितीया’’ इति अस्ति ।  अनेन सूत्रेण – अनभिहिते कर्मणि द्वितीया विभक्ति भवति इति ।  यथा – हरिं भजति ।
तथायुक्‍तं चानीप्तिम् – कर्त्रा अनीप्सितम् सन्‍नपि क्रियया ईप्सित-पदार्थे कर्मकारकम् एव भवति । 
यथा – ग्रामं गच्‍छन् तृणं स्‍पृशति ।  अस्मिन् वाक्‍ये तृणस्‍य स्‍पर्श: कर्त्रा ईप्सितं नास्ति किन्‍तु तथापि तृणे द्वितीया इति अभवत् ।
अकथितं च – अपादानदिविशेषै: अविविक्षितं कारकम् अपि कर्मसंज्ञमेव स्‍यात् ।  अस्मिन् वर्गे 16 धातव: सन्ति ।
दुह् याच् पच् दण्‍ड् रुधि प्रच्छि चि ब्रू शासु जि मथ मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यात् नी हृ कृष् वहाम् ।।
अर्थात् दुह्, याच्, पच्, दण्‍ड, रुधि, प्रच्छि, चि, ब्रू, शास्, जि, मथ्, मुष्, नी, हृ, कृष् वह् इति एते 16 धातव: येषां योगे कर्मकारकं द्वितीयाविभक्ति: च भवति ।
यथा – गां दोग्धि पय:, बलिं याचते वसुधाम्, तण्‍डुलानोदनं पचति, गर्गान् शतं दण्‍डयति, ब्रजम् अवरुणद्धि गाम्, माणवकं पन्‍थानं पृच्‍छति, वृक्षम् चिनोति फलानि, माणवकं धर्मं  ब्रूते शास्ति वा, शतं जयति देवदत्‍तम्, सुधां क्षीरनिधिं मथ्नाति, देवदत्‍तं शतं मुष्‍णति, , ग्रामम् अजां नयति, हरति, कर्षति वहति वा ।
-->

टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

फलानि ।।

अव्यय पदानि ।।

शकुन्‍त: (पक्षिण:) ।।

क्रीड् (खेलना) धातु: - परस्‍मैपदी