शिवरात्रिपर्वमाहात्‍म्‍यम् - बिल्‍वपत्रकथा ।




      एकदा पार्वतीदेवी भगवन्‍तं शंकरं प्रति अपृच्‍छत्, किं तत् व्रतं येन सारल्येन श्रेष्‍ठरूपेण च मनुष्‍या: भवतां कृपां प्राप्‍नुवन्ति । उत्‍तररूपेण श्रीशिव: एकां कथां श्रावितवान् । -
एकस्मिन् ग्रामे एक: आखेटक: परिवारेण सह निव‍सति स्‍म । पशूनां आखेटेन स: स्‍वकु‍टुम्‍बं पालयति स्‍म । स: एकस्‍य साहूकारस्‍य ऋणी अपि आसीत् । समये स: साहूकारस्‍य धनं दातुं न शक्‍तवान् । क्रोधित: धनिक: तं आखेटकं शिवमठे अरोधयत् । तस्मिन् दिवसे शिवरात्रिपर्वम् आसीत् ।
      शिवमठे शिवकथा जायमाना आसीत् । आखेटक: अवधानेन शिवरात्रिव्रतकथां श्रुतवान् । संध्‍याकाले धनिक: तम् आहूतवान् एवं च देयस्‍य ऋणस्‍य विषये पृष्‍टवान् । अग्रिमे दिवसे सर्वं धनं दा‍स्‍यामि इति वचनं दत्‍वा आखेटक: मुक्तिं प्राप्‍तवान् । तत: निर्गत्‍य बभुक्षया व्‍याकुल: सन् स: वने आखेटार्थं अटनं प्रारभत् किन्‍तु सम्‍पूर्णे दिवसे कारागारे आसीत् अत: थकित: अपि आसीत् येन आखेटं कर्तुमपि न शक्‍तवान् । स: आखेटं कर्तुं एकस्‍य तडागस्‍य पार्श्‍वे गतवान् । तत्रास्थिते विल्‍ववृक्षे स: आश्रयं स्‍वीकृत्‍य आखेटस्‍य आगमनप्रतीक्षां प्रारब्‍धवान् । विल्‍ववृक्षस्‍य अध: विल्‍वपत्रै: आवृतं शिवलिंगम् आसीत् । आखेटक: तन्‍न जानाति स्‍म । वृक्षे स्‍थाननिर्धारणसमये तस्‍य हस्‍ताभ्‍यां पातिता: शाखा: विल्‍वपत्राणि च शिवलिंगे अपतन् । आखेटक: सम्‍पूर्णे दिवसे भोजनं प्राप्‍तुं न शक्‍तवान् । रात्रि एकप्रहरपर्यन्‍तम् अतीता । द्वितीये प्रहरे एका गर्भिणी मृगी तत्र आखेटकेन दृष्‍टा । आखेटक: प्रत्‍यंचां असाधयत् किन्‍तु सा मृगी उक्‍तवती यत् यदि भवान् माम् हन्‍यते चेत् मया सह एव मम शिशु: अपि मृयते, अनेन भवान् पापस्‍य भागी भविष्‍यति । मां मुंच । अहं शिशु जन्‍मं दत्‍वा त्‍वत्‍समीपे आगमिष्‍यामि । आखेटक: तां मोचितवान् । सा तु वने लुप्‍ता अभवत् ।
किंचितसमयान्‍तरे एव एका मृगी तत: निर्गता । आखेटक: अतिप्रसन्‍नो अभवत् । समीपे आगते सति स: प्रत्‍यंचां साधितवान् । किन्‍तु तक्षणमेव सा मृगी तं प्रति उक्‍तवती । भो पारधी । अहं कामातुरविरहिणी अस्मि । प्रियस्‍य अन्‍वेषणे अटनं करोमि । प्रियतमेन सह मिलित्‍वा अहं साक्षात् आगमिष्‍यामि तव पार्श्‍वे । आखेटक: तामपि अमोचयत् ।
     द्विधा आखेटं विसृज्‍य स: उद्विग्‍न: अभवत् । रात्रिकालस्‍य अन्तिमप्रहरे एका अन्‍या मृगी स्‍वशिशुभ्‍यां सह तत: निर्गता । तां मृगी दृष्‍टवा आखेटक: पुन: धनुं साधितवान् । किन्‍तु तदा सा मृगी अपि पुन: निवेदनं कृतवती यत् अहं मम पुत्रौ तयो: पितु: पार्श्‍वे प्रापयित्‍वा पुन: प्रत्‍यागमिष्‍‍यामि । मां मोचय । सम्‍प्रति मां मा वध ।
आखेटक: अहसत् अवदत् च पार्श्‍वस्‍थम् आखेटं त्‍यजामि इति नास्मि तावत् मूर्खो अहम् । पूर्वमेव मया मृगीद्वयं त्‍यक्‍तम् । मम् बाला: बुभुक्षया मरिष्‍यन्ति । प्रत्‍युत्‍तरे मृगी उक्‍तवती, यथा भवान् स्‍वपुत्रान् प्रति शोचति तथैव ममापि बाला: सन्ति खलु । एतान् जीवनदानं दद । एतान् पत्‍यु: पार्श्‍वे त्‍यक्‍त्‍वा अहं त्‍वरितमागच्‍छामि ।
     तस्‍य दीनस्‍वरं श्रुत्‍वा आखेटक: द्रवीभूत: अभवत् । स: तामपि मोचितवान् । आखेटाभावे विल्‍ववृक्षे स्थित: आखेटक: विल्‍वपत्रं त्रोटयित्‍वा अध: क्षिपति स्‍म निरन्‍तरम् । प्रात:कालं आगतम् । सम्‍प्रति एक: स्‍थूलमृग: तत: प्रस्थित: । आखेटक: चिन्तितवान् यत् सम्‍प्रति एतं तु अवश्‍यमेव मारयामि । आखेटकस्‍य वाणसन्‍धानं दृष्‍ट्वा स: मृग: उक्‍तवान् । भ्रात यदि भवान् तान् त्रीन् अपि मृगान् हतवान् चेत् अविलम्‍बरूपेण मामपि वध । यतोहि अहं तासां पतिरस्मि । किन्‍तु यदि तान् मोचितवानस्ति चेत् कृपया मामपि किंचित् समयपर्यन्‍तं जीवनदानं कुरु येन ताभ्‍य: मिलित्‍वा अहं पुन: भवतां समीपे आगच्‍छानि ।
     मृगस्‍य वार्तां श्रुत्‍वा आखेटक: तं सम्‍पूर्ण घटनां श्रावितवान् । रात्रौ किं कि जातमिति । तदा मृग: पुन: अनुरोधं कृतवान् यत् कृपया मां मुंच येन ताभि: सह अहं भवत: सम्‍मुखे आगत्‍य स्‍वप्रतिज्ञा साधयामि । रात्रौ उपवासकारणात्, शिवलिंगे विल्‍वपत्रपतनकारणात् च तस्‍य हृदये सम्‍प्रति दयाभाव: आगत: । स: धनुं हस्‍ते स्‍थातुं न शक्‍तवान् । तस्‍य हृदयं निर्मलमासीत् । स: स्‍वपूर्वकर्मान् स्‍मृत्‍य-स्‍मृत्‍य पश्‍चातापं अकरोत् ।
     किंचितसमयान्‍तरे एव मृग: स्‍वपरिवारेण सह तस्‍य पार्श्‍वे उपस्थित: येन स: आखेटक: तेषाम् आखेटं कर्तुं शक्‍येत् । पशूनामपि तां सत्‍यतां, सात्विकतां, प्रेमभावनां दृष्‍ट्वा च तस्‍य नयनयो: अश्रूणि आगतानि । स: तान् सर्वान् अपि मोचितवान् । एतां घटनां सर्वे देवा: अपि पश्‍यन्‍त: आसन् । तेषां कृपया स: आखेटक: सम्‍पूर्णपरिवारेण सह मोक्षपदं प्राप्‍तवान् ।
          इति श्री शिवरात्रिपर्वमाहात्‍म्‍यम् ।

-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी