संदेश

April, 2013 की पोस्ट दिखाई जा रही हैं

वेदशब्‍दस्‍य अर्थं स्‍वरूपं च

वह्वृच्प्रातिशाख्‍ये वेदशब्‍दस्‍यार्थ: - 'विद्यन्‍ते धर्मादय: पुरुषार्थ: यैस्‍ते वेदा:' इति प्रदत्‍त: अस्ति ।  सायणाचार्य: स्‍वस्‍य ऋग्‍वेदभाष्‍यभूमिकायां वेदस्‍यार्थं - 'अपौरुषेयवाक्यं वेद:' इति कृतवान् ।  तत्रैव स: पुन: उक्‍तवान् यत् 'इष्‍ट्प्राप्‍त्‍यनिष्‍ट परिहारयोरलौकिकं साधनं यो वेदयति स वेद' ।  अस्‍य प्रमाणरूपेण श्‍लोकमपि दत्‍तम्
प्रत्‍यक्षेणानुमित्‍या वा यस्‍तूपायो न विद्यते  एवं विदन्ति वेदेन तस्‍मात् वेदस्‍य वेदता ।। वेदपदेन तु संहिता, ब्राह्मण, आरण्‍यकम्, उपनिषद् चेति चतुर्णां ग्रन्‍थानां बोध: भवति ।
संहिता -छन्‍दोबद्धमन्‍त्रयुक्‍ता वेदविभाग: ।
ब्राह्मण -वेदस्‍य व्‍याख्‍याभाग:, गद्यात्‍मक:, यागादिवर्णनपरक: च ।
आरण्‍यकम् -मन्‍त्रव्‍याख्‍या द्वौपि प्राप्‍यते अस्मिन्, गाथारूप:, वानप्रस्‍थीय: ग्रन्‍थ:  ।
उपनिषद् - तत्‍तत्संहितागत-ब्रह्मज्ञा‍नादिविषयाणां वर्णनरूपेण संकलनम्, वेदस्‍य अन्तिम: विभाग: ।
एते विभागा: वेदेषु उपलभ्‍यन्‍ते । इति

-->

संहिता

संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  एतेषु चतुर्षु विभागेषु छन्‍दोबद्धा मन्‍त्ररूपो वैदिकदेवतास्‍तुतिपरको वैदिकमहर्षिभि: साक्षात्‍कृतो मुख्‍यविभाग: संहिताशब्‍देन अभिधीयते ।  यथा- ऋक्संहिता, यजु:संहिता, सामसंहिता, अथर्वसंहिता च ।  ऋक्संहितायां स्‍तुतिपरकमन्‍त्राणां, यजु:संहितायां याजकीयमन्‍त्राणां, सामसंहितायां गायनसम्‍बन्धिमन्‍त्राणाम् अथर्वसंहितायां विविधविघ्‍नविनाशक अभिचारिकमन्‍त्राणां च संग्रह: विद्यते ।

-->

राष्ट्रियपात्रतापरीक्षा (यूजीसीनेट) आनलाइन कक्षाया: प्रारम्‍भ: ।

चित्र
मित्राणि
   भवताम् आदेशानुसारेण संस्‍कृतजगति सम्‍पगति यूजीसीनेट परीक्षाया: कृते सज्‍जाकार्यक्रमरूपेण कक्ष्‍यानां प्रारम्‍भ: कृयते । बहूनि मित्राणि अस्‍मान् प्रेरितवन्‍त: एवं कर्तुं येन विद्यार्थिनामपि लाभ: भवेत् ।  अतएव अद्य आरभ्‍य यूजीसीनेट परीक्षाया: संस्‍कृतविषयस्‍य लेखा: अत्र प्रकाशयिष्‍यते ।
   यूजीसी पात्रतापरीक्षायां त्रीणि प्रश्‍नपत्राणि भवन्ति ।  यस्मिन् प्रथम: तु सामान्‍यज्ञानजन्‍य: भवति ।  अन्‍यौ द्वौ विषयगतौ भवत: ।  अत्र भवन्‍त: केवलं संस्‍कृतविषयस्‍य एव लेखान् प्राप्‍ष्‍यन्ति ।  अत्र लेखस्‍य वृत्ति: व्‍याख्‍यात्‍मकं भविष्‍यति ।  येन सर्वान् विषयान् सम्‍यक् रूपेण स्‍थापितुं शक्‍यम् भवेत् ।
   पात्रतापरीक्षा 2013 इत्‍यस्‍य आवेदनं सम्‍प्रति आगतमस्ति ।  ये जना: आवेदनं कर्तुम् इच्‍छन्ति ते यूजीसीनेटजालपृष्‍ठे गत्‍वा आवेदनं कर्तुं शक्‍नुवन्ति ।  यूजीसीनेट परीक्षाया: विभिन्‍नविषयानां विषयसूची (सेलबस) प्राप्‍तुम् अत्र नोदयन्‍तु ।  संस्‍कृतविषयस्‍य विषयसूची इत: प्राप्‍तुं शक्‍यमस्ति ।  अस्‍तु तर्हि अद्य आरभ्‍य इच्‍छुकजना: यूजीसीपात्रतापरीक्षाकक्ष्‍याया: लाभं स्‍वीकुर्वन्‍तु सं…

भूमेः "पृथिवी" इति नाम कथमभूत्?

कृतयुगे "वेन" इति नाम्ना चक्रवर्ती कश्चित् भूमिं पालयति स्म। सः बहूनि दुष्कृत्यानि करोति स्म।सः स्वभावतः स्त्रीलोलोऽपि । स्वेच्छया विहरन् विना तृप्तिं नैकानि दुश्शासनानि च कुर्वन्नासीत् । शासनानि तानि शास्त्रविरुद्धान्यपि ।     भर्ता यदि मृतश्चेत् भार्या पुनर्विवाहेन पतिमन्यं लब्ध्वा सन्ततिं प्राप्तुमर्हतीति शासनमेकं कृतवांश्च सः । एवं तदानीन्तनधर्मं विरुध्य धर्मशास्त्रं व्यत्यस्तञ्च करोति स्म । सङ्घसंस्कारव्याजेन वेदोक्तधर्मस्य द्रोहं जनयति सः । एतद्वैपरीत्यं दृष्ट्वा धर्मस्य रक्षणार्थं तत्कालीनाः ऋषयः एकत्रितास्सन्तः सम्भूय दीर्घमालोच्य च चक्रवर्ती स वेनः देशं पालयितुमनर्ह इति निश्चित्य, तस्य मरणदण्डनमेव शरण्यमिति च मत्वा तस्मै "मरणं भूया"दिति शापं दत्तवन्तः । सः मृतोऽभवत् । तस्य चक्रवर्तिनः पुत्राः नासन् । तदा राज्यमराजकं दृष्ट्वा महर्षयः योगाग्निना चक्रवर्तिनः वेनस्य मृतकळेबरं मथित्वा तस्य शरीरात् पुरुष कञ्चन सृष्टवन्तः । स एव "पृथु"नामको चक्रवर्ती । एषः पितृणा कृतं धर्मविप्लवं शमयित्वा शास्त्रमार्गेण भूमिं पालितवान् । तेनैवं देशोऽयमुद्…

किं नाम कारकम्?

किं नाम कारकम्? "क्रियान्वयि" कारकमिति तस्य लक्षणम्।क्रियायाः अन्वयः=सम्बन्धः यस्य अस्ति तत् कारकम् इति उच्यते।यथा--- १. पाचकः पचति। अत्र "पाचकः" इति पदं "पचति" इति पाकक्रियायां अन्वेति=सम्बन्धितः अस्ति। अतः "पाचकः" इति     कर्ता कारकं भवति। इदं कर्तृकारकम्। सदा प्रथमाविभक्तौ एव भवति। २.गां स्पृशति। अत्र गौः स्पर्शन क्रियायां अन्वेति=सम्बन्धितः अस्ति।अतः "गौः" कारकम्। इदं पदं द्वितीयाविभक्तौ अस्ति।    अतः कर्मकारकं भवति। कर्म पदं सदा द्वितीयाविभक्तौ एव भवति। ३.खड्गेन छेदयति।अत्र "छेदयति" क्रिया भवति।खड्गस्य छेदनक्रियायां सम्बन्धः अस्ति। अतः "खड्ग" पदं कारकम्।इदं    खड्गपदं तृतीयाविभक्तौ अस्ति। अतः इदं तृतीयाकारकमिति,छेदनाय खड्गः साधनमिति कारणेन करणकारकमिति च       उच्यते।करणं नाम साधनम्।

प्राचीन भारतीय गृहपरिश्रमाः -2I

"परिपूतेषु च हरितशाक वप्रान्-इक्षुस्तम्भान्-जीरक- सर्षप-अजामोद-शतपुष्पा-तमाल गुल्मांश्च कारयेत्"
   "कुब्जक--आमलक-मल्लिका-जाती-कुरण्टक-वनमालिका-तगर-नन्द्यावर्त-जपा गुल्मान्,अन्यांश्च बहुपुष्पान्,वालक-उशीरिका-पातालिकांश्च,--वृक्षवाटिकायाः स्थण्डिलानि मनोज्ञानि कारयेत्। मध्ये कूपं वापीं दीर्घिकां वा कारयेत्"-----  (गृहराज्ये---२ भागे----पृष्टे १०७--वात्स्यायनकामसूत्रेषु तु,४-१-६,८ सूत्राणि) पुरा भारते प्रतिगृहं नित्योपयोगिवस्तुजातानि वृक्षवाटिकासंवर्धनेन लभ्यन्ते स्म।ग्रामेषु वस्तुसमृद्धिरासीत्।स्त्रीपुरुषयोरपि तत्सम्पादनविषये तत्पोषणविषये च श्रद्धापूर्वक परिश्रमोऽप्यासीत्। एवं ग्रामाः स्वयं समृद्धाः वस्तुविनिमयेन च सुखेन जीवन्ति स्म। गैहिकेषु कृत्येषु पत्नीनामेव बाध्यता अधिका आसीत्तदानीम्।अत एवोक्तम्---- श्लो॥ "न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते। गृहं तु गृहिणीहीनम् अरण्यसदृशं भवेत्॥" सर्वेषां श्रेयसां पत्न्यैव मूलम्---अत्र कृष्णयजुर्वेदः वदत्येवम्----"अर्धो वा एष आत्मनो यत् पत्नी" इति। "अर्धं भार्या मनुष्यस्य, भार्या श्रेष्ठतमस्सखा। भार्…

प्राचीन भारतीय गृहपरिश्रमाः I

"गोरसात् (क्षीरात्)घृतकरणं,तथा तैलगुडयोः,कार्पासस्य च सूत्रकर्तनं,सूत्रस्य च वानं,शिक्यरज्जुपाश
वल्कलसङ्ग्रहणं,कुट्टन कण्डनावेक्षणम्,आचाम-मण्ड-तुष-कण-कुट्य--अङ्गाराणामुपयोजनम्, भृत्यवेतनभरणज्ञानम्,कृषिपशुपालनचिन्ता,वाहनविधियोगाः, मेष-कुक्कुट-लावक--शुक-सारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्, दैवनिकायव्ययपिण्डीकरणम् च विद्यात् ।"          (गृहराज्यम्-भागः २---रचयिता--ब्रह्मश्री उमामहेश्वरपण्डितः----१९४७ वत्सरे मुद्रितम्) गोरसात् घृतकरणम्------क्षीर,दधि,घृताविष्करणादीनि कृत्यानि। तथा तैलगुडयोः----------तैल,गुडसम्बन्धीनि यान्त्रिक कृत्यानि। कार्पासस्य च सूत्रकर्तनम्------वस्त्रार्थं सूत्रनिर्माणानि। सूत्रस्य च वानम्----------कार्पाससूत्रैः वस्त्राणां वयनम्। शिक्य,रज्जु,पाश,वल्कल सङ्ग्रहणम्----शिक्य,रज्जु,पाश,वल्कलानां परिश्रमः। कुट्टन,कण्डनावेक्षणम्----अन्नार्थं धान्यादीनाम् अवहननदिकम्। आचाम-मण्ड-तुष-कण-कुट्य-अङ्गाराणाम् उपयोगादिकम्। भृत्यवेतनभरणज्ञानम्-------सेवकेभ्यः वेतनदानादि परिज्ञानम्। कृषिपशुपालनचिन्ता----व्यवसायः,पशुपोषणपालनादिकम्। वाहनविधियोगाः------वृषभाश्वादीनाम…

प्रपञ्चीकरणं नाम किम्?

प्रपञ्चीकरणं नाम किम्? सर्वे प्रपञ्चीकरणमिति निनदन्ति।एतत्पदमेव स्पष्टं नास्ति।किं किं प्रपञ्चीकुर्मो वयम्।यदि मानवसंस्कृतिं प्रपञ्चे परिव्याप्तां कुर्मः तर्हि संस्कृतात् उत्तमं साधनं नास्ति। "वसुधै व कुटुम्बक"मिति भावना संस्कृते एवास्ति। प्रपञ्चे सर्वे मानवाः मनोः सन्ततिरेव।भारतरामायणादिग्रन्थेषु मानवसंस्कृतिः प्रतिबिम्बितोऽस्ति।"विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रत"मिति,"गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः"इति,मातृवत्परदारेषु परद्रव्येषु लोष्ठवत्"इत्यादिसूक्तिभिः जीवनमूल्यानि बोधयितुं समर्था भाषा संस्कृतभाषैव।     एषा भाषा स्वलिङ्गसम्पर्कं वा,सन्ताननिरोधकसाधनानि वा, मद्यपानादिव्यसनानि वा न प्रोत्साहयति।     "सर्वे जनास्सुखिनो भवन्तु,सर्वे भद्राणि पश्यन्तु,मा कश्चित् दुःखभाक् भवे"दिति जीवितस्य उत्तमलक्ष्याणि निर्दिशतीयं भाषा। भाषया संस्कृतिरनुस्रियते।संस्कृतेः पालनेन विश्वस्य श्रेयो भवति। व्यापारविस्तरेण वा दुराक्रमणैर्वा बलात् मतान्तरीकरणै र्वा कुटुम्बनियन्त्रणसाधनैर्वा स्वलिङ्गसम्पर्कादि दुर्वृत्तप्रोत्साहनैर्व…

श्रीरामनवम्‍य: हार्दिकी शुभकामना:

चित्र
अद्य रामनवमी अवसरे श्रीश्रृंगीऋषिआश्रमस्‍य द्वे चित्रे ।
 -->

नवसंवत्‍सर 2070 वर्षस्‍य हार्दिकी शुभकामना: ।

नवसंवत्‍सरस्‍य 2070, नवरात्रे: च हार्दिकी शुभकामना: । भवतां कृते एतत् वर्षं शुभं भवेत् । -->