प्रपञ्चीकरणं नाम किम्?

    प्रपञ्चीकरणं नाम किम्? सर्वे प्रपञ्चीकरणमिति निनदन्ति।एतत्पदमेव स्पष्टं नास्ति।किं किं प्रपञ्चीकुर्मो वयम्।यदि मानवसंस्कृतिं प्रपञ्चे परिव्याप्तां कुर्मः तर्हि संस्कृतात् उत्तमं साधनं नास्ति।
"वसुधै व कुटुम्बक"मिति भावना संस्कृते एवास्ति। प्रपञ्चे सर्वे मानवाः मनोः सन्ततिरेव।भारतरामायणादिग्रन्थेषु मानवसंस्कृतिः प्रतिबिम्बितोऽस्ति।"विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रत"मिति,"गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः"इति,मातृवत्परदारेषु परद्रव्येषु लोष्ठवत्"इत्यादिसूक्तिभिः जीवनमूल्यानि बोधयितुं समर्था भाषा संस्कृतभाषैव।
    एषा भाषा स्वलिङ्गसम्पर्कं वा,सन्ताननिरोधकसाधनानि वा, मद्यपानादिव्यसनानि वा न प्रोत्साहयति।
    "सर्वे जनास्सुखिनो भवन्तु,सर्वे भद्राणि पश्यन्तु,मा कश्चित् दुःखभाक् भवे"दिति जीवितस्य उत्तमलक्ष्याणि निर्दिशतीयं भाषा। भाषया संस्कृतिरनुस्रियते।संस्कृतेः पालनेन विश्वस्य श्रेयो भवति।
व्यापारविस्तरेण वा दुराक्रमणैर्वा बलात् मतान्तरीकरणै र्वा कुटुम्बनियन्त्रणसाधनैर्वा स्वलिङ्गसम्पर्कादि दुर्वृत्तप्रोत्साहनैर्वा प्रपञ्चीकरणं साधयितुं न शक्नुमः।
  ऐक्यराज्यसमितिं स्थापितवन्तः।"बांडुंग्"पञ्चशीलसूत्राणि ग्रथितान्यस्माभिरेव।दक्षिणाशियादेशसहकारसमाख्या अपि निर्मिता। पदे पदे देशविदेशेषु शिखराग्रसमावेशा अपि आयोज्यन्ते एव।परन्तु,फलितंन दृश्यते। दूरश्रवण,दूरदर्शनादि वैज्ञानिकसाधनोपयोगैर्वा आधुनिकविद्याविधानेन वा विविधदेशानांसान्निहित्येनापि वा देशयोर्मध्ये वा संस्कृत्योर्मध्ये वा सामरस्यं नाद्यापि सम्पाद्यते।
स्वदेशे स्ववेषे स्वभाषायां मतिर्नास्ति चेत् जनाः बहुधा विघटिताश्चेत् राज्यपालनमव्यवस्थितञ्चेत्
बिधिविहितकृत्येषु श्रद्धा भक्तिश्च नास्ति चेत् कथं भवति समैक्यभावना गृहे वा ग्रामे वा नगरे वा
राष्ट्रे वा देशे वा? कथं प्रपञ्चभावना आयाति? पालकाः मिथः कलहायन्ते।पालिता अपि तथैव सन्ति।
नास्माकं देशे एव एषा स्थितिः।प्रपञ्चे सर्वेषु देशेषु स्थितिरेषैव। सर्वत्र जीवनमूल्यान्येव विस्मृतानि।
झंझावाते समुद्रमध्ये नौरिव अद्य प्रपञ्चोऽस्ति। किं कुर्मोऽद्य वयम्?
 
अभिवाद्य,
ऐवियन्।
iviyan82@gmail.com
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।