वेदशब्‍दस्‍य अर्थं स्‍वरूपं च


वह्वृच्प्रातिशाख्‍ये वेदशब्‍दस्‍यार्थ: - 'विद्यन्‍ते धर्मादय: पुरुषार्थ: यैस्‍ते वेदा:' इति प्रदत्‍त: अस्ति ।  सायणाचार्य: स्‍वस्‍य ऋग्‍वेदभाष्‍यभूमिकायां वेदस्‍यार्थं - 'अपौरुषेयवाक्यं वेद:' इति कृतवान् ।  तत्रैव स: पुन: उक्‍तवान् यत् 'इष्‍ट्प्राप्‍त्‍यनिष्‍ट परिहारयोरलौकिकं साधनं यो वेदयति स वेद' ।  अस्‍य प्रमाणरूपेण श्‍लोकमपि दत्‍तम्
प्रत्‍यक्षेणानुमित्‍या वा यस्‍तूपायो न विद्यते 
एवं विदन्ति वेदेन तस्‍मात् वेदस्‍य वेदता ।।
वेदपदेन तु संहिता, ब्राह्मण, आरण्‍यकम्, उपनिषद् चेति चतुर्णां ग्रन्‍थानां बोध: भवति ।
संहिता - छन्‍दोबद्धमन्‍त्रयुक्‍ता वेदविभाग: ।
ब्राह्मण - वेदस्‍य व्‍याख्‍याभाग:, गद्यात्‍मक:, यागादिवर्णनपरक: च ।
आरण्‍यकम् - मन्‍त्रव्‍याख्‍या द्वौपि प्राप्‍यते अस्मिन्, गाथारूप:, वानप्रस्‍थीय: ग्रन्‍थ:  ।
उपनिषद् - तत्‍तत्संहितागत-ब्रह्मज्ञा‍नादिविषयाणां वर्णनरूपेण संकलनम्, वेदस्‍य अन्तिम: विभाग: ।
एते विभागा: वेदेषु उपलभ्‍यन्‍ते । इति

-->

टिप्पणियाँ

  1. अस्माकं मतिः भौतिकतायाः जाले एव पतिता अस्ति । संस्कृतस्य ज्ञाता भूत्वा एव अहम् इदानीं ऋषीणां वास्तविकं स्वरूपं बोधन् अस्मि । यदि एषु लघुषु लेखेषु इयतः प्रभावः तर्हि कियतः च वास्तविकेषु ग्रन्थेषु ?

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी