प्राचीन भारतीय गृहपरिश्रमाः -2I


"परिपूतेषु च हरितशाक वप्रान्-इक्षुस्तम्भान्-जीरक-
सर्षप-अजामोद-शतपुष्पा-तमाल गुल्मांश्च कारयेत्"
   "कुब्जक--आमलक-मल्लिका-जाती-कुरण्टक-वनमालिका-तगर-नन्द्यावर्त-जपा गुल्मान्,अन्यांश्च बहुपुष्पान्,वालक-उशीरिका-पातालिकांश्च,--वृक्षवाटिकायाः स्थण्डिलानि मनोज्ञानि कारयेत्।
मध्ये कूपं वापीं दीर्घिकां वा कारयेत्"-----
 (गृहराज्ये---२ भागे----पृष्टे १०७--वात्स्यायनकामसूत्रेषु तु,४-१-६,८ सूत्राणि)
पुरा भारते प्रतिगृहं नित्योपयोगिवस्तुजातानि वृक्षवाटिकासंवर्धनेन लभ्यन्ते स्म।ग्रामेषु वस्तुसमृद्धिरासीत्।स्त्रीपुरुषयोरपि तत्सम्पादनविषये तत्पोषणविषये च श्रद्धापूर्वक परिश्रमोऽप्यासीत्।
एवं ग्रामाः स्वयं समृद्धाः वस्तुविनिमयेन च सुखेन जीवन्ति स्म।
गैहिकेषु कृत्येषु पत्नीनामेव बाध्यता अधिका आसीत्तदानीम्।अत एवोक्तम्----
श्लो॥
"न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
गृहं तु गृहिणीहीनम् अरण्यसदृशं भवेत्॥"
सर्वेषां श्रेयसां पत्न्यैव मूलम्---अत्र कृष्णयजुर्वेदः वदत्येवम्----"अर्धो वा एष आत्मनो यत् पत्नी" इति।
"अर्धं भार्या मनुष्यस्य, भार्या श्रेष्ठतमस्सखा।
भार्या मूलं त्रिवर्गस्य,भार्या मूलं तरिष्यतः।
य स्सदार स्स विश्वास्यः, तस्माद्दाराः परा गतिः"----
श्लो॥
"पुत्रपौत्रवधूभृत्यैः आकीर्णमपि सर्वतः,
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥"
"अयज्ञो वा एष योऽपत्नीकः.......एतद्वै पत्नीना मायतनम्"-----(कृष्णयजुर्वेदः)
(भार्याहीनस्य पुरुषस्य यज्ञं वा किमपि शुभं कर्म वा निर्वोढुमधिकारो नास्तीत्यर्थः)
भारतीयसंस्कृतौ स्त्रीणामौन्नत्यं पश्यामः-----
"स्त्रिय स्सतीः, ता उ मे पुग्ंस आहुः,पश्य दक्षण्वा न्नविचेतदन्धः"(कृ.य.अरुणम्)
"समानाश्च स्त्रियः कौशलेनोज्ज्वलतया,पाकेन मानेन तथोपचारै रतिशयेत"(वात्स्यायनः-४-१-३१)
"पितृभि र्भार्तृभिश्चैताः पतिभि र्देवरै स्सदा।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः।"
"यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राऽफलाः क्रियाः"
स्त्रीणां विषये पुरुषाणां कृतज्ञता एवमासीत्पुरा----
श्लो॥
"न भुङ्क्ते मय्यभुङ्क्ते या, 
नास्नाते स्नाति सुव्रता, 
ना तिष्ठत्युपतिष्ठेत,
शेते च शयिते मयि।
हृष्टे भवति सा हृष्टा, दुःखिते मयि दुःखिता, 
प्रोषिता दीनवदना, क्रुद्धे च प्रियवादिनी॥"
श्लो॥
"सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः।
द्वयोर्हि कुलयो श्शोक मावहेयु ररक्षिताः"
(मनुस्मृतिः)
धर्मविषये सूक्तिः---
"धर्मं यो बाधते धर्मः, न स धर्मः, कुधर्म तत्।
                         अविरोधी तु यो धर्मः, स धर्म इति निश्चयः॥
अतः धर्मरक्षणे जागरूका भवेम।
अभिवाद्य,
ऐवियन्।

-->

टिप्पणियाँ

  1. बहुभ्यो दिनेभ्यः पश्चात् पठनार्थम् लेखः उपलब्धो भूतो…स्ति ।

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी