संदेश

May, 2013 की पोस्ट दिखाई जा रही हैं

आख्‍यानम्

विधे: स्‍वरूपं हृदयंगमं कर्तुं, विषयस्‍य रोचकत्‍वं वर्धितु च आख्‍यानानि समायोज्‍यन्‍ते ।  एतानि आख्‍यानानि द्विधा सन्ति ।
1- दीर्घकायम् - दीर्घकायाख्‍यानेषु पुरुरवा-उर्वशी, सरमा-पणि, यम-यमी आदीनि सन्ति प्रमुखानि ।
2- लघुकायम् - लघुकायं विधे: सयुक्तिकतां प्रतिपादयति ।  


-->

नि‍रुक्ति:

शब्‍दनां निर्वचनानि ब्राह्मणेषु बहुधा प्राप्‍यन्‍ते ।  अनेन शब्‍दानां मूलार्थ: विज्ञायते ।  निरुक्‍तग्रन्‍थानाम् उत्‍पत्तिमूलानि ब्राह्मणानि एव सन्ति ।
 -->

अर्थवाद:

यागनिषिध्‍दवस्‍तूनां निन्‍दा, यागोपयोगीवस्‍तुनां च प्रशंसा एव अर्थवाद: कथ्‍यते ।


-->

हेतु:

कस्‍य कार्यस्‍य सिद्धिहेतो: क: यज्ञ: सम्‍पादनीय: तस्‍य कारणम् एव हेतु: कथ्‍यते ।  अर्थात् कारणकथनम् एव हेतु: इति अस्ति ।
-->

विनियोग:

कस्‍यमन्‍त्रस्‍य कस्मिन्नर्थे प्रयोग: करणीय: कस्‍य प्रयोजनस्‍य सिध्‍यर्थं च करणीय: अयमेव विनियोग: ।  अस्‍य प्रथमत: प्रयोग: ब्राह्मणग्रन्‍थेषु एव प्राप्‍यते ।

-->

विधि:

कस्‍य यज्ञस्‍यायोजनं कदा, कथं, कुत्र, केनविधिना च करणीयं तस्‍याधिकारी च क:, एतेषां विषयाणां व्‍याख्‍यानम् एव ब्राह्मणानां मुख्‍य विषय: । इयमेव विधिरस्ति । 
-->

ब्राह्मणस्‍य विधय: ।

ब्राह्मणग्रन्‍थानां मुख्‍यप्रतिपाद्यविषय: विधि: अस्ति ।  विधे: अंगभूतानि 10 वस्‍तूनि निम्‍नलिखितानि सन्ति ।
हेतुर्निवचनं निन्‍दा प्रशंसा संशयो विधि:  प्रक्रिया पुराकल्‍पो व्‍यवधारणकल्‍पना  उपमानं दशैतेतो विधयो ब्राह्मणस्‍य तु ।।   हेतु:निर्वचनम् निन्‍दा प्रशंसा संशय: विधि: प्रक्रिया पुराकल्‍प: व्‍यवधारणकल्‍पनाउपमानम् 
   एतेष्‍वपि विधि:, विनियोग:, हेतु:, अर्थवाद:, निरुक्ति:, आख्‍यानम् , एतानि प्रमुखानि सन्ति ।  एतेषु अपि विधि: सर्वप्रमुखा अस्ति । 
-->

उपनिषद् ।

संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  वेदरूपीवृक्षस्‍य यदि ब्राह्मणग्रन्‍था: शाखा: सन्ति चेत् आरण्‍यकग्रन्‍था: तासां शाखानां पुष्‍पाणि सन्ति । एवं च उपनिषदग्रन्‍था: तेषां पुष्‍पाणां सुगन्धि: सन्ति । 
   तात्‍पर्यमस्ति यत् प्राचीनकाले ऋषय: यान् बीजान् आरण्‍यकेषु वपितवन्‍त:, ते एव उपनिषत्‍सु पुष्पिता: पल्‍लविता: अभवन् ।  वेदानाम् अन्तिम: भाग: सन् एता: वेदान्‍त नाम्‍नापि अभिधीयन्‍ते ।
शंकराचार्यदृष्‍ट्या उपनिषद: 'ब्रह्मविद्या' इति सन्ति ।  उपनिषद् शब्‍दस्‍योत्‍पत्ति: उप, नि च उपसर्गयो: पूर्वकं सदलृ धातुना अभवत् ।  अत्र सदलृ धातो: प्रयोग: 1-विशरण, 2-गति: एवं च 3-अवसादनम् एतेषु त्रिषु अर्थेषु भवति ।  एवं विधा उपनिषदस्‍याभिप्राय: - अविद्याया: विशरणम्, ब्रह्मविद्याया: प्राप्ति: तथा च सांसारिकदु:खानां शिथिलीकरणमस्ति ।  यद्यपि उपनिषदस्‍याभिप्राय: ब्रह्मविद्यया अस्ति किन्‍तु गौणरूपेण ब्रह्मविद्याया: प्रतिपादकग्रन्‍था: अपि उपनिषद् कथ्‍यन्‍ते ।
   मुख्‍योपनिषदानां संख्‍या निम्‍नोक्‍ता अस्ति -
ऋग्‍वेदसंहिता - ऐतरेयोपनिषद्, कौषीतकि उपनिषद्, बाष्‍कलोपनिषद् ।
यजुर्…

आरण्‍यकम् ।

संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  आरण्‍यकग्रन्‍था: ते गूढग्रन्‍था: सन्ति येषामध्‍ययनं ग्रामात् बहिं एकान्‍तस्‍थाने भवति स्‍म । सायणाचार्यानुसारं -येषामाध्‍यात्मिकग्रन्‍थानाम् अध्‍ययनं मननं चितनं वा च ग्राम/नगरस्‍य कोलाहलपूर्णे वातावरणे सम्‍भवं नासीत् तदर्थं तेषामध्‍ययनपरम्‍परा अरण्‍ये एव विकसिता, वेदेषु निहितानामनेकानां रहस्‍यानामुद्घाटनं यस्मिन् ग्रन्‍थे कृतम्, तथा च यै: प्राणविद्याया: दार्शनिकविवेचनम् अभवत् ते एव आरण्‍यकग्रन्‍था: कथ्‍यन्‍ते ।
   आरण्‍यकग्रन्‍था: ब्राह्मणानामेव पूरकग्रन्‍था एवं सहैव एते उपनिषदग्रन्‍थानां प्रारम्भिकविभागा: अपि सन्ति ।  ब्राह्मणग्रन्‍थेषु यज्ञानां जटिलविधानं प्रदत्‍तमस्ति किन्‍तु आरण्‍यकग्रन्‍थे सरलोपाया: वर्णिता: सन्ति ।  एवं विधा वयं वक्‍तुं शक्‍नुम: यत् मन्‍त्रब्राह्मणात्‍मक: स: वेदविभाग: यस्मिन् आध्‍यात्मिकतत्‍वानां मीमांसा, प्राणविद्या प्रतीकोपासनाया: च विषय: वर्णित: स: अंश: आरण्‍यकम् इति नाम्‍ना ज्ञायते ।
   महाभारतस्‍य आदिपर्वे कथनमस्ति -
नवनीतं यथा दध्‍नो, मलयाच्‍चन्‍दनं यथा ।  आरण्‍यकं च वेदेभ्‍य:, औषधिभ्‍यो मृतं …

ब्राह्मणम् ।

संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  सायणाचार्यानुसारेण परम्‍परया यानि वाक्‍यपदानि मन्‍त्र: न सन्ति तानि ब्राह्मणानि एवं च यानि ब्राह्मणम् न सन्ति तानि मन्‍त्रा: इति कथ्‍यन्‍ते ।  शतपथब्राह्मणानुसारं -''ब्रह्म वै मन्‍त्र:'' 7/1/1/5 ।  स्‍पष्‍टमस्ति यत् वैदिकमन्‍त्राणां व्‍याख्‍यानम् एव ब्राह्मणम् ।  ब्राह्मणेषु मन्‍त्राणां, कर्मणां, विनियोगानां च व्‍याख्‍या अस्ति ।  ब्राह्मणानामपि द्रष्‍टार: आचार्या: इति कथ्‍यन्‍ते ।
   प्रायेण सर्वेषां वेदानां ब्राह्मणग्रन्‍था: समुपलभ्‍यन्‍ते ।  एते ग्रन्‍था: निम्‍नोक्‍ता: सन्ति ।
ऋग्‍वेदसंहिता - ऐतरेय ब्राह्मणम्, शांखायन ब्राह्मणम् (कौषीतकि ब्राह्मणम्)
यजुर्वेदसंहिता - शतपथ (माध्‍यन्दिनकाण्‍वशाखयो: - शुक्‍लयजुर्वेदस्‍य), तैत्तिरीय, मैत्रायणी, कठ, कपिष्‍ठल (कृष्‍णयजुर्वेदस्‍य)
सामवेदसंहिता - प्रौढ (पंचविंश), षडविंश, सामविधान, आर्षेय, देवताध्‍याय, उपनिषद् (मन्‍त्र/छान्‍दोग्‍य), संहितोपनिषद्, वंश, जैमिनीय (तवलकार) च ।
अथर्ववेदसंहिता - गोपथब्राह्मणम् ।

-->