ब्राह्मणम् ।

   संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  सायणाचार्यानुसारेण परम्‍परया यानि वाक्‍यपदानि मन्‍त्र: न सन्ति तानि ब्राह्मणानि एवं च यानि ब्राह्मणम् न सन्ति तानि मन्‍त्रा: इति कथ्‍यन्‍ते ।  शतपथब्राह्मणानुसारं -''ब्रह्म वै मन्‍त्र:'' 7/1/1/5 ।  स्‍पष्‍टमस्ति यत् वैदिकमन्‍त्राणां व्‍याख्‍यानम् एव ब्राह्मणम् ।  ब्राह्मणेषु मन्‍त्राणां, कर्मणां, विनियोगानां च व्‍याख्‍या अस्ति ।  ब्राह्मणानामपि द्रष्‍टार: आचार्या: इति कथ्‍यन्‍ते ।
   प्रायेण सर्वेषां वेदानां ब्राह्मणग्रन्‍था: समुपलभ्‍यन्‍ते ।  एते ग्रन्‍था: निम्‍नोक्‍ता: सन्ति ।
ऋग्‍वेदसंहिता - ऐतरेय ब्राह्मणम्, शांखायन ब्राह्मणम् (कौषीतकि ब्राह्मणम्)
यजुर्वेदसंहिता - शतपथ (माध्‍यन्दिनकाण्‍वशाखयो: - शुक्‍लयजुर्वेदस्‍य), तैत्तिरीय, मैत्रायणी, कठ, कपिष्‍ठल (कृष्‍णयजुर्वेदस्‍य)
सामवेदसंहिता - प्रौढ (पंचविंश), षडविंश, सामविधान, आर्षेय, देवताध्‍याय, उपनिषद् (मन्‍त्र/छान्‍दोग्‍य), संहितोपनिषद्, वंश, जैमिनीय (तवलकार) च ।
अथर्ववेदसंहिता - गोपथब्राह्मणम् ।

-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी