संदेश

July, 2013 की पोस्ट दिखाई जा रही हैं

मानवा: हस्‍तेन भोजनं किमर्थं कुर्वन्ति ।

--> प्रिय विद्वत्सुहृदः, सादरम्प्रणम्य । इदमत्रावधार्यताम् । सृष्टौ ग्राम्यारण्यपशुषु सर्वेषु मानवाः गजाः मर्कटा एव केवलं हस्तेन आहारं गृह्णन्ति। अत्र कारणं वेदवाङ्मये दृश्यते। श्रुतिः॥" यत्त्रि रुपाग्ंशुग्ं हस्तेन विगृह्णाति,तस्मा त्त्रयः पशूवाग्ंहस्तादानाः       पुरुषो हस्ती मर्कटः।"    (कृ.य.सं.६.कां,४.प्र,५.अनु) (तात्पर्यम्)यज्ञे चतुर्थदिवसे उषःकाले "उपांशुग्रह"नाम्नि सोमपात्रे अध्वर्युः स्वेन अञ्जलिना त्रिवारं सोमरसं गृह्णाति।  अतः सृष्टौ ग्राम्यारण्यपशुषु मानवाः गजाः मर्कटा इति त्रय एव आहारं हस्तेन स्वीकुर्वन्तीति शिष्टाः पशवः मुखेनैव  आहारं स्वीकुर्वन्तीति च वेदवाङ्मयं कथयति।  उपांशुपात्रे त्रिवारं सोमरसं गृह्णीयादिति श्रौतसूत्रमप्येवं बोधयति------      श्रौ.सूत्रम्। "अथ प्रतिप्रस्थातोपाग्ंशुपात्रं धारय न्नपातानामुपरि द्वावग्ंशू अन्तर्दधाति।               तस्मि न्नभिषुतमध्वर्युरञ्जलिना सग्ंसिंचति।वाचस्पतये पवस्व वाजिन्निति।               एवं विहितो द्वितीय स्तृतीयश्च।"       (आ.श्रौ.सू.) (तात्पर्यम्)"प्रतिप्रस्थाता" इति नाम्नः कस्…

गर्भस्थशिशोः विचारः

श्लो॥ पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया ।
आहारा विविधा भुक्ताः पीता नानाविधा स्तनाः ॥
जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । यन्मया परिजनस्याऽर्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्येऽहं गता स्ते फलभागिनः । अतो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये सनातनम् ।  अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्याः प्रमुच्येऽहं ध्याये ब्रह्म सनातनम् ॥--- (अर्थः) मातृगर्भे स्थितस्य शिशोः पूर्वज्ञानं भवति ।  तेन गतासु अनेकासु योनिषु स्वस्य जननं स्मरन् एवं चिन्तयति --- "पूर्वेषु जन्मसु मया बहुविधाः आहाराः भुक्ताः ।  बहुविधाः मातृस्तना च पीताः ।      एकैकस्याः मातुः गर्भे उषित्वा जातः मृतश्चाहम्। पुनः पुनः जननं पुनः पुनः मरणमपि अनुभूतं मया।एवं बहुषु जन्मसु मम कृते मम परिजनस्य कुटुम्बगतस्य च कृते शुभाशुभकर्माणि बहूनि कृतवानहम्। सर्वोऽपि परिजनः मत्तः कर्माणि कारयित्वा तत्फलमनुभूय मां त्यक्त्वा गताः।      अहं तु एकाकी कर्मफलमनुभवामि। दुःखसागरे निमग्नोऽहम्।कथमिदं कष्टं निवारयितुं शक्नोमि? गर्भवासः नरको भवति।यदि नरकादस्मात् विमुक्तो भवामि तर्हि मम अशुभ…

वैदिकविज्ञानम् 2

लोके अस्थिरहितवीर्येण अस्थिसहितजीवानामुत्पत्तिं वयं पश्यामः। अत्र कारणमेवं वदति वेदः----- श्रुतिः(वेदः)      "ब्रह्मवादिनो वदन्ति,कस्मात्सत्यादनस्थिकेन                प्रजाः प्रवीयन्ते स्थन्वतीर्जायन्त इति यद्धिरण्यं                घृतेऽवधाय जुहोति,तस्मादनस्थिकेन प्रजाः प्रवीयन्ते                स्थन्वतीर्जायन्ते"॥       (कृ.य.सं.६.कां.१ प्र.७ अनु.) अत्र श्रुतिः प्रश्नोत्तररूपेण अस्ति। लोके अस्थिरहितवीर्येण गर्भोत्पत्तिर्भवति। परन्तु,जननसमये प्रजाः अस्थिभिः जायन्ते।अत्र किं कारणमिति विशङ्कमानः वेदः वदत्येवम्------ यज्ञे द्वितीयदिवसे प्रायणीयेष्टिसम्बन्धित "ध्रुवा" नाम्नि पात्रे स्थितमाज्यं "जुहुः" नाम्नि पात्रे चतुर्वारं निक्षिपन्ति। ततः जुहूस्थिते आज्ये दर्भेण शिथिलं यथा तथा बद्धं सुवर्णाङ्गुळीयकं निक्षिप्य तदाज्यं होमं कुर्वन्ति। एतत्कठिनद्रव्यरूपमङ्गुळीयकमाज्ये निक्षिप्य हवनेन सृष्टौ कठिनैरस्थिभिः प्रजाः जन्म लभन्तेऽति वेदः समाधानं ददाति। लोके दृश्यमानसङ्घटनानां कारणानि वेदे दृश्यन्ते। अनेन सङ्घटनेन लोकस्य वेदस्य च मध्ये पारस्परिकसम्बन्धोऽस्तीति …

वैदिकविज्ञानम्

लोके शरीरस्य स्थौल्यकार्श्ये शिरसि वयं न पश्यामः।  अत्र कारणं तु वेदे अस्ति।
यज्ञेषु संवत्सरसत्रनाम्ना कश्चन यागोऽस्ति ।  तस्मिन् यागे महाव्रतदिवसः पक्षिरूपेण, तस्मिन् दिवसे "त्रिवृत्"नामा स्तोमः शिरोरूपेण च निरूप्येते ।  अत्र त्रिवृत् - स्थानीय, स्तोमस्य, "आवृत्तिः" नास्तीति, कारणतः -लोके च, शिरः, स्थौल्यं वा, कार्श्यं वा विना, एकरूपेणैव तिष्ठतीति वेदो वदति ।  अर्थात् - शरीरं स्थूलम्भवतु - अथवा कृशम्भवतु - तस्य स्थौल्यकार्श्ये शिरसि न दृश्येते ।  अत्र वेदः एवम्बोधयति ---- श्रुतिः -- "पराचा स्तुवन्ति । तस्मात्त त्सदृगेव । न मेद्यतोऽनुमेद्यति,न कृश्यतोऽनुकृश्यति"                                                         (कृ.य.ब्रा.१,२,६) तात्पर्यम् - ऋगावृत्तिरहित(शिरस्स्थानीय) "त्रिवृत्"स्तोमेन, सामगानात्,शिरः शरीरस्य स्थौल्यं वा,कार्श्यं वा, न प्राप्नोति।शरीरं स्थूलं वा कृशं वा भवतु।परन्तु,शिरः,शरीरमनुसृत्य तथा(स्थूलं वा,कृशं वा) कदापि न भवति। एवं वेदस्य,लोकस्य,च मध्ये कश्चन दृढतरसम्बन्धोऽस्तीति ज्ञायते। अभिवाद्य, ऐवियन्। -->

शिक्षा वेदांग:

वेदानां प्राणभूतवेदांगेषु शिक्षावेदांग: अन्‍यतम: एव ।  शिक्षाया: व्‍युत्‍पत्तिलभ्‍यार्थ: कुर्वन् वेदभाष्‍यकार: आचार्यसायण: लिखति -
''स्‍वरवर्णाद्युच्‍चारणप्रकारो यत्र शिक्ष्‍यते उपदिश्‍यते सा शिक्षा'' अर्थात् येन् वैदिकमन्‍त्राणामतिशुद्धोच्‍चारणं ज्ञायते सा शिक्षा ।  अयं वेदांग: वेदस्‍य घ्राण (नासिका) इति उक्‍त: अस्ति ।  ''शिक्षा घ्राणं तु वेदस्‍य'' ।
   वेदमन्‍त्राणां सम्‍यगुच्‍चारणं कर्तुं स्‍वरज्ञानं नितान्‍तावश्‍यकं भवति ।  एते त्रिधा - उदात्‍तानुदात्‍तस्‍वरितभेदात् ।  उच्‍चैरुदात्‍त: ।  नीचैरनुदात्‍त: ।  समाहारस्‍वरित: ।
    वैदिकसाहित्‍य स्‍वरप्रक्रियाया: अत्‍यन्‍तं महत्‍वपूणमस्‍थानमस्ति ।  अस्‍य कारणमस्ति अर्थनियामकता ।  ''इन्‍द्रशत्रुर्वर्द्धस्‍व'' अस्‍य सुप्रसिद्धमुदाहरणमस्ति ।  तैत्तिरीयोपनिषद: प्रथमवल्‍यां शिक्षाया: षडंगस्‍य विवेचनमस्ति ।  (1- वर्ण, 2- स्‍वर, 3- मात्रा, 4- बल, 5- साम, 6- सन्‍तान ) । 
    आचार्यपाणिनि: स्‍वशिक्षाग्रन्‍थे षडाधमपाठका:, षडोत्‍तमपाठकानां कोटि: दत्‍तवान् ।  एते क्रमश: -
''माधुर्यमक्षरव्‍…

प्रमुखशिक्षाग्रन्‍था:

शिक्षाग्रन्‍थेषु प्रमुखशिक्षाग्रन्‍थाणामत्र परिचय: दीयते । 

ऋग्‍वैदिकशिक्षाग्रन्‍था: - पाणि‍नीयशिक्षा ।

यजुर्वेदीयशिक्षाग्रन्‍था: - याज्ञवल्‍क्‍यशिक्षा, वाशिष्‍ठीशिक्षा, माण्‍डव्‍यशिक्षा, भरद्वाजशिक्षा, माध्‍यन्दिनिशिक्षा, अवसाननिर्णयशिक्षा च । 

सामवेदीयशिक्षाग्रन्‍था: - नारदीयशिक्षा, शाकटायनकृत ऋक्‍तन्त्रम् च 

अथर्ववेदीयशिक्षाग्रन्‍था: - माण्‍डूकीशिक्षा, कौत्‍सप्रणीत शौनकीयाशिक्षा (चतुरध्‍यायिका), व्‍यासशिक्षा, कात्‍यायनीशिक्षा, पाराशरीशिक्षा, अमोघानन्दिनीशिक्षा, वर्णरत्‍नप्रदीपिकाशिक्षा, केशवीशिक्षा, मल्‍लशर्मशिक्षा, स्‍वरांकुशशिक्षा, क्रमसन्‍धानशिक्षा, गलदृकशिक्षा, मन:स्‍वारशिक्षा इत्‍यादय: शिक्षाग्रन्‍था: उपलभ्‍यन्‍ते । 
   एतदरिक्तं कानिचन् शिक्षासूत्राणि अपि निगदितानि सन्ति यथा - आपिशलि, पाणिनि एवं च चन्‍द्रगोमी रचितशिक्षासूत्राणि । 
   इति

वेदपुरुषस्‍य शरीरस्‍य अवयवा: वेदांगानि ।

छन्‍दा: पादौ तु वेदस्‍य, हस्‍तौ कल्‍पो थ पठ्यते ।  ज्‍योतिषामयनं चक्षुर्निरुक्‍तं श्रोत्रमुच्‍यते ।।  शिक्षा घ्राणं तु वेदस्‍य मुखं व्‍याकरणं स्‍मृतम्  तस्‍मात्‍सांगमधीत्‍यैव ब्रह्मलोके महीयते ।।
  छन्‍दा: वेदपुरुषस्‍य पादौ सन्ति, कल्‍पवेदांग: वेदपुरुषस्‍य हस्‍तौ अस्ति ।  ज्‍योतिषवेदांग: द्वे नेत्रे, निरुक्‍तं द्वौ कर्णौ, शिक्षा नासिका तथा च व्‍याकरणवेदांग: वेदपुरुषस्‍य मुखमस्ति इति भाव: ।  अनेन वेदांगानां महत्‍वप्रतिपादनं, तेष्‍वपि व्‍याकरणस्‍य ज्‍येष्‍ठत्‍वं प्रकटितं भवति ।
 -->