शिक्षा वेदांग:

   वेदानां प्राणभूतवेदांगेषु शिक्षावेदांग: अन्‍यतम: एव ।  शिक्षाया: व्‍युत्‍पत्तिलभ्‍यार्थ: कुर्वन् वेदभाष्‍यकार: आचार्यसायण: लिखति -
''स्‍वरवर्णाद्युच्‍चारणप्रकारो यत्र शिक्ष्‍यते उपदिश्‍यते सा शिक्षा'' अर्थात् येन् वैदिकमन्‍त्राणामतिशुद्धोच्‍चारणं ज्ञायते सा शिक्षा ।  अयं वेदांग: वेदस्‍य घ्राण (नासिका) इति उक्‍त: अस्ति ।  ''शिक्षा घ्राणं तु वेदस्‍य''
   वेदमन्‍त्राणां सम्‍यगुच्‍चारणं कर्तुं स्‍वरज्ञानं नितान्‍तावश्‍यकं भवति ।  एते त्रिधा - उदात्‍तानुदात्‍तस्‍वरितभेदात् ।  उच्‍चैरुदात्‍त: ।  नीचैरनुदात्‍त: ।  समाहारस्‍वरित: ।
    वैदिकसाहित्‍य स्‍वरप्रक्रियाया: अत्‍यन्‍तं महत्‍वपूणमस्‍थानमस्ति ।  अस्‍य कारणमस्ति अर्थनियामकता ।  ''इन्‍द्रशत्रुर्वर्द्धस्‍व'' अस्‍य सुप्रसिद्धमुदाहरणमस्ति ।  तैत्तिरीयोपनिषद: प्रथमवल्‍यां शिक्षाया: षडंगस्‍य विवेचनमस्ति ।  (1- वर्ण, 2- स्‍वर, 3- मात्रा, 4- बल, 5- साम, 6- सन्‍तान ) । 
    आचार्यपाणिनि: स्‍वशिक्षाग्रन्‍थे षडाधमपाठका:, षडोत्‍तमपाठकानां कोटि: दत्‍तवान् ।  एते क्रमश: -
''माधुर्यमक्षरव्‍यक्ति: पदच्‍छेदस्‍तु सुस्‍वर: । 
धैर्यं लयसमर्थंच षडेते पाठका गुणा: ।।''
1- माधुर्यम्, 2- अक्षरव्‍यक्ति:, 3- पदच्‍छेद:, 4- सुस्‍वर:, 5- धैर्य:, 6- लयसमर्थ: ।  एते षडगुणा: सन्ति उत्‍तमपाठकानाम् ।

गी‍ती शीघ्री शिर:कम्‍पी तथा लिखितपाठक: । 
अनर्थज्ञो अल्‍पकण्‍ठश्‍च षडेते पाठकाधमा: ।। 
1- गी‍ती, 2- शीघ्री, 3- शिर:कम्‍पी,4- लिखितपाठक:, 5- अनर्थज्ञ:, 6- अल्‍पकण्‍ठ: ।  एते षडावगुणा: सन्ति अधमपाठकानाम् ।

इति ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी