वैदिकविज्ञानम्

  लोके शरीरस्य स्थौल्यकार्श्ये शिरसि वयं न पश्यामः।  अत्र कारणं तु वेदे अस्ति।
यज्ञेषु संवत्सरसत्रनाम्ना कश्चन यागोऽस्ति ।  तस्मिन् यागे महाव्रतदिवसः पक्षिरूपेण, तस्मिन्
दिवसे "त्रिवृत्"नामा स्तोमः शिरोरूपेण च निरूप्येते ।  अत्र त्रिवृत् - स्थानीय, स्तोमस्य, "आवृत्तिः"
नास्तीति, कारणतः -लोके च, शिरः, स्थौल्यं वा, कार्श्यं वा विना, एकरूपेणैव तिष्ठतीति वेदो वदति ।  अर्थात् - शरीरं स्थूलम्भवतु - अथवा कृशम्भवतु - तस्य स्थौल्यकार्श्ये शिरसि न दृश्येते ।  अत्र वेदः एवम्बोधयति ----
श्रुतिः --
"पराचा स्तुवन्ति । तस्मात्त त्सदृगेव । न मेद्यतोऽनुमेद्यति,न कृश्यतोऽनुकृश्यति"
                                                        (कृ.य.ब्रा.१,२,६)
तात्पर्यम् - ऋगावृत्तिरहित(शिरस्स्थानीय) "त्रिवृत्"स्तोमेन, सामगानात्,शिरः शरीरस्य स्थौल्यं
वा,कार्श्यं वा, न प्राप्नोति।शरीरं स्थूलं वा कृशं वा भवतु।परन्तु,शिरः,शरीरमनुसृत्य तथा(स्थूलं वा,कृशं वा) कदापि न भवति।
एवं वेदस्य,लोकस्य,च मध्ये कश्चन दृढतरसम्बन्धोऽस्तीति ज्ञायते।
 
अभिवाद्य,
ऐवियन्।
-->

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी