संदेश

August, 2013 की पोस्ट दिखाई जा रही हैं

लट् लकारस्‍य प्रयोग: - ४

लिप्‍स्‍यमान सिद्धौ च ।३।३।७।
एवं कुर्म: चेत् एवं भविष्‍यति इति अर्थे, एवं च अन्‍नादि दत्‍वा स्‍वर्गप्राप्‍ते: कामनाया: कृते विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति ।  यथा -
यो अन्‍नं ददाति स: स्‍वर्गं याति
(जो अन्‍नदान करेगा वह स्‍वर्ग जायेगा ) ।

इति

लट् लकारस्‍य प्रयोग: - ३

यावत्‍पुरा निपातयोर्लट् ।३।३।४।
पुरा (पहले) शब्‍देन सह 'लुड्.' विहाय भूतकालस्‍यार्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति, किन्‍तु 'स्‍म' युक्‍तेन पुराशब्‍देन नैव ।  यथा -
वसन्‍तीह पुराच्‍छात्रा: । 
(पहले यहाँ विद्यार्थी रहा करते थे ) ।
'यावत्', 'तावत्' योगे अपि भविष्‍यत् कालस्‍यार्थे लट् लकारस्‍य प्रयोग: भवति ।  यथा -
यावदहम् आगच्‍छामि तावदपेक्षस्‍व ।
(जब तक मैं वापस आउं, तुम प्रतीक्षा करो ) ।
आर्य माधव्‍य, अवलम्‍बस्‍व चित्रफलकं यावदागच्‍छामि ।
(आर्य माधव्‍य, मेरे आने तक इस चित्रफलक को पकडो ) ।
निश्‍चयस्‍यार्थे 'यावत्' 'पुरा' च द्वयो: अव्‍ययो: योगे भविष्‍यत् काले अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा -
पुरा सप्‍तद्वीपां जयति वसुधाम् अप्रतिरथ: ।
(वह अनुपम वीर सप्‍तद्वीपा पृथ्‍वी को अवश्‍य ही जीत लेगा ) ।
यावत् अस्‍य दुरात्‍मन: कुम्‍भीनसीपुत्रस्‍य समुन्‍मूलनाय शत्रुघ्‍नं प्रेषयामि ।
(मैं इस कुम्‍भीनसी के पुत्र के विनाश के लिये शत्रुघ्‍न को भेजूँगा ) ।

इति

लट् लकारस्‍य प्रयोग: - २

लट् स्‍मे ।३।२।११८। अपरोक्षे च ।३।२।११९।
लट् लकारेण सह 'स्‍म' (अव्‍यय) योजनेन भूतकालस्‍यार्थं प्राप्‍यते । यथा-
कस्‍मंश्चिद्देशे धर्म्‍मबुद्धि: पापबुद्धिश्‍च द्वे मित्रे प्रतिवसत: स्‍म ।
(किसी देश में धर्मबुद्धि और पापबुद्धि नामक दो मित्र रहते थे ) ।
विशेष - 'स्‍म' लट् लकारस्‍यान्‍ते एव भवेदिति आवश्‍यकं नास्ति, इदं वाक्‍ये क्‍वचिदपि भवितुमर्हति ।  यथा-
दुनोति निर्गन्‍धतया स्‍म चेत: ।त्‍वं स्‍म वेत्‍थ महाराज, यत् स्‍माह न विभीषण: ।इति
भगवत: श्रीकृष्‍णस्‍य जन्‍मदिवसस्‍य हार्दिक शुभकामना:

लट् लकारस्य प्रयोग: ।

निरन्‍तरजायमाना क्रिया लट् लकारेण विधीयते । यथा - वह खेलता है, खेल रहा है, पढता है, पढ रहा है आदिवाक्‍यानाम् अनुवाद: ''क्रीडति, पठति'' इति क्रियते ।  इत्‍युक्‍ते वर्तमाने जायमानस्‍या: क्रियाया: प्रयोग: सर्वदा लट् लकारे क्रियते ।  लट् लकारस्‍य अन्‍यत्रापि प्रयोग: प्राप्‍यते ।  स: प्रयोग: अग्रलिखित: अस्ति ।

प्रारब्‍धोSपरिसमाप्‍तश्‍च काल: वर्तमानकाल:
   वस्‍तो: स्‍वभाव: उत सार्वकालिकसत्‍यस्य कृते लट् लकारस्‍य प्रयोग: क्रियते ।  यथा -
   चिरं पर्वतास्तिष्‍ठन्ति, नद्यश्‍च प्रवहन्ति ।  
   सत्‍यवादिन: प्रतिज्ञां वितथां न हि कुर्वन्ति ।

वर्तमानसामीप्‍ये वर्तमानवद्वा 
   वर्तमानकालस्‍य समीपे स्थित भविष्‍यस्‍य भूतस्‍य वा बोधार्थम् लट् लकार: प्रयुज्‍ज्‍यते ।  अर्थात् या क्रिया शीघ्रमेव समाप्‍ता भविष्‍यति उता सम्‍प्रति एव समाप्‍तं जातं तस्‍य कृते लटलकारस्‍य प्रयोग: क्रियते । यथा -
   कदा गोपाल: गमिष्‍यसि ? एष गच्‍छामि ।  (गोपाल कब जाओगे ? अभी जाता हूँ ।)
   कदा गोपाल आगन्‍तो असि ?  अयमागच्‍छामि ।  (गोपाल कब आये ? अभी आ रहा हूँ ।)

   कस्‍यचित् प्रश्‍नस्‍य उत्‍तरं दातुं भूतकालस्‍यार्थ…

धातुगणा:

संस्‍कृतभाषा: धात्‍वाधारिता भाषा ।  अस्‍यां भाषायां धातुं विना पदमपि गन्‍तुं शक्‍यं नास्ति ।  अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्‍या । धातुमधिकृत्‍यैव धातुरूपम् इत्‍युक्‍ते क्रियारूपं चलति ।  तेन माध्‍यमेनैव वाक्‍यप्रयोग: भवति ।
   प्रायशो सर्वा: धातव: आहत्‍य दश गणेषु विभक्‍ता: सन्ति ।  एतेषां दशगणानां नामानि तस्‍यान्‍तर्गतस्‍य प्रथमधातो: नामोपरि आधारितमस्ति ।  एते गणा: अधोक्‍ता: सन्ति ।
भ्‍वाद्यदादी जुहोत्‍यादिदिवादि: स्‍वादिरेव च । तुदादिश्‍च रुधादिश्‍च तनक्र्यादिचुरादय: ।। 
भ्‍वादिगण अदादिगण जुहोत्‍यादिगणदिवादिगण स्‍वादिगणतुदादिगणरुधादिगणतनादिगणक्र्यादिगणचुरादिगण एतेषाम् अन्‍तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्‍याम: ।

इति
रक्षाबन्‍धनस्‍य संस्‍कृतदिवसस्‍य च हार्दिक शुभकामना:

सेटानिटधातव: ।

सेट् - यासु क्रियासु 'इट्' प्रयुज्‍ज्‍यते ता: क्रिया: 'सेट्' इति उच्‍यन्‍ते ।  यथा - पठिष्‍यति ।

अनिट् - यासु क्रियासु 'इट्' नैव प्रयुज्‍ज्‍यते ता: क्रिया: 'अनिट्' इति उच्‍यन्‍ते ।  एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

लकारपरिचय:

धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति ।  एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते ।  दशलकारा: सन्ति अधोक्‍ता: ।
लट् लकार - वर्तमानकाले ।लिट् लकार - अनद्यतन-परोक्षभूतकाले ।लुट् लकार - अनद्यतनभविष्‍यतकाले ।लृट् लकार - अद्यतनभविष्‍यतकाले ।लेट् लकार - वेदप्रयोगे ।लोट् लकार - आज्ञाप्रयोगे ।लड्. लकार - अनद्यतनभूतकाले ।लिड्. लकार - विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने ।लुड्. लकार - अद्यतनभूतकाले ।लृड्. लकार - हेतुहेतुमद्भावप्रयोगे । लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा । विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।। इति

धातुरूपम्

धातुविषये विज्ञाय सम्‍प्रति अस्‍माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो: कर्मप्रवृत्तिं ज्ञातवन्‍त: । काचन् धातु: सकर्मकम् अकर्मकम् अथवा उभयविधं भवितुमर्हति । सम्‍प्रति धातो: अपरा प्रवृत्ति: इत्‍युक्‍ते सा धातु: कीदृशं रूपं दधाति इति जानिम: ।
   धातुप्रयोग: त्रेधा भवति पुन: ।

परस्‍मैपदी  - यदा क्रियाया: फलं साक्षात् कर्तारं प्रति न गच्‍छेत् तत्र परस्‍मैपदी धातु: भवति।
आत्‍मनेपदी - यदा क्रियाया: फलं साक्षात् कर्ता प्राप्‍येत् तत्र आत्‍मनेपदी धातु: भवति ।
उभयपदी - यदा क्रियाया: फलं कर्तारमपि अन्‍यै: सहैव मिलेत् तत्र उभयपदी धातुप्रयोग: भवति ।

एतेषां धातुरूपाणां विषये अधिकं अग्रे पठिष्‍याम: ।

धातूनां प्रकार: ।

-->
धातु: त्रेधा भवति । 
1- सकर्मकधातु:
2- अकर्मकधातु:
3- द्विकर्मकधातु: च


1- सकर्मकधातु: - येषां क्रियाणां फलं व्‍यापाराश्‍च भिन्‍न-भिन्‍नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्‍यन्‍ते । (फलव्‍यधिकरणव्‍यापारवाचकत्‍वं सकर्मकत्‍वम्) ।  साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्‍यादि ।

2- अकर्मकधातु: - यस्‍य फलं व्‍यापाराश्‍च एकस्मिनाश्रये एव तिष्‍ठति तदकर्मकमिति उच्‍यते ।  (फलसमानाधिकरणव्‍यापारवाचकत्‍वम् अकर्मकत्‍वम्) ।
सकर्मकधातु: यदि स्‍व अर्थं परित्‍यज्‍य अपरस्‍य अर्थस्‍य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी व‍हति ।यदि कर्मस्‍य धात्‍वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति ।  यथा - गोपाल: नृत्‍यति ।यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति ।कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्‍तरे वृत्ते: धात्‍वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति ।
लज्‍जासत्‍तास्थितिजागरणं वृद्धिक्षयभयजीवनमरणम् शयनक्रीडारुचिदीप्‍त्‍यर्थ…

धातु: किम् इति ?

-->
धातुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्‍टाध्‍यायीग्रन्‍थे वदति - भूवादयोधातव: ।  भू, एध आदीनां (क्रियावाचीवर्णसमुदायानां) धातुसंज्ञा भवति ।  धातुभि: सह तिड. आदिप्रत्‍यया: युञ्ज्यन्‍ते ।  एते तिड. प्रत्यया: अधोक्‍ता: सन्ति ।

परस्‍मैपदिधातूनां कृते - 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिप्, तस्, झि,
मध्‍यमपुरुष: सिप् थस् थ
उत्‍तमपुरुष: मिप् वस् मस्

आत्‍मनेपदिधातूनां कृते - 
एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: त, अताम्, झ
मध्‍यमपुरुष: थास्, आथाम्, ध्‍वम्
उत्‍तमपुरुष: इट्, वहि, महिड्.

एतै: सहयोगै: सर्वेषु कालेषु (लकारेषु) सर्वेषु पुरुषेसु, सर्वेषु वचनेषु च धातुरूपाणि निर्माप्‍यते ।

धातुरूपप्रकरणम्

मित्राणि अद्य आरभ्‍य संस्‍कृ‍तजगति धातुरूपप्रकरणं प्रकाशयिष्‍यते । भवन्‍त: येषां धातूनां धातुरूपं परिचयं वा प्राप्‍तुमिच्‍छन्ति कृपया अत्र टिप्‍पणीमंजूषायाम् अथवा अस्‍मान् ईमेल माध्‍यमेन लेखितुं शक्‍नुवन्ति । वयं भवतां समस्‍यासमाधानं कर्तुं कृतसंकल्‍पा: स्‍म: । पुनश्‍च ये बान्‍धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्‍य: स्‍वज्ञानलाभं प्रददातुमिच्‍छन्ति ते अपि कृपया स्‍वलेखान् लिखित्‍वा अस्‍मान् प्रेषितुं शक्‍नुवन्ति । अस्‍माकं ईसंकेत: pramukh@sanskritjagat.com अस्ति । अत्र प्रेषिता: भवन्‍त: लेखा: संस्‍कृतजगति प्रकाशयिष्‍यन्‍ते । भवतां हार्द: धन्‍यवाद: