संदेश

September, 2013 की पोस्ट दिखाई जा रही हैं

लिड्. लकार प्रयोग: - 4

इच्‍छार्थेषु लिड्. लोटौ ।3।3।157। 

इच्‍छा - 
भावन् शीघ्रं निरोगो भवेत् (भवतु वा) ।
(आप शीघ्र स्‍वस्‍थ हो जाएँ) । 

प्राप्‍तकाल: - 
प्रसाधयतु भवान् स्‍वां योग्‍यताम् । 
(आप अपनी योग्‍यता दिखाएँ) । 

कामचारानुज्ञा - 
अपि याहि, अपि तिष्‍ठ । 
(तुम चाहो तो जा सकते हो और चाहो तो ठहर सकते हो) । 

इति

लिड्. लकार प्रयोग: - 3

प्रवर्तना -प्रत्‍यक्ष:, विधि:, प्रार्थना, उपदेश: अनुमति:, अनुरोध:, आज्ञा च अर्थेषु लोट् उत विधिलिड्. लकारस्‍य प्रयोग: भवति ।

प्रार्थना - 
दीने मयि दयां कुरु ।
(मुझ गराब पर दया करें) । 
अप्‍यन्‍तरा गच्‍छानि आर्य । 
(श्रीमान्, क्‍या मैं भीतर आ सकता हूँ) ।

आज्ञा - 
तीर्थोदकं च समिध: सुकुमानि दर्भान् ।  
स्‍वैरं वनादुपनयन्‍तु तपोधनानि ।।
(स्‍वेच्‍छा से तपस्‍या का धन, तीर्थों का जल, समिधाएँ, फूल तथा कुशा घस ले आयें) ।
रमेश, त्‍वं पुस्‍तकं दशमे पार्श्‍वे समुद्घाटय पठनं चारभस्‍व ।
(रमेश, अपनी पुस्‍तक के दसवें पृष्‍ठ को खोलो और पढना शुरू करो) ।

आशीर्वाद - 
आत्‍मसदृशं भर्तारं लभस्‍व वीरसूंश्‍च भव । 
(परमात्‍मा करे तुम अपने योग्‍य पति को प्राप्‍त करो और वीरजननी हो जाओ) । 
पुत्रो स्‍य जनिषीष्‍ट य: शत्रुश्रियं हृषीष्‍ट, (ह्रियात्) । 
(ईश्‍वर करे उसके घर इस बार पुत्र पैदा हो जो शत्रुओं की लक्ष्‍मी का हरण करे) ।

उपदेश: - 
सत्‍यं ब्रूयात् प्रियं ब्रूयात् । 
(सत्‍य बोलें, मीठा बोलें) ।  
सहसा विदधीत न क्रियाम् । 
(बिना विचारे कार्य न करें) । 
सावधानो भव शत्रुर्निभृतमवसरं प्रतीक्षते । 
(सावधान रहो, शत्रु तुम्‍हारी घात में ह…

लिड्. लकार प्रयोग: - 2

सम्‍भाव्‍य भविष्‍यत् प्रवर्त्‍तना च (लोट्, लिड्.)

सम्‍भाव्य भविष्‍यत् - सम्‍भावना, प्रश्‍न:, औचित्‍यं, शपथ, इच्‍छा च आदि अर्थेषु लोट् उत विधि‍लिड्. लकारस्‍य प्रयोग: भवति ।
सम्‍भावना -
सम्‍भाव्‍यते अद्य पिता आगच्‍छेत्  । 
(शायद आज पिताजी आ जाएँ) ।
कदाचिदाचार्य: श्‍व: वाराणसीं गच्‍छेत् ।
(शायद कल गुरू जी काशी जायें)

संप्रश्‍न: - 
किमहं वेदान्‍तमधीयीय उत न्‍यायम् ।
(मैं वेदान्‍त पढूँ या न्‍याय) 

औचित्‍यम् -
त्‍वं साधूनां सेवां कुर्या: ।
(तुम साधुओं की सेवा करो) । 
तथा कुरु यथा निन्‍दा न भवेत् ।
(ऐसा न करो कि जिससे निन्‍दा हो) ।

शपथ - 
यो मां पिशाच इति कथयति तस्‍य पुत्रा म्रियेरन् (म्रियन्‍ताम्) ।
(जो मुझे पिशाच कहता है उसके पुत्र मर जायें) ।

इति

लिड्. लकार प्रयोग: ।

अनुमतिं विहाय आमन्‍त्रणादि अर्थेषु, विधिसामर्थ्‍ययो: चार्थे विधिलिड्.स्‍य प्रयोग: भवति ।  यथा -

विधौ -
          (1) ब्रह्मचारी मधुमांसं च वर्जयेत् ।
               (ब्रह्मचारियों को मधु और मांस का सेवन नहीं करना चाहिये) ।
          (2) प्रत्‍यक् शिरा न स्‍वप्‍यात् ।
               (पश्चिम की ओर सिर करके न सोवें)  ।
          (3) नान्‍यस्‍यापराधेनान्‍यस्‍य दण्‍डमाचरेत् ।
               (दूसरे के अपराध के लिये दूसरे को दण्‍ड न दें)  ।

इति

लोट् लकारस्‍य प्रयोग: - 3

'उपदेश' द्वारा आदेशबोध: भवति सन् अपि लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

य: सर्वाधिकारे नियुक्‍त: प्रधानमन्‍त्री स यथोचितं करोतु ।

'प्रश्‍न' 'सामर्थ्‍य' चादि बोधे उत्‍तमपुरुषे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

किं करवाणि ते प्रियं देवि । 
(देवि, तेरे लिये मैं क्‍या करूँ) ।

सिन्‍धुमपि शोषयाणि ।
(मैं समुद्र भी सुखा सकता हूँ) ।

इति

लोट् लकारस्‍य प्रयोग: - 2

आशीर्वाद अर्थे मध्‍यम तथा अन्‍य पुरुषे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

गच्‍छ विजयी भव ।
(जाओ, विजय प्राप्‍त करो) ।

पन्‍थान: सन्‍तु ते शिवा: ।
(तुम्‍हारे मार्ग कल्‍याणकारी होवें) ।

पुत्रं लभस्‍वात्‍मगुणानुरूपम् । 
(अपने ही समान गुणों वाला पुत्र प्राप्‍त करो) । 

सदारपुत्रो राजपुत्रो जीवतु । 
(राजपुत्र पुत्र सहित जीवित रहें) ।

विशेष - आशीर्वाद अर्थे यदा लोट् लकारस्‍य प्रयोग: भवति चेत् 'तु', 'हि' च स्‍थाने विकल्‍पेन 'तात्' इति भवति ।  यथा -

चिरं जीवतात् (जीवतु वा) शिशु: ।
कुशलं ते भवतात् (भवतु वा) ।

इति

लोट् लकारस्‍य प्रयोग:

विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिड्. ।3।3।161।
लोट् च ।3।3।162।
आशिषि लिड्. लोटौ ।3।3।273।

(विध्‍यादिषु अर्थेषु धातोर्लोट् स्‍यात् । सि. कौ.)
अनुमति, निमन्‍त्रण, आमन्‍त्रण, अनुरोध,‍ जिज्ञासा, सामर्थ्‍य च अर्थे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

अनुमति अर्थे - 
अद्य भवान् अत्र आगच्‍छतु ।
(आज आप यहाँ आइये) ।

निमन्‍त्रण अर्थे - 
अद्य भवान् इह भुड्.ताम् ।
(आज आप यहाँ भोजन कीजिये) ।

आमन्‍त्रण अर्थे - 
वने स्मिन् यथेच्‍छं वस ।
(इस वन में इच्‍छानुसार रह सकते हो) । 

मास्‍म अस्‍या: विपद: रक्षतु भवान् । 
(आप इस विपत्ति से मेरी रक्षा कीजिये) ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् । 
(हे महाबाहो, इच्‍छारूपी शत्रु का नाश कीजिये) । 

त्‍यज दुर्जनसंसर्गं भज साधुसमागमम् । 
(दुष्‍टों की संगति छोडिये, सज्‍जनों का साथ कीजिये) । 

भद्र, अनुजानीहि, पिंगलकसमीपं गच्‍छामि ।
(मित्र, आज्ञा दीजिये, मैं पिंगलक के पास जाता हूँ) ।

इति

लृड्. लकारस्‍य प्रयोग: - 2

यत्र क्रियातिपत्ति: (क्रियाया: अनिष्पत्ति: असिद्धि: वा) अर्थे प्रतीति: भवति अथवा हेतो: वाक्‍यार्थस्‍य वा मिथ: (हेतु:/वाक्‍यार्थ: व मिथ्‍या नास्ति इति) इति न प्रतीयते, तत्रापि लृड्. लकारस्‍य प्रयोग: भवति ।  लृड्. भूत् उत भविष्‍यत् अर्थे प्रयुज्‍ज्‍यते । चन्‍द्रव्‍याकरणानुसारी विद्वान्‍स: लृड्. लकारस्‍य भविष्‍यत्काले प्रयोग: नैव मन्‍यन्‍ते ।  ते भविष्‍यत् काले लृड्. इत्‍यस्‍यास्‍थाने लृट् लकारस्‍यैव प्रयोग: कुर्वन्ति । (भविष्‍यति क्रियातिपतने भविष्‍यन्‍त्‍येवेति चान्‍द्रा:) यथा -

यदि गोपाल: सन्‍तरणकौशलमज्ञास्‍यत् तर्हि जलात् नामेष्‍यत् ।
(यदि गोपाल तैरना जानता तो उसे जल से डर न लगता) ।

निशाश्‍चेत् तमस्विन्‍यो नाभविष्‍यन् को नाम चन्‍द्रमसो गुणं व्‍यज्ञास्‍यत् ।
(यदि रातें अन्‍धेरी न होतीं तो चन्‍द्रमा का गुण कौन जानता) ।

यद्यहम् अन्‍धो नाभविष्‍यम् तर्हि पृथिव्‍या: सर्वेषां गुणानां सौन्‍दर्यमद्रक्ष्‍यम् ।
(यदि मैं अन्‍धा न होता तो मैं पृथ्‍वी की समस्‍त वस्‍तुओं का सौन्‍दर्य देखता) ।

यदि राजा दुष्‍टेषु दण्‍डं नाधारयिष्‍यत् तदावश्‍यं ते प्रजा उपापीडयिष्‍यन् ।
(यदि राजा दुष्‍टों को दण्‍ड न …

लृड्.लकार प्रयोग:

लिड्. निमित्‍ते लिड्. क्रियातिपत्‍तौ ।3।3।139।

(यदि ऐसा होता तो ऐसा हो जाता) इति एवंविधिवाक्‍यानां प्रयोगे भविष्‍यत् अर्थे धातुना लृड्. लकार: भवति ।  यथा -

सुवृष्टिश्‍चेदभविष्‍यत् सुभिक्षभविष्‍यत् ।
(यदि अच्‍छी वर्षा होती तो अच्‍छा अन्‍न होता) ।

इति

लृट्, लुट् च लकारयो: प्रयोग: - 4

अभिज्ञावचने लृट् ।3।2।112।

वाक्‍ये अभिज्ञावचनं (स्‍मरणार्थबोधकशब्‍दा:) भवेत् सन् लड्. लकारस्‍य स्‍थाने लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

स्‍म‍रसि कृष्‍ण गोकुले वत्‍स्‍याम: ।
(हे कृष्‍ण तुम्‍हें याद है, हम गोकुल में रहते थे) ।

'आश्‍चर्य' अर्थे लृट् लकार: भवति ।  यथा -

आश्‍चर्यम् अन्‍धो नाम कृष्‍णं द्रक्ष्‍यति ।
(आश्‍चर्य है कि अन्‍धा कृष्‍ण को देखेगा) ।

'निश्‍चयार्थक' 'समर्थबोधक' च शब्‍दयो: कृते अलं शब्‍दस्‍य प्रयोगे लृट् लकारस्‍य प्रयोग: भवति ।
यथा -

अलं कृष्‍णो हस्तिनं हनिष्‍यति । 

इति

लृट्, लुट् च लकारयो: प्रयोग: - 3

क्षिप्रवचने लृट् ।3।3।133।

वाक्‍ये क्षिप्र (शीघ्र) शब्‍द: प्रयुक्‍त: सन् लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

वृष्टिश्‍चेत् शीघ्रं (त्‍वरितं, आशु वा) आयास्‍यति क्षिप्रं वप्‍स्‍याम: ।
यदि शीघ्र वर्षा होगी तो हम अनाज बोयेंगे ।

इति

लृट्, लुट् च लकारयो: प्रयोग: - 2

आशंसायां भूतवच्‍च ।3।3।132।
आशंसा (ऐसा होने पर ऐसा हो जायेगा) अर्थे लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

देवश्‍चेद् वर्षिष्‍यति धान्‍यं वप्‍स्‍याम: ।
(यदि वर्षा होगी तो धान बोयेंगे) ।

विशेष - अस्मिन् अर्थे एव लुड्. लट् लकारयोरपि प्रयोग: कृयते । यथा-
(देवश्‍चेद् अवर्षीत् वर्षति वा) ।

इति

लृट् लुट् च लकारयो: प्रयोग: ।

अनद्यतने लुट् ।3।3।15। लृट् शेषे च ।3।3।13।

भविष्‍यकालस्‍य वाक्‍यानां प्रयोग: संस्‍कृते लृट् लुट् च लकारयो: भवति । यद्यपि एतौ द्वौ अपि लकारौ भविष्‍यकालबोधकौ तथापि तयो: भेद: विद्यते । 
दूरवर्ती भविष्‍यस्‍य बोधार्थं लुट् लकार:, आसन्‍न उत समीपवर्ती भविष्‍यत् कृते तु लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

1 (क) - अयोध्‍यां श्‍व: प्रयातासि कपे भरतपालिताम् ।
(हे वानर, तू कल भरतपालित अयोध्‍या में जायेगा) ।

(ख) - पंचषैरहोभि: वयमेव तत्रागन्‍तार: ।
(पांच छ: दिनों में हम ही वहाँ जायेंगे) ।

2 (क) - न जाने क्रुद्ध: स्‍वामी किं विधास्‍यति ।
(न जाने स्‍वामी क्रोध में क्‍या कर डालेंगे) ।

(ख) - प्रत्‍ययं दास्‍यते सीता तामनुज्ञातुमर्हसि ।
(सीता अपने सतीत्‍व का प्रमाण देगी, उसे आज्ञा देना आपका काम है) ।

इति

लुड्. लकारस्‍य प्रयोग: ।

(क) - आसन्‍नभूतकाले (या क्रिया अद्यैव अभवत् तस्‍य कृते) लुड्. लकारस्‍य प्रयोग: भवति ।  यथा - 

इदमच्‍छोदं सर: स्‍नातुम् अभ्‍यागमम् ।
(मैं इस अच्‍छोद सरोवर में स्‍नान करने के लिये आई) ।

सुरथो नाम राजाभूत् समस्‍ते क्षितिमण्‍डले ।
(समस्‍त पृथ्‍वी में सुरथ नामक एक राजा हुआ) ।

(ख) - माड्. मास्‍म च शब्‍दाभ्‍यां योगे त्रिषु अपि कालेषु लुड्. लकारस्‍य प्रयोग: भवति ।  यथा -

क्‍लैव्‍यं मास्‍म गम: पार्थ ।
(हे अर्जुन निराश मत हो) ।
मास्‍म प्रतीपं गम: ।
(विपरीत मत हो जाना) ।
प्रिये, मा भैषी: ।
(प्रिये, डरो मत) ।

इति 

लिट् लकार प्रयोग: - 2

अत्‍यन्‍तापह्नवे लिट् वक्‍तव्‍य: । वा. ।

सत्‍यवाक्‍यस्‍य अपह्नवे (निमीलनेच्‍छायाम्) लिट् लकारस्‍य प्रयोग: भवति ।  यथा -
अपि कलिंगेष्‍ववस: ? नाहं कलिंगान् जगाम ।
(क्‍या तुम कलिंग में रहे ?  नहीं मैं कभी कलिंग देश में नहीं गया) ।

अरे ! किमिति मे पुस्‍तकं मलिनीकृतवान् असि ? नाहं ददर्श ते पुस्‍तकम् I
(अरे ! तूने मेरी पुस्‍तक क्‍यों गन्‍दी कर दी ? नहीं, मैंने नहीं की, मैंने तुम्‍हारी पुस्‍तक देखी तक नहीं है) ।

उत्‍तमपुरुषे लिट् लकार: नैव भवति, किन्‍तु स्‍वप्‍नावस्‍थायां उन्‍मत्‍तावस्‍थायां च उत्‍तमपुरुषे अपि लिट् लकारस्‍य प्रयोग: भवति । यथा -

अहम् उन्‍मत्‍त: सन् वनं विचचार ।
(मैंने पागलपन की दशा में जंगल में भ्रमण किया) ।

अप्‍यहं निद्रित: सन् विललाप ?
(क्‍या मैं निद्रित अवस्‍था में विलाप कर रहा था ?) ।

इति

लिट् (परोक्ष भूत) लकारस्‍य प्रयोग:

परोक्षभूतकालस्‍य कृते लिट् लकारस्‍य प्रयोग: भवति ।  परोक्ष भूत इत्‍युक्‍ते भूतकालस्‍य सा घटना या अस्‍माकम् इन्द्रियाभि: द्रष्‍टुं शक्‍य: नास्ति, अर्थात् यदस्‍माकं सम्‍मुखे नाभवत् ।  यथा -

शैलाधिराजतनया न ययौ न तस्‍थौ ।
(पार्वती न आगे जा सकीं न ठहर ही सकीं) ।
जहार लज्‍जां भरतस्‍य मातु: ।
(राम ने भरत की माता की लाज रखी) ।
छिन्‍नमूल इव पपात । 
(वह कटी हुई जड वाले पेड के समान गिर गया) ।

इति

मास्‍म ।

मास्‍म 
मास्‍म योगे 'लड्.' 'लुड्.'श्‍च प्रयोग: भवति ।  मास्‍म प्रयोगे आगमस्‍य अकारस्‍य लोप: भवति ।
यथा -

मास्‍म करोत् ।
(नहीं करना चाहिये) । 
मास्‍म भव 
(मत होओ) । 

वाक्‍यमध्‍ये स्थितस्‍य 'ह' 'शश्‍वत्' च कृते 'लड्.' 'लिट्' लकारयो: प्रयोग: भवति ।  यथा -

इति होवाच याज्ञवल्‍क्‍य: । 
(याज्ञवल्‍क्‍य ने ऐसा कहा) । 
कलशं पूर्णमादाय पृष्‍ठतोSनु जगाम ह । 
(पानी से भरे कलश को लेकर वह (मुनि के) पीछे चली गयी) ।
शश्‍वत् अकरोत् (चकार वा) ।

इति

लड्. लकारस्‍य प्रयोग: - २

प्रश्‍ने चासन्‍न काले ।३।२।११७।
वाक्‍ये लुड्.लकारभिन्‍नासन्‍न भूतकालस्‍य बोधार्थं परोक्षे (इन्द्रियै: अगोचर:) 'लड्.' 'लिट्' च लकारयो: अपि प्रयोग: भवति ।  यथा -

अभाषत् किम् ?
बभाषे किम् ?
जगाम किम् ?

किन्‍तु विप्रकृष्‍ट (य: नितरां पूर्वम् अतीत:) भूतकाले बोधार्थं लड्. लकारस्‍य प्रयोग: नैव भवति ।  तत्र लिट् लकारस्‍यैव प्रयोग: समीचीन: ।  यथा -

कंसं जघान किम् ?

इति

लड्. लकारस्‍य प्रयोग:

अनद्यतने लड्.
यत् कार्यम् अद्यतनात् पूर्वम् अभवत् तस्‍य बोधार्थं लड्. लकारस्‍य प्रयोग: क्रियते ।  यथा -
देवदत्‍तो हि एवम् अब्रवीत् । 
(देवदत्‍त ने ऐसा कहा था) ।
स च एकदा पानीयं पातुं यमुनाकच्‍छम् अगच्‍छत् ।
(एक दिन वह जल पीने के लिये यमुना नदी के किनारे गया) ।
आसीत् राजा च उल्‍कामुखो नाम ।
(उल्‍कामुख नामक एक राजा था) ।
अपश्‍यद्देवदेवस्‍य शरीरे पाण्‍डवस्‍तदा ।
(तब अर्जुन ने भगवान के शरीर में देखा) ।

इति

भूतकालस्‍य प्रयोग:

भूतकालस्‍य क्रियां प्रकटितुं संस्‍कृते लड्., लिट्, लुड्. च लकाराणां प्रयोग: भवति ।  'था', 'किया था', 'हुआ था', 'रहा था' कृते एतेषां प्रयोग: भवति ।  यथा - स: पपाठ (उसने पढा), त्‍वम् अपठ: (तुमने पढा), अहम् अगमम् (मैं गया) ।
यदि भूतकालस्‍य सूचकवाक्‍ये 'अद्य' शब्‍दस्‍य प्रयोग: भवति चेत् लुड्. लकारस्‍य प्रयोग: भवति ।  यथा -
अद्य रामो राजा अभूत् ।
(आज राम राजा हुए) ।
भूतकालसूचकवाक्‍ये यदि 'ह्य:' शब्‍दस्‍य प्रयोग: भवति चेत् लड्. लकारस्‍य प्रयोग: भवति ।  यथा -
ह्य: वृष्टिरभवत्
(कल वर्षा हुई थी) ।
परोक्षभूतकाले (इन्द्रियअगोचरत्‍वे) लिट् लकारस्‍य प्रयोग: भवति, किन्‍तु उत्‍तमपुरुषे लिट् लकारस्‍य प्रयोग: नैव भवति ।  यथा -
नारद उवाच 
(नारद बोले) । प्रयोग: तु सम्‍यगस्ति किन्‍तु
अहं वनं जगाम 
(मैं जंगल गया) । प्रयोग: सम्‍यक् नास्ति ।
अस्‍य कृते तु (अहं वनम् अगच्‍छम्) इत्‍यैवोपयुक्‍त: ।

इति

लट् लकारस्‍य प्रयोग: - ५

विभाषा कदा कर्ह्यो: ।३।३।५।
'कदा' 'कर्हि' च शब्‍दयो: योगे भविष्‍यत् अर्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति ।  यथा -
कदा कर्हि वा भुड्.ते ?
(कब खायेगा) ?

लोडर्थलक्षणे च ।३।३।८।
भविष्‍यत् इत्‍यस्‍यार्थे लोट् अर्थ ग्रहणे अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा -
कृष्‍णश्‍चेद् भुड्.ते त्‍वं गाश्‍चारय ।
(यदि कृष्‍ण खाना खावें तो तुम गाओं को चराओ) ।

किं वृत्‍ते लिप्‍सायाम् ।३।३।६।
प्रश्‍नसूचक भविष्‍यत् अर्थे विकल्‍पेन लट्लकारस्‍य प्रयोग: भवति ।  यथा -
अस्‍मासु कं भोजयति ?
(हम में से किसको खिलाओगे) ?

  लट् लकारस्‍य प्रयोग: भवद्भि: दृष्‍ट: ।  अग्रे भूतकालस्‍य प्रयोग: पश्‍याम: ।

इति