संदेश

December, 2013 की पोस्ट दिखाई जा रही हैं

महाभारतस्य मंगलाचरणम् ।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।

विश्वस्य प्रथमः लौकिक श्लोकः ।

क्रौंचवधकाले महर्षिवाल्मीकिमुखात् स्वयमेव प्रस्फुटितः विश्वस्य प्रथमः लौकिकश्लोकः –

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौंचमिथुनादेकम् अवधीः काममोहितम् ।।

अयं श्लोकः एव रामायणस्य मूलप्रेरकः अपि चाभवत् ।

रामायणस्य काण्डाः ।

रामायणमहाकाव्यं विश्वस्य आदिलौकिककाव्यमस्ति ।  अस्य रचयिता महर्षि वाल्मीकिः अस्ति ।  अस्मिन् महाकाव्ये सप्तकाण्डाः सन्ति अधोक्तानि ।

बालकाण्डःअयोध्याकाण्डःअरण्यकाण्डःकिष्किन्धाकाण्डःसुन्दरकाण्डःयुद्धकाण्डःउत्तरकाण्डः  प्रख्यातकाव्यं  तुलसीकृतश्रीरामचरितमानसे अपि सप्त एव काण्डाः सन्ति ।  नामानि चापि तानि एव ।  केवलं युद्धकाण्डस्य नामपरिवर्तनं लंकाकाण्ड इति रूपेण प्राप्यते ।

अष्टादश पुराणानि ।

अष्टादशपुराणानामस्मरणं कर्तुम् एकं सामान्यमश्लोकमस्ति‚ येन एतेषां पुराणानां नामानि सरलतया स्मर्तुं शक्यते ।
म–द्वयं भ–द्वयं चैव ब्र–त्रयं व–चतुष्टयम् ।
अ–ना–प–लिं–ग–कू–स्कानि पुराणानि प्रचक्षते ।।

म–द्वयं –
१ मत्स्यपुराणम्
२ मार्कण्डेयपुराणम्
भ–द्वयं–
३ भागवतपुराणम्
४ भविष्यपुराणम्

ब्र–त्रयं –
५ ब्रह्माण्डपुराणम्
६ ब्रह्मपुराणम्
७ ब्रह्मवैवर्तपुराणम्

व–चतुष्टयम् –
८ विष्णुपुराणम्
९ वायुपुराणम्
१० वामनपुराणम्
११ वराहपुराणम्

अ– १२ अग्निपुराणम्
ना– १३ नारदपुराणम्
प– १४ पद्मपुराणम्
लिं– १५ लिंगपुराणम्
ग– १६ गरुणपुराणम्
कू– १७ कूर्मपुराणम्
स्क– १८ स्कन्दपुराणम्
इति एतानि अष्टादशपुराणानि सन्ति ।।

सप्तमी विभक्तिः – सू़त्रभागः ।

आधारोSधिकरणम् ।२।४।४५।
सप्तम्यधिकरणे ।२।३।३६।
तस्येन्विषयस्य कर्मण्युपसंख्यानम् – वार्तिक ।
साध्वसाधु प्रयोगे च – वार्तिक ।
निमित्तात्कर्मयोगे – वार्तिक ।
यतश्च निर्धारणम् ।२।३।४१।
यस्य च भावेन भावलक्षणम् ।२।३।३७।
सप्तमीपंचम्यौ कारकमध्ये ।२।३।७।
आयुक्तकुशलाभ्यां चासेवायाम् ।२।३।४०।
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।२।३।४३।
षष्ठी चानादरे ।२।३।३८।

इति

षष्ठी विभक्तिः – सूत्रभागः

षष्ठी शेषे ।२।३।५०।
षष्ठी हेतुप्रयोगे ।२।३।३६।
सर्वनाम्नस्तृतीया च ।२।३।३७।
निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् (वार्तिक) ।
षष्ठ्यतसर्थप्रत्ययेन ।२।३।३०।
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ।२।३।३४।
अधीगर्थदयेशां कर्मणि ।२।३।५२।
कर्तृकर्मणो कृति ।२।३।६५।
यतश्च निर्धारणम् ।२।३।४१।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।२।३।७३।
षष्ठी चानादरे ।२।३।३८।
तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ।२।३।७२।
क्तस्य च वर्तमाने ।२।३।६७।
कृत्यानां कर्तरि वा ।२।३।७१।
कृत्वोSर्थप्रयोगे कालेSधिकरणे ।२।३।६४।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।२।३।५६।
व्यवहृपणोः समर्थयोः ।२।३।५७।
दिवस्तदर्थस्य ।२।३।५८।

इति

पंचमी विभक्तिः – सूत्रभागः

ध्रुवमपायेSपादानम् ।१।४।२४।
अपादाने पंचमी ।२।३।२८।
भीत्रार्थानां भयहेतुः ।१।४।२५।
(जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् – वार्तिक)

विश्वस्य सर्वाधिकतीव्रसंगणकाः ।

विश्वस्य सर्वाधिकगतिशीलानां दशसंगणकानां विवरणं निम्नोक्तमस्ति ।

१- तियानहे-2 - चीन (नेशनल यूनिवर्सिटी ऑफ़ डिफेंस टेक्नोलॉजी द्वारा विकसितं, चीन देशस्य दक्षिण–पूर्वी प्रान्त–गुआनडाङ्ग इत्यत्र स्थापितम्) ।

२- टाइटन - अमेरीका (अमेरिकी उर्जा विभाग - टेनिसी राज्यस्य ओक रिज़ राष्ट्रिय प्रयोगशालायां स्थापितम् अस्ति ) ।
३- सिकोया - अमेरिका ।
४- के - जापान ।
५- मीर - अमेरिका ।
६- पिज डेंट - स्विटज़र लैंड ।
७- स्टैंपीड - अमेरिका ।
८- जुक्वीन - जर्मनी ।
९- वल्कैन - अमेरिका ।
१०- सुपरमक - जर्मनी ।

अस् (होना) – परस्मैपदी

लट् लकार:
एकवचनम् द्विवचनम्बहुवचनम्प्रथमपुरुष:अस्तिस्तःसन्तिमध्‍यमपुरुष:असिस्थःस्थउत्‍तमपुरुष:अस्मिस्वःस्मः

अद् (खाना) – परस्मैपदी

लट् लकार:
एकवचनम् द्विवचनम्बहुवचनम्प्रथमपुरुष:अत्तिअत्तःअदन्तिमध्‍यमपुरुष:अत्सिअत्थःअत्थउत्‍तमपुरुष:अदि्मअद्वःअद्मः

चतुर्थी विभक्तिः – सूत्रभागः

कर्मणा यमभिप्रैति स सम्प्रदानम् ।१।४।३२।
चतुर्थी सम्प्रदाने ।२।३।३१।
(क्रियया यमभिप्रैति सोSपि सम्प्रदानम् – वार्तिक)
(अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया – वार्तिक)
(तादर्थ्ये चतुर्थी वाच्या – वार्तिक)
(उत्पातेन ज्ञापिते च – वार्तिक)
(हितयोगे च – वार्तिक)
गत्यर्थकर्मणि दि्वतीया चतुर्थ्यौ चेष्टायाध्वनि ।२।३।१२।
रुच्यार्थानां प्रीयमाणः ।१।४।३३।
धारेरुत्तमर्णः ।१।४।३५।
स्पृहेरीप्सितः ।१।४।३६।
मन्यकर्मण्यनादरे विभाषाSप्राणिषु ।२।३।१७।
राधीक्ष्योर्यस्य विप्रश्नः ।१।४।३९।
क्रुधद्रुहेर्ष्यानां यं प्रति कोपः ।१।४।३९।
क्रुधद्रुहोरुपसृष्टयोः ।१।४।३८।
प्रत्याड्。भ्यां श्रुवः पूर्वस्य कर्ता ।१।४।४०।
परिक्रयणे सम्प्रदानमन्यतरस्याम् ।१।४।४४।
तुमर्थाच्च भाववचनात् ।२।३।१५।
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।
नमः स्वस्तिस्वाहास्वधाSलंवषड्योगाच्च ।२।३।१६।
उपपदविभक्तेः कारकविभक्तिर्वलीयसी ।

इति

तृतीया विभक्तिः – सूत्रभागः

साधकतमं करणम् ।१।४।४२।
कर्तृकरणयोस्तृतीया ।२।३।१८।
इत्थंभूतलक्षणे ।२।३।२१।
येनांगविकारः ।२।३।२०।
हेतौ ।२।३।२३।
दिवः कर्म च ।१।४।४३।
पृथग्विनानानाभिस्तृतीयाSन्यतरस्याम् ।२।३।३२।
(प्रकृत्यादिभ्य उपसंख्यानम् – वार्तिक)
सहयेक्तेSप्रधानम् ।२।३।१९।
अपवर्गे तृतीया ।२।३।६।
कालाध्वनोरत्यन्तसंयोगे ।२।३।५।
तुल्यार्थैरतुलोपमाभ्यां तृतीयाSन्यतरस्याम् ।२।३।७२।
(यजेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्म संज्ञा – वार्तिक)

        इति

द्वितीया विभक्तिः – सूत्रभागः

कर्मणि द्वितीया ।२।३।२।
तथायुक्तं चानीप्सितम् ।१।४।५०।
अभिनिविशश्च ।१।४।४७।
उपान्वध्याड्。वसः ।१।४।४८।
(अभुक्त्यर्थस्य न वा)
दूरान्तिर्थोभ्यो द्वितीया च ।२।३।३५।
अनुर्लक्षणे ।१।४।८४।
तृतीयार्थे ।१।४।८५।
हीने ।१।४।८६।
उपोSधिके च ।१।४।८७।
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ।१।४।९०।
अभिरभागे ।१।४।९१।

उपपद विभक्तिः
अन्तरान्तरेण युक्ते ।२।३।४।
गत्यर्थकर्मणि द्वद्तिीयचतुथर्यो चेष्टायामध्वनि ।२।३।१२।
अधिशीड्。स्थासां कर्म ।१।४।४६।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु
दि्वतीया मेड्रितान्तेषु ततोSन्यत्रापि दृश्यते ।।
कालाध्वनोरत्यन्तसंयोगे ।२।३।५।
एनपा दि्वतीया ।२।३।३१।
दुह्याच् पच् दण्ड् रुधि प्रच्छि चि ब्रू शासु जिन्मथमुषाम्
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ।।
        इति

प्रथमा विभक्तिः – सूत्रभागः

प्रातिपदिकार्थलिंगपरिमाणवचनमात्रे प्रथमा ।२।३।४६।सम्बोधने च                            इति ।

विभक्तिप्रकरणम्

विभक्तिप्रकरणस्य किंचित् तु पूर्वं प्रकाशितमासीत् अस्माभिः किन्तु प्रसंगपरिवर्तनत्वात् मध्ये एव त्यक्तं तत् ।  सम्प्रति विभक्तिप्रकरणस्य सूत्रभागः प्रकाश्यते ।  अग्रे सूत्राणां व्याख्या उदाहरणानि चापि प्रकाशयिष्यन्ते ।

कारकाणि षट् इति अधोक्तानि सन्ति । –
कर्ताकर्म च करणं च सम्प्रदानं तथैव च 
अपादानाधिकरणम् इत्याहुः कारकाणि षट् ।।

तदाधृत्य सप्तविभक्तयः अपि सन्ति अधोक्तानि –
प्रथमा‚ दि्वतीया‚ तृतीया‚ चतुर्थी‚ पंचमी‚ षष्ठी‚ सप्तमी
सम्बोधनस्य तु प्रथमायामेव समावेषः ।।

एतेषां वर्णनं अग्रे कृयते ।

इति

अदादिगणः – आत्मनेपदी

लट् लकार:
एकवचनम् द्विवचनम्बहुवचनम्प्रथमपुरुष:तेआतेअतेमध्‍यमपुरुष:से आथेध्वेउत्‍तमपुरुष:एवहेमहे