संदेश

February, 2014 की पोस्ट दिखाई जा रही हैं

आचार्य पाणिनि:

चित्र
पाणिनि: - पितृपरम्‍परया प्राप्‍त: ।
(पणिन् + इञ् + पणिन)

माता - दाक्षी
सर्वे सर्वपदादेशा दाक्षीपुत्रस्‍य पाणिने:
एकदेशविकारे हि नित्‍यत्‍वं नोपजायते ।। (आचार्यपतंजलि:)

जन्‍मस्‍थानम् - शलातुरग्राम:
शलातुरो नाम ग्राम: सोSभिजनोSस्‍यास्‍तीति शलातुरीय: तत्र भवान् पाणिनि: - (गणरत्‍नमहोदधि:) ।

समय: - 
केचन् 2800 ई.पू;
केचन् तु 500 ई.पू. मन्‍यन्‍ते ।

शिक्षा - तक्षशिलाविश्‍वविद्यालय:
गुरु: - वर्ष (कथासरित्‍सागर)

मृत्‍यु: - त्रयोद‍शीतिथौ सिंहभक्षणात्
सिंहो व्‍याकरणस्‍य कर्तुरहरत् प्राणान् प्रियान् पाणिने: (पंचतन्‍त्रम्/मित्रसम्प्राप्ति:)


ग्रन्‍थरचना: - अष्‍टाध्‍यायी जाम्‍बवन्‍तीविजय पाणिनीयशिक्षा धातुपाठ: गणपाठ: उणादिसूत्रमलिंगानुशासनम् 

इति

अष्‍टशाब्दिका: ।।

चित्र
इन्‍द्रश्‍चन्‍द्र: काशकृत्‍स्‍नाSपिशला शाकटायन:   पाणिन्‍यमरजैनेन्‍द्रा: जयन्‍त्‍यष्‍टादिशाब्दिका: ।।
इन्‍द्र:चन्‍द्र: काशकृत्‍स्‍न: आपिशलि: शाकटायन: पाणिनि: अमर: जैनेन्‍द्र:
इति

व्‍याकरणपरम्‍परा ।।

चित्र
ब्रह्मा बृहस्‍पतये प्राेवाच, बृहस्‍पतिरिन्‍द्राय, इन्‍द्रो भारद्वाजाय, भारद्वाज: ऋषिभ्‍य:, ऋषयो ब्राह्मणेभ्‍य: । (ऋक्‍तन्‍त्र 1.4)
ब्रह्मा > बृहस्‍पति > इन्‍द्र > भारद्वाज > ऋषिगण > ब्राह्मणवर्ग 
बृहस्‍पतिरिन्‍द्राय दिव्‍यं वर्षसहस्रं प्रतिपदोक्‍तानां शब्‍दानां शब्‍दपारायणं प्राेवाच । (महाभाष्‍य 1/1/1/)
ब्रह्मा सहस्र दिव्‍यवर्षपर्यन्‍तं इन्‍द्राय प्रत्‍येकानां पदोक्‍तशब्‍दानां शब्‍दपारायणं कारितवान् ।
इति

दशवैयाकरणा: ।।

चित्र
पाणिनिपूर्ववर्ती दशवैयाकरणा: येषां नामानि पाणिन्‍या अष्‍टाध्‍याय्यां गृहीतमस्ति ते क्रमश: सन्ति । -

आपिशलि काश्‍यप: गार्ग्‍य: गालव: चाक्रवर्मण: भारद्वाज:  सेनक:  शाकल्‍य:  शाकटायन:  स्‍फोटायन:
इति

व्याकरणमाहात्म्यम् ।।

चित्र
यो वेद वेदवदनं सदनं हि सम्यग्  ब्रह्मायाः स वेदमपि वेद किमन्यशास्त्रम् । यस्मादतः प्रथमेतदधीत्य विद्वान्  शास्त्रान्तरस्य भवति श्रवणेSधिकारी ।।  भास्कराचार्यः 
इति

राजहंस ।

चित्र
राजहंसास्तु ते चंचुचरणैर्लोहितैः सिताः – अमरकोश
इति

शुद्धोच्चारण माहात्म्यम् ।।

चित्र
मन्त्रोहीनः स्वरतोवर्णतो वा मिथ्यप्रयुक्तो न तमर्थमाह  स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ।। महाभाष्य
इन्द्रं हन्तुं शिल्पी त्वष्टा यज्ञायोजनं कृतवान् । ‘‘इन्द्रशत्रुः विनश्यति (क्वचित् इन्द्रशत्रुः वर्धस्व प्राप्यते) पदे अन्तोदात्तस्थाने आद्युदात्त अभवत् सन् मन्त्रप्रभावः प्रतिकूलः अभवत् ।।
इति

सप्त कुलपर्वताः ।।

चित्र
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।। महेन्द्रमलयसह्यशुक्तिमानृक्षविन्ध्यपारियात्र
इति

दिग्गजाः ।

चित्र
ऐरावतः पुण्डरीको वामनः कुमुदोSञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। अमरकोशः
ऐरावतपुण्डरीकवामनकुमुदअञ्जनपुष्पदन्तसार्वभौमसुप्रतीक
इति

षड्गुणाः ।

चित्र
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्च षण्णां भग इतीरणा ।।

ऐश्वर्यधर्मयशश्रीज्ञानवैराग्य
इति

चक्रवर्तिसम्राटलक्षणम् ।

चित्र
अतिरिक्‍त: करो यस्‍य ग्रथितांगुलिको मृदु: । चापांकुशांकित: सोSपि चक्रवर्ती भवेद्ध्रुवम् ।। सामुद्रिकशास्त्रम्
चक्रासिपरशुतोमरशक्तिधनुः कुन्तसन्निभाः रेखाः ।। वृहत्संहिता
इति

तथापि पठ् व्याकरणम् ।।

चित्र
यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनः मा भूत् सकलः शकलः सकृत्छकृत् ।।
स्वजन – सम्बन्धी
श्वजन – कुत्ता

सकल – सम्पूर्ण
शकल – खण्ड

सकृत् – एक बार
शकृत् – विष्ठा

इति

उत त्वः पश्यन् ।

चित्र
उत त्वः पश्यन्नददर्शवाचमुतत्वः श्रृण्वन्नश्रृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासा ।। ऋग्वेद 
वाग्देवी यं नेच्छति सः तां पश्यन्नपि न पश्यति‚ श्रृण्वन्नपि न श्रृणोति च किन्तु यस्योपरि तस्याः कृपा भवति तस्य पुरतः सा स्वरूपं तद्वदेव प्रकटयति यथा अलंकारैरपि सज्जिता पत्नी पत्युः सम्मुखं स्वरूपमुद्घाटयति ।

महोदेवो मर्त्याम् आविवेश ।।

चित्र
चत्वारि श्रृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवा मर्त्याम् आविवेश ।।
चत्वारि श्रृंगा – नाम‚ आख्यात‚ उपसर्ग‚ निपात
त्रयः पादाः – भूतकाल‚ वर्तमानकाल‚ भविष्यकाल
द्वे शीर्षे – सुप् (सु‚ औ‚ जस् आदि)‚ तिड्。(तिप्‚ तस्‚ झि आदि)
सप्तहस्ताः – प्रथमा‚ दि्वतीया‚ तृतीया‚ चतुर्थी‚ पंचमी‚ षष्ठी‚ सप्तमी
त्रिधा बद्धः – उरस्‚ कण्ठः‚ शिरस्

इति

मुखं व्याकरणम् ।

चित्र
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुदि्दष्टं छन्दसां विचितः पदे ।। शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ।


वेदाड्。गाध्ययनमाहात्म्यम् ।

चित्र
छन्दः पादौ तु वेदस्य हस्तो कल्पोSथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्सांगमधीयानो ब्रह्मलोके महीयते ।।

शब्दानुशासनम्

चित्र
वि + आड्。+ कृ + ल्युट् = व्याकरणम्
व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणम्
व्याकरणं नाम शब्दानुशासनम् व्याकरणं वेदपुरुषस्य मुखम् ब्राह्मणेन निष्कारणो धर्मः षडंगो वेदाSध्येयो ज्ञेयश्च । महाभाष्य

दशावतारः ।।

चित्र
मत्स्यः कूर्मो वराहश्च नारसिंहोSथ वामनः । रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोSस्तु ते ।। १– मत्स्यावतार
२– कूर्मावतार
३– वराहावतार
४– नरसिंहावतार
५– वामनावतार
६– रामावतार
७– परशुरामावतार
८– कृष्णावतार
९– बुद्धावतार
१०– कल्कि अवतार

इति

षोडश संस्काराः ।।

१– गर्भाधानम्
२– पुंसवनम्
३– सीमन्तः
४– जातकर्म
५– नामकरणम्
६– कर्णवेधः
७– निष्क्रमणम्
८– अन्नप्राशनम्
९– चूड़ाकर्म
१०– विद्यारम्भः
११– उपनयनम्
१२– वेदारम्भः
१३– केशान्तः
१४– समावर्तनम्
१५– विवाहः
१६– अन्त्येष्टिः

इति

त्रयः आगमाः ।।

आगमेषु त्रयः प्रकारः निम्नोक्तः –

१– शैवागमाः
२– वैष्णवागमाः
३– शाक्तागमाः

इति

चत्वारः आश्रमाः ।।

१– ब्रह्मचर्यम् (ब्रह्मचर्याश्रमः)
२– गार्हस्थ्यम् (गृहस्थाश्रमः)
३– वानप्रस्थः (वानप्रस्थाश्रमः)
४– सन्यासः  (सन्यासाश्रमः) 
                चेति चत्वारः आश्रमः आश्रमव्यवस्थायाम् ।

पुरुषार्थचतुष्टय ।।

१– धर्म
२– अर्थ
३– काम
४– मोक्ष च

एते पुरुषार्थचतुष्टय इति उच्यन्ते ।।

पंचोपचारः (पंच उपचारः) ।।

पूजायां पंचोपचारः सुपरिचितशब्दः । पंचोपचार इत्यस्मिन् निम्नवस्तूनि परिगण्यन्ते ।

१– गन्धः
२– पुष्पम्
३– धूपः
४– दीपः
५– नैवेद्यः च

इति

सप्त चिरजीविनः ।।

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः  कृपः परशुरामश्च सप्तैते चिरजीविनः ।। १– अश्वत्थामा २– बलि ३– व्यास ४– हनुमान ५– विभीषण ६– कृपाचार्य ७– परशुराम                     एते सप्त चिरजीविनः सन्ति ।। इति

सप्तर्षिः (सप्त ऋषिः) ।।

कश्यपोSत्रिः भरद्वाजः विश्वामित्रोSथ गौतमः ।
जमदग्निः वशिष्ठश्च सप्तैते ऋषयः स्मृतः ।।

१– कश्यपः
२– अत्रिः
३– भरद्वाजः
४– विश्वामित्रः
५– गौतमः
६– जमदग्निः
७– वशिष्ठः च

इति

पंचायतनपूजायां पूज्यदेवाः

पंचायतनपूजायां ये पंच देवाः पूज्यन्ते ते सन्ति –

१– सूर्यः
२– गणपतिः
३– अम्बिका
४– शिवः
५– विष्णुः

इति

षड् दर्शनानि (नास्तिक) ।।

नास्तिक इत्‍युक्‍ते ये वेदप्रामाण्‍यं नैव अंगीकुर्वन्ति । एतेषां संख्‍या मुख्‍यतया तु त्रयमेव किन्‍तु बौद्धदर्शनस्‍य  अपि चतस्र: शाखा: ।  एवंविधा नास्तिकदर्शनमपि षड् एव निम्‍नोक्‍तम् ।

चार्वाकदर्शनम्जैनदर्शनम् बौद्धदर्शनम् माध्‍यमिकम् वैभाषिकम् सौत्रान्तिकम् योगाचारम्

षड् दर्शनानि (आस्तिक) ।।

आस्तिक ते उच्यन्ते ये वेदप्रामाण्यम् स्वीकुर्वन्ति । तदनुसारं षड् आस्तिकदर्शनानि सन्ति निम्नोक्तानि :–

१– सांख्यदर्शनम् – कपिलः
२– योगदर्शनम् – पतंजलिः
३– न्यायदर्शनम् – गौतमः
४– वैशेषिकदर्शनम् – कणादः
५– पूर्वमीमांसा – जैमिनिः
६– उत्तरमीमांसा (वेदांत) – व्यासः

इति