संदेश

March, 2014 की पोस्ट दिखाई जा रही हैं

व्‍यंजनभेदा: ।।

चित्र
त्रय: भेदा: व्‍यंजनानाम् अधोक्‍ता: सन्ति ।
1- स्‍पर्शा: -  कवर्ग:, चवर्ग:, टवर्ग:, तवर्ग:, पवर्ग: एते स्‍पर्शा: इत्‍युच्‍यन्‍ते ।
2- अन्‍तस्‍था: - य्, र्, ल्, व् अन्‍तस्‍था: सन्ति ।
3- उष्‍मा: - श्, ष्, स्, ह् उष्‍मा: उच्‍यन्‍ते ।

इति

भारतीय नववर्षम् सम्वत् २०७१ ।।

चित्र
विक्रमसम्वत् २०७१ चैत्र शुक्ल प्रतिपदा
भारतीय नववर्षस्य हार्दिकी शुभकामनाः नवरात्रिप्रारम्भस्य हार्दिकी शुभकामनाः चापि

इति

उदात्‍तानुदात्‍तस्‍वरित: ।।

चित्र
स्‍वराणां त्रिविध: विभाग: उदात्‍त:, उनुदात्‍त:, स्‍वरितश्‍चास्ति । एतेषां विवरणं निम्‍नोक्‍तमस्ति ।

उदात्‍त: - उच्‍चैरुदात्‍त: - निर्धारितस्‍य उच्‍चारणस्‍थानस्‍य उन्‍नतभागादुच्‍चारणं उदात्‍त: । यथा - अ (कण्‍ठ) यदि कण्‍ठस्‍य उन्‍नतभागेन उच्‍चार्यते चेत् उदात्‍त: कथ्‍यते ।
अनुदात्‍त: - नीचैरनुदात्‍त: - निर्धारितस्‍य उच्‍चारणस्‍थानस्‍य अधोभागादुच्‍चारणम् अनुदात्‍त इति कथ्‍यते ।

स्‍वरित: - समाहार: स्‍वरित: - अधोधयो: उच्‍चारणस्‍थानयो: समहारादुच्‍चारणं स्‍वरित: इति उच्‍यते ।

इति

अनुनासिकोSननुनासिक: ।।

चित्र
स्‍वराणां उच्‍चारणं द्विविध: क्रियते । अनुनासिकं वा अननुनासिकम् वा ।

अनुनासिक: - मुखनासिकावचनोSनुनासिक: - मुखसहितं नासिकया उच्‍चरितवर्णा: अनुनासिका: । यथा - ञ्, म्, ड्., ण्, न् (कँ, चँ, टँ, अँ इत्‍यादय: अपि ) ।।

अननुनासिक: - ये अनुनासिक: न ते अननुनासिका: निरनुनासिका: वा । यथा - क, ख, ग, च, छ, अ, इ, आदय:  

इति

मात्रा: ।।

चित्र
स्‍वरोच्‍चारणे य: समय: स्‍वीकृयते स: मात्रा इति उच्‍यते । तदनुसारं स्‍वरा: त्रेधा ।
1 - एकमात्रिक: - हृस्‍व:
2 - द्विमात्रिक: - दीर्घ:
3 - त्रिमात्रिक: - प्‍लुत:

हृस्‍व: - येषाम् स्‍वराणाम् उच्‍चारणे एकमात्रिक: समय: स्‍वीकृयते ते हृस्‍वा: । यथा - अ, इ, उ आदि
दीर्घ: - येषाम् उच्‍चारणे तु द्विमात्रिक: समय: विधीयते ते दीर्घा: । यथा - आ, ई, ऊ आदि
प्‍लुत: - येषाम् उच्‍चारणे तु त्रिमात्रिक: समय: गृह्यते ते प्‍लुता: । यथा - ऊ३ ‍ आदि
व्‍यंजनम् - व्‍यंजनानाम् तु अर्धमात्रिक: समय: भवति अतएव एतेषाम् उच्‍चारणाय स्‍वराणां सहाय्यं स्‍वीकृयते  । 

''एकमात्रो भवेद्ध्रस्‍वो द्विमात्रो दीर्घ उच्‍यते ।  त्रिमात्रस्‍तु प्‍लुतो ज्ञेयो, व्‍यंजनं चार्धमात्रकम् ।।''
इति

स्‍वरबोधचक्रम् ।।

चित्र
अ, इ, उ,ऋ,लृ                        अ, इ, उ, ऋ, ए, ओ, ऐ, औ                  अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ1हृस्‍व, उदात्‍त, अननुनासिक दीर्घ, उदात्‍त, अननुनासिकप्‍लुत, उदात्‍त, अननुनासिक2हृस्‍व, उदात्‍त, अनुनासिकदीर्घ, उदात्‍त, अनुनासिकप्‍लुत, उदात्‍त, अनुनासिक3हृस्‍व, अनुदात्‍त, अननुनासिकदीर्घ, अनुदात्‍त, अननुनासिकप्‍लुत, अनुदात्‍त, अननुनासिक4हृस्‍व, अनुदात्‍त, अनुनासिकदीर्घ, अनुदात्‍त, अनुनासिकप्‍लुत, अनुदात्‍त, अनुनासिक5हृस्‍व, स्‍वरित, अननुनासिकदीर्घ, स्‍वरित, अननुनासिकप्‍लुत, स्‍वरित, अननुनासिक6हृस्‍व, स्‍‍वरित, अनुनासिकदीर्घ, स्‍वरित, अनुनासिकप्‍लुत, स्‍वरित, अनुनासिक




इति

वर्णः ।।

चित्र
वर्णाः दि्वधा
स्वरः – योच्चारणे स्वतन्त्राः । अर्थात् येषाम् उच्चारणे कस्यचिदपि सहाय्यं स्वीकरणीयं न भवति ते स्वराः । प्रत्याहारे अस्य नाम ʺअच्ʺ इति अस्ति । अच् प्रत्याहारे सर्वे स्वरवर्णाः समागच्छन्ति । एते संख्यायां ९ सन्ति । – अ‚ इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ एे‚ औ ।
व्यंजनम् – येषामुच्चारणं स्वरसहाय्येन विना कर्तुं शक्यं नास्ति तानि व्यंजनानि कथ्यन्ते । प्रत्याहारनाम् ʺहल्ʺ इति अस्ति । हल् प्रत्याहारे सर्वाणि व्यंजनानि आगच्छन्ति । – ह्‚ य्‚ व्‚ र्‚ ल्‚ ञ्‚ म्‚ ड्。‚ ण्‚ न्‚ झ्‚ भ्‚ घ्‚ ढ्‚ ध्‚ ज्‚ ब्‚ ग्‚ ड्‚ द्‚ ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्‚ ह् ।
इति

तिड्。 प्रत्ययाः ।।

चित्र
परस्मैपदम् एकवचनम्         दि्ववचनम्         बहुवचनम्प्रथमातिप्तस्झिद्वितीयासिप्थस्थतृतीयामिप्वस्मस्

आत्मनेपदम् एकवचनम्         दि्ववचनम्         बहुवचनम्प्रथमातआताम्झद्वितीयाथास्आथाम्ध्वम्तृतीयाइट्
वहिमहिड्。

तिप्रत्ययात् आरम्भः महिड्。 प्रत्यये समाप्तित्वात् एतेषां प्रत्ययानां संज्ञा ʺतिड्。ʺ इति अस्ति । एतैः धातुरूपाणां निर्माणं भवति । तिड्。प्रत्ययाः धातूनां अन्तौ योजयित्वा धातुरूपाणि निर्मीयन्ते अतएव धातुरूपाणाम् अपरनाम तिड्。न्तमपि अस्ति ।

तिड्。न्त =तिड्。 + अन्त = यस्यान्ते तिड्。प्रत्ययाः सन्ति ।

इति

सुप् प्रत्ययाः ।

चित्र
एकवचनम्         दि्ववचनम्         बहुवचनम्प्रथमासुऔजश्द्वितीयाअम्औट शस्तृतीयाटाभ्याम् भिस्चतुर्थीडे्。भ्याम् भ्यस्पंचमीड्。सिभ्याम् भ्यस्षष्ठीड्。सओस आम्सप्तमीडि。ओस सुप्
सुप्रत्ययात् आरम्भः सुप् प्रत्यये समाप्तित्वात् एतेषां प्रत्ययानां संज्ञा ʺसुप्ʺ इति अस्ति । एतैः शब्दरूपाणां निर्माणं भवति । सुप् प्रत्ययाः शब्दानाम् अन्तौ योजयित्वा शब्दरूपाणि निर्मीयन्ते अतएव शब्दरूपाणाम् अपरनाम सुबन्तमपि अस्ति ।

सुबन्त =सुप् + अन्त = यस्यान्ते सुप् प्रत्ययाः सन्ति ।

इति

प्रत्‍याहार संख्या ।।

चित्र
आहत्‍य ४३ प्रत्‍याहाराः निर्मीयन्‍ते माहेश्वरसूत्रैः ।

अक् – अ‚इ‚उ‚ऋ‚लृअच् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औअट् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ‚ह्‚य्‚व्‚र्अण् – अ‚इ‚उअण् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ‚ह्‚य्‚व्‚र्‚ ल्अम् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ‚ह्‚य्‚व्‚र्‚ ल्‚ ञ्‚ म्‚ड्。‚ण्‚न्अल् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ‚ह्‚य्‚व्‚र्‚ ल्‚ ञ्‚ म्‚ड्。‚ण्‚न्‚ झ्‚ भ्‚ घ्‚ ढ्‚ ध्‚ ज्‚ ब्‚ ग्‚ ड्‚ द्‚ ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्‚ ह्अश् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ‚ह्‚य्‚व्‚र्‚ ल्‚ ञ्‚ म्‚ड्。‚ण्‚न्‚ झ्‚ भ्‚ घ्‚ ढ्‚ ध्‚ ज्‚ ब्‚ ग्‚ ड्‚ द्इक् – इ‚उ‚ऋ‚लृइच् – इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ ऐ‚ औइण् – इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ ऐ‚ औ‚ ह्‚ य्‚ व्‚ र्‚ ल्उक् – उ‚ऋ‚लृएड्。– ए‚ ओएच् – ए‚ ओ‚ ऐ‚ औऐच् – ऐ‚ औखय् – ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्खर् – ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्ड。म् – ड्。‚ण्‚न्चय् – च्‚ ट्‚ त्‚ क्‚ प्चर् – च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्छव् – छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्जश् – ज्‚ ब्‚ ग्‚ ड्‚ द्‚झय् – झ्‚ भ्झर् – झ्‚ भ्‚ घ्‚ ढ्‚ ध्‚ ज्‚ ब्‚ ग्‚ ड्‚ द्‚ ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्झल् – झ्‚ भ्‚ घ्‚ …

प्रत्‍याहार: ।।

चित्र
प्रत्‍याहार:
(प्रति+आ+हृ+घञ्)
ʺप्रत्याहृयन्ते संक्षिप्यन्ते वर्णाः यत्र सः प्रत्याहारःʺ
सूत्रम् – आदिरन्त्येन सहेता ।

निर्माणनियमाः –
प्रत्याहारनिर्माणं माहेश्वरसूत्राणि स्वीकृत्य एव भवन्ति । महोश्वरसूत्राणां इत्संज्ञकवर्णाः प्रत्येकस्य प्रत्याहारस्य अंतिमः वर्णा भवन्ति । प्रत्याहारस्य प्रारम्भिकवर्णः इत्संज्ञकः न भवेत् । प्रारम्भिकवर्णतः अंतिम इत्संज्ञकवर्ण पर्यन्तं सर्वे वर्णाः तस्मिन् प्रत्याहारे परिगण्यते । इत्संज्ञकस्य वर्णस्य गणना न भवेत्‚ तस्य लोपत्वात् । इत्संज्ञकवर्णः सदैव प्रत्याहारे सर्वथा सर्वतोन्तः वर्णः एव भवेत् ।  यथा – अण् प्रत्याहारनिर्माणे ण् कारः माहेश्वरसूत्रस्य प्रथमसूत्रस्य अइउण् इत्यस्य अंतिमः इत्संज्ञकवर्णः अस्ति । अकारः सर्वतो प्रथमः वर्णः‚ एवं विधा अण् प्रत्याहारे अ‚इ‚उ वर्णाः गण्यन्ते । ण् इत्संज्ञत्वात् नैव परिगण्यते ।

इति

संज्ञा प्रकरणे उल्लिखिताः संज्ञाः ।।

चित्र
इत् संज्ञा – हलन्त्यम् आदिलोप संज्ञा – तस्य लोपः प्रत्याहारसंज्ञा – आदिरन्त्येन सहेता हृस्व–दीर्घ–प्लुतसंज्ञा – एकमात्रो हृस्वः‚ दि्वमात्रो दीर्घः‚ त्रिमात्रिकः प्लुतः चउदात्तानुदात्तस्वरितसंज्ञा – उच्चैरुदात्तः‚ नीचैरनुदात्तः‚ समाहारः स्वरितःअनुनासिकसंज्ञा – मुखनासिकावचनोSनुनासिकः ।सवर्णसंज्ञा – संहितासंज्ञा – परः सन्निकर्षः संहिता संयोगसंज्ञा – हलोनन्तराः संयाेगःपदसंज्ञा – सुप्तिड्。न्तं पदम्
इति

वृक्षानां नामानि ।।

चित्र
आक – अर्कः आँवला – आमलकःआड़ू – आर्द्रालुःअंजीर – अंजीरः अखरोट – अक्षोटःअंगूर – द्राक्षा‚ मृद्वीका आबनूस – तमालवृद्वाः अमरूद – बीजपूरःअशोक – अशोकः आम – सहकारः‚ रसालः‚ आम्रम् इमली – तिन्तिडीकम् इलाइची – एला कल्पवृक्ष – कल्पवृक्षः कटहल – पनसः कदम्ब – नीपः करौंदा – करमर्दकः केला – कदली खजूर – खर्जूरम् गूलर – उदुम्बरम्  चीकू – चीड़ – भद्रदारुः चन्दन – चन्दनम्चाय – चायम् जामुन – जम्बू ढाक – पलाशः ताड़ – तालवृक्षः तुलसी – तुलसिका देवदारु – देवदारुः‚ देववृक्षःधतूरा – धत्तूरः नींबू – जम्बीरम् नारियल – नारिकेलः नाशपाती – अमृतफलवृक्षःनींम – निम्बवृक्षः पारिजात – पारिजातः पाकड़ – प्लक्षः पान – ताम्बूलम् पपीता – मधुकर्कटीवृक्षम्पीपल – अश्वत्थः पाकड़ – बरगद – वटवृक्षः महुआ – मधूकः मुसम्मी – मातुलुंगः मेंहदी – मेन्धिकालीची – लीचिका लिसोड़ा – श्लोष्मातकः रेंड़ – एरण्डः शीशम – शिंशपा शरीफा – सीताफलवृक्षः सफेदा –साल – सालः संतरा – नारंगम्सेव – सेवम् सर्ज – सर्जः सेमर – शाल्मलिः सागौन –साखू –  हरसिंगार – शेफालिका
इति

सिद्धान्तः ।।

चित्र
सिद्धान्तः – सिद्धः अन्तः यस्य सः सिद्धान्तः  यः अन्ततः सिद्ध्यते एव उत यस्य अन्तः सिद्धः स सिद्धान्तः इति उच्यते ।
इति

होलिकोत्‍सवस्‍य मधुरगीतानि ।

चित्र
होलिकोत्‍सवस्‍यावसरे अस्मिन् वर्षे विगतवर्षवदैव फागगानायोजनानि जातानि । तेषु भागगीतेषु अत्र द्वौ प्रस्‍तूयेते । वांछन्ति चेत् श्रृण्‍वन्‍तु ।


इति

१४ माहेश्‍वरसूत्राणि ।।

चित्र
अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल्
इति

प्रमुखः वैयाकरणाः (ग्रन्थाः च) ।।

चित्र
इन्द्रः – एन्द्रव्याकरणम् (अनुपलब्धम्)पाणिनिः – अष्टाध्यायी‚ पाणिनीय शिक्षा‚ जाम्बवन्तीविजय कात्यायनः – वार्तिकपाठः‚ स्वर्गारोहणपतंजलिः – महाभाष्यम्‚ योगसूत्रम्‚ चरकसंहिता जयादित्य–वामनौ – काशिका जिनेन्द्रबुद्धिः – न्यास (काशिकाविवरणपंजिका) हरदत्तमिश्रः – पदमंजरी भर्तृहरिः – वाक्यपदीयम्‚ नीति‚ श्रृंगार‚ वैराग्य च शतकानि‚ स्वोपज्ञटीका‚ महाभाष्यदीपिका कैय्यटः – प्रदीपः (महाभाष्ये टीका) धर्मकीर्तिः – रूपावतारः विमलसरस्वती – रूपमाला रामचन्द्रः – प्रक्रियाकौमुदी भट्टोजिदीक्षितः – सिद्धान्तकौमुदी‚ पौढमनोरमाटीका‚ शब्दकौस्तुभटीका‚ वेदभाष्यसारः शर्ववर्मा – कातन्त्रव्याकरणम् बोपदेवः – मुक्तबोधः अनुभूतिस्वरूपाचार्यः – सारस्वतव्याकरणम् चन्द्रगोमी – चान्द्रव्याकरणम् पण्डितराज जगन्नाथः – मनोरमाकुचमर्दिनीटीका‚ रसगंगाधरःवरदराजाचार्यः – लघुसिद्धान्तकौमुदी‚ गीर्वाणपदमंजरी नागेशभट्टः –महाभाष्यप्रदीपोद्योतः‚ लघुशब्देन्दुशेखरः‚ वृहच्छब्देन्दुशेखरः‚ परिभाषेन्दुशेखरः‚ लघुमंजूषा‚ परमलघुमंजूषा‚ वैयाकरणसिद्धान्तमंजूषा‚ स्फोटवादःपरिव्राजकाचार्यः ज्ञानेन्द्र सरस्वती – तत्वबोधिनी टीका । 
इति

लघुसिद्धान्तकौमुदी ।।

चित्र
लघुसिद्धान्तकौमुदी  (व्याकरणप्रकरणग्रन्थः) 
रचयिता – श्रीमद् आचार्य वरदराजः 
सूत्रसंख्या – आहत्य १२७२ सूत्राणि प्रथमसूत्रम् – हलन्त्यम् अन्तिमसूत्रम् – यूनस्तिः  ग्रन्थाधारः – अष्टाध्यायी

विषयवस्तुः – 
सुबन्तप्रकरणम् – 
संज्ञा सन्धिअजन्तपुलिंगअजन्तस्त्रीलिंग अजन्त नपुंसकलिंग हलन्त पुलिंग हलन्त स्त्रीलिंग अव्ययप्रकरणम् 
तिड्。न्तप्रकरणम् –
भ्वादि‚ अदादि आदि दशगणाः ण्यन्तप्रक्रिया सन्नन्तप्रक्रिया यड्。न्तप्रक्रिया यड्。लुगन्तप्रक्रिया नामधातवः कण्वादयः आत्मनेपद परस्मैपद च प्रक्रिया भावकर्मप्रक्रिया कर्मकर्तृप्रक्रिया लकारप्रक्रिया 
कृदन्तप्रकरणम् – 
कृत्यप्रक्रिया पूर्वकृदन्तम् उणादयः उत्तरकृदन्तम् 
विभक्त्यर्थप्रकरणम् – 
प्रथमा – सप्तमी पर्यन्तं विभक्तयः

समासप्रकरणम् – समासविवेचनम्

तद्धितप्रकरणम् – 
प्रत्ययाः स्वार्थिकाः षोडशप्रकरणेषु  स्त्रीप्रत्ययप्रकरणम् – स्त्रीप्रत्ययविधानम्


इति

नागेश भट्ट: ।।

चित्र
जन्‍मस्‍थानम् - महाराष्‍ट्रे, ब्राह्मणकुले ।
काल: -  १६७३ ई。– १७४३ ई。(युधिष्ठिरमीमांसकः)
पिता – शिवभट्टः ।
माता – सतीदेवी ।
गुरुः – हरिदीक्षितः (भट्टोजिदीक्षितस्य पौत्रः)
वैदुष्यम् – व्याकरणशास्त्रम्‚ धर्मशास्त्रम्‚ साहित्यम्‚ योगः
ग्रन्थाः – 
लघुशब्देन्दुशेखरवैयाकरणसिद्धान्तमंजूषा परिभाषेन्दुशेखर
इति

वरदराजाचार्य: ।।

चित्र
काल: - 17तमा शताब्‍दी पूर्वार्द्ध:
गुरु: - भट्टोजिदीक्षित:
''नत्‍वा वरदराज: श्रीगुरून् भट्टोजिदीक्षितान् ।  करोति पाणिनीयानां मध्‍यसिद्धान्‍तकौमुदीम् ।।''
पिता - दुर्गातनय:
''कृता वरदभदृश्रीदुर्गातनयसूनुना । वेदवेदप्रवेशाय सारसिद्धान्‍तकौमुदीम् ।''
ग्रन्‍था: - 
लघुसिद्धान्‍तकौमुदी (लौकिकव्‍याकरणनियमा:) मध्‍यसिद्धान्‍तकौमुदी (वैदिकव्‍याकरणनियमा:) सारसिद्धान्‍तकौमुदी गीर्वाणपदमंजरी (पदमंजरी)
इति

भट्टोजिदीक्षित ।।

चित्र
जन्म – महाराष्ट्रे, ब्राह्मणकुले
पिता - लक्ष्‍मीधर:
गुरु: - शेषकृष्‍ण:
काल: - १६तमस्‍य शताब्देः उत्तरार्धः – १७ तमस्य शताब्देः पूर्वार्धः इति स्वीकृयते ।

ग्रन्थः –
सिद्धान्तकौमुदी प्रौढमनोरमा टीका (सिद्धान्तकौमुद्याम्) ।शब्दकौस्तुभटीका (अष्टाध्याय्याम् टीका – अंशतः प्राप्यते सम्प्रति)

सिद्धान्तकौमीदीमहत्वः –
ʺकौमुदी यदि नायाति वृथा भाष्ये परिश्रमः ।
कौमुदी यदि चायाति वृथा भाष्ये परिश्रमः ।।ʺ

शब्दकौस्तुभमाहात्म्यम् –
ʺइत्थं लौकिकशब्दानां दिड्。मात्रमिह दर्शितम् ।
विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ।।ʺ

अस्यैव प्रौढमनोरमाटीकायाम् उपरि पण्डितराजजगन्नाथः मनोरमाकुचमर्दिनी नाम्नी आलोचनाटीका अकरोत् ।  पण्डितराजः अस्य गुरुभ्राता आसीत् ।

वंशवृक्षः –
लक्ष्मीधर >
     रंगोजिभट्ट > कौण्डमभट्ट
     भट्टोजिदीक्षित >
            भानुदीक्षित
            वीरेश्वर > हरिदीक्षित

इति

भाष्यम् ।।

चित्र
सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्‍यन्ते भाष्यं भाष्यविदो विदुः ।। 
भाष्यम् शास्त्रीय व्याख्यानग्रन्थाः ।।
इति

भर्तृहरिः ।।

चित्र
भर्तृहरिः 
(भृ + तृच् = भर्तृ + हृ + इन् )

कालः – 
४५० ई。 (युधिष्ठिरमीमांसकः)
जयादित्यवामनयोः समकालः – केचन् मन्यन्ते
६०० ई。– चीनदेशीयः पर्यटकः इत्सिंगः (सः स्वविवरणे अस्य मृत्युः ६५० ई。स्वीकरोति)

ग्रन्थाः – 
वाक्यपदीयम् स्वोपज्ञ टीका (वाक्यपदीये कृता टीका)महाभाष्यदीपिका (महाभाष्ये टीका)नीतिशतकम् श्रृंगारशतकम्वैराग्यशतकम् सिद्धान्ताः –
स्फोटवादः विवर्तवादः
इति

जयादित्य – वामन

चित्र
जयादित्यः

समयः – ६६१ ई。 (अनन्तफड़के महोदयानुसारं)
पिता –
माता – 
ग्रन्थः – काशिका – अष्टाध्यायी ग्रन्थे टीकाग्रन्थः (प्रारम्भिक ५ अध्यायाः)

वामनः
समयः – ६७० ई。 (अनन्तफड़के महोदयानुसारं)
पिता –
माता – 
ग्रन्थः – काशिका – (अंतिम ३ अध्यायाः)

आहत्य काशिकाग्रन्थे ८ अध्यायाः सन्ति । अयं ग्रन्थः अष्टाध्यायीग्रन्थस्य टीकाग्रन्थः । अस्य रचना उभौ मिलित्वा कृतवन्तौ इति मन्यन्ते विद्वान्सः । युधिष्ठिरमीमांसकेन काशिकायाः रचनायाः श्रेयः एतयोः एव प्रदत्तः । तदनुसारं प्रारम्भिक ५ अध्यायाः जयादित्येन अन्तिम ३ अध्यायाः वामनेन च रचिताः ।
काशिकायां प्राचीनग्रन्थकाराणां परिचयः तेषां मतानि च प्रदत्तानि सन्ति ।
काशिकाग्रन्थे रचिताः अन्यग्रन्थाः सन्ति –
काशिकाविवरणपंजिका – जिनेन्द्रबुद्धिः पदमंजरी – हरदत्त मिश्रः 
इति

शाकम् ।।

चित्र
अदरक - आर्द्रकम्आलू – आलुः  अालू बुखारा - आलुकम् अरवी -  करेला - कारबेल्लम्  कांकर - कर्कटीकरौंदा - आमलकीककडी - कर्कटी कोहडा (कद्दू) - कूष्मांड:, तुम्‍बीकटहल - पनसम्कुंदरू – कुंदरुःखीरा/ककडी - कर्कटी, चर्भटि:गवाक्षी - तिल्लिका गांजर - गृञ्जनम्गोभी - गोजिह्वा  गांठ गोभी - कन्‍दशाकम् चिचिंढा - चौराई -चुकन्‍दर - पालङ्गशाकःटमाटर - रक्त वृन्तकम्टमाटर - हिण्डीरः टिंडा - टिंडिशःतोरई - कोशातकी, जालिनी धनिया - धान्याकम् नींबू - निम्बुकम् नींबू - जम्बीरफलंनेनुआ - जालिनीपरवल - पटोलःपुदीना - अजगन्‍ध:पालक - पालक्या, पालकी पत्‍तागोभी - शाकप्रभेदः/हरितम्प्‍याज - पलाण्डुःपेंहटुल -  फूलगोभी - गोजिह्वाबैंगन - बृन्‍ताकम्, भन्टाकी बथुआ -  वास्तुकम्बंडा -  भिण्‍डी - भिण्डिका‚ भिण्डकः, रामकोशातकीभांटा - भण्टाकी मूली - मूलिका, मूलकम् मिर्चा/मिर्ची - मरीचम्मटर - कलायः मेथी -मशरूम - छत्राकम्  लोबिया (बोडा) - वनमुद्गः लौकी - कुम्माण्डःलौकी - अलाबूः लहसुन - लसुनम्लौकी (पेठा) - वृहत्‍फलम् शकरकंद - शकरकन्दःशिमलामिर्च - महामरीचिकाशिमलामिर्च - कटुविरा शलजम् - शिखामूलं, श्वेतकन्दःशतावरी - शतावरीसाग - शाकम्सब्‍जी - …

शकुन्‍त: (पक्षिण:) ।।

चित्र
अबाबील - उल्‍लू - उलूक:‚ कौशिकः  कोयल - कोकिल:, पिक: कौआ - काक:‚ ध्वांग्सः‚ वायसः कबूतर - कपाेत:‚ पारावकःक्रौंच - क्रौंच: कठफोडवा - दार्वाघाटः गिद्ध - गृध्र: गौरैया - चटक:गरुण - गरुण:चील - श्‍येन:चमगादड - जतुका चकोर - चका्ेर:चकवा - चक्रवाक: जलमुर्गी - जलकुक्‍कुटी तीतर - तित्तिर:तोता - शुक:‚ कीरः धनेश -  नीलकंठ - नीलकण्‍ठ:‚ चाषः पतंगा – शलभः पपीहा – चातकःफाख्‍ता - कपोत:बतख - कादम्‍ब: बटेर - वर्तकःबुलबुल - कलापीबाज - गरुण:बगुला - बक: मैना - सारिकामुर्गी - कुक्‍कुटी मुर्गा - कुक्‍कुट: मोर - मयूर:‚ बर्हिनमहोखा -  शुतुरमुर्ग - उष्‍ट्रपक्षीसारस - सारस: हंस - हंस:‚ मरालः


इति

पशव: ।।

चित्र
उंट - उष्‍ट्र‚ क्रमेलकः उद्बिलाव - कछुआ - कच्‍छप: केकडा - कर्कट: ‚ कुलीरःकुत्‍ता - श्‍वान:, कुक्कुर:‚ कौलेयकः‚ सारमेयःकुतिया – सरमा‚ शुनि कंगारू -  कंगारुःकनखजूरा – कर्णजलोका खरगोश - शशक:गाय - गो, धेनु: गैंडा - खड्.गीगीदड (सियार) - श्रृगाल:‚ गोमायुःगिलहरी - चिक्रोड: गिरगिट - कृकलास: गोह – गोधा गधा - गर्दभ:, रासभ:‚ खरः घोडा - अश्‍व:, सैन्‍धवम्‚ सप्तिः‚ रथ्यः‚ वाजिन्‚ हयः चूहा - मूषक: चीता - तरक्षु:, चित्रक:चित्‍तीदार घोडा - चित्ररासभ: छछूंदर - छुछुन्‍दर: छिपकली – गृहगोधिका जिराफ - चित्रोष्‍ट्र:तेंदुआ – तरक्षुः दरियाई घोडा - जलाश्‍व:नेवला - नकुल: नीलगाय - गवय: बैल - वृषभ: ‚ उक्षन्‚ अनडुहबन्‍दर - मर्कट: बाघ - व्‍याघ्र:‚ द्वीपिन्बकरी - अजा बकरा - अज: बनमानुष - वनमनुष्‍य:बिल्‍ली - मार्जार:, बिडाल:भालू - भल्‍लूक: भैस - महिषीभैंसा – महिषः भेंडिया - वृक:भेंड - मेष:मकड़ी – उर्णनाभः‚ तन्तुनाभः‚ लूता मगरमच्‍छ - मकर: ‚ नक्रःमछली – मत्स्यः‚ मीनः‚ झषःमेंढक - दर्दुरः‚ भेकः लोमडी -लोमशःशेर - सिंह:‚ केसरिन्‚ मृगेन्द्रः‚ हरिः सुअर - सूकर:‚ वराहःसेही – शल्यः हाथी - हस्ति, करि, गज: हिरन - मृग:

इति

फलानि ।।

चित्र
आम - आम्रम्‚ रसालः‚ सहकारः अंगूर - द्राक्षाफलम्‚ मृद्वीका अनार - दाडिमम् आडू- आर्द्रालुः अनानास - अनानासम् अंजीर - अंजीरम्अखरोट - अक्षोटम् अमरूद - बीजपूरम्‚ आम्रलम्‚ दृढबीजम्‚ अमृतफलम् आंवला - आमलकम् इमली - तिंतिडीकम्‚ तिंतिडी केला - कदलीफलम् कैंथ - कपित्‍थकदम्‍ब - कदम्‍बम्‚ नीपः करौंदा – करमर्दकः कत्‍था - खदिर: कंदमूल - कंदमूलम्कटहल - पनसम्खजूर -खर्जूरम् खूबानी -  खरबूजा -वृत्‍तकर्कटी गूलर - उदुम्‍बरम् चीकू -  चकोतरा – मधुकर्कटी जामुन -  जम्‍बूफलम्झरबेरी - तरबूज - कलिंगम्नींबू - निम्‍बुकम्, जम्‍बीरम्नारियल – नारिकेलः मौसमी (मुसम्‍मी) - मातुलुंगम् महुआ – मधूकः मकोय – स्वर्णक्षीरीनासपाती - अमृतफलम्नारियल - नारिकेलम्पपीता - मधुकर्कटीफरसा -  बेर - बदरीफलम् बेल - बिल्‍वम् शरीफा - सीताफलम्शहतूत - सन्‍तरा - नारंगम्सेब -  सेवम्लीची - लीचिका

इति

आचार्य पतञ्जलि: ।।

चित्र
त्रिमुनीषु तृतीयस्‍थानप्राप्‍त: आचार्य:

पतञ्जलि: - (पत् + शतृ = पतत् + अञ्जलि:)
पतन्ति अञ्जलयो नमस्‍कार्यतया ।अञ्जले: पतित: । माता - गोणिका (पतञ्जलिकालीन भारत पृ. 50)

विशेषणानि - फणी, फणीभृत्, शेषाहि, नागनाथ, गोणिकापुत्र ।

जन्‍मकाल: -
विवादविषय: एव ।
150 ई.पू. - पाश्‍चात्‍य विद्वान्‍स: तेषामनुयायिन: च ।
अयमेव काल: पुष्‍यमित्रशुंग राज्ञ: अपि स्‍वीकृयते ।

प्रवृत्‍तस्‍याविरामे शासितव्‍या भवन्‍ती (लट: पूर्वाचार्य संज्ञा) ।
................ इह पुष्‍यमित्रं याजयाम: (महाभाष्‍यम् 3/2/126) 

1500 वि.पू. - युधिष्ठिरमीमांसक:, अन्‍ये भारतीयपरम्‍परावाहका: ।

जन्‍मस्‍थानम्- 
विवादविषय: एव अयमपि
कश्‍मीर -''अभिजानासि देवदत्‍त कश्‍मीरान् गमिष्‍याम: तत्र सक्‍तून् पास्‍याम:''आधारेण ।
गोनर्द (पंजाब/हरियाणा) - ''गाव: यत्र नर्दन्ति स:'' (जहाँ अच्‍छी नस्‍ल की गायें पायी जाती हैं) आधारेण ।
गोनर्द (गोण्‍डा) - नामसाम्‍यकारणात् ।
काशीप्रान्‍तम् - डाॅ. बलदेव उपाध्‍याय: ।

अस्‍याधिकसमय: पाटलिपुत्रे (पटना) अतीत: - (महाभाष्‍यम् 3/2/123)

ग्रन्‍था: - महाभाष्‍यम्, योगसूत्रम्, चरकसंहिता ।

प्रशस्ति: - 


कृत…

मुनित्रयम् ।।

चित्र
मुनित्रये त्रयाणां व्‍याकरणाचार्याणां नामानि परिगण्‍यते ।

आचार्य पाणिनि: - अष्‍टाध्‍यायीकार: ।
आचार्य कात्‍यायन: - वार्तिककार: ।
आचार्य पतञ्जलि: -महाभाष्‍यकार: ।

इति

वार्तिकम् ।

चित्र
उक्‍तानुक्‍तदुरुक्‍तानां चिन्‍ता यत्र प्रवर्तते ।  तं ग्रन्‍थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिण: ।।
उक्‍तानां, अनुक्‍तानां, दुरुक्‍तानां वा यस्मिन् ग्रन्‍थे विचार: क्रियते स: ग्रन्‍थ: वार्तिकम् इति उच्‍यते ।

वृत्तेर्व्‍याख्‍यानम् वृत्‍तेरिदं वार्तिकम् । पाणिनीयअष्‍टाध्‍यायी ग्रन्‍थे 1500 सूत्रेषु आचार्यकात्यायनेन वार्तिकं कृतम् । तेन न केवलं आलोचना कृता अपितु समाधानमपि प्रकटितं । क्‍वचित् सूत्रेषु अनुचितालोचनाSपि कृता तेन तथापि वार्तिकपाठ: अष्‍टाध्‍यायीग्रन्‍थस्‍य पूरकग्रन्‍थ: एव अस्ति इति ।
    सम्‍प्रति वार्तिकग्रन्‍थ: स्‍वतन्‍त्ररूपेण न प्राप्‍यते ।

इति

आचार्य कात्‍यायन: ।।

चित्र
मुनित्रये द्वितीयं स्‍थानम् ।

बाल्‍यनाम - वररुचि:
गोत्रनाम् - कात्‍यायन (कत + यञ् + फक्)
जन्‍म - दक्षिणभारते क्‍वचित् (प्रियतद्धिता दाक्षिणात्‍या: - महाभाष्‍यम्)
शुक्‍लयजुर्वेदस्‍य आंगिरसायनशाखाया: प्रवर्तकस्‍य ऋषे: कात्‍यायनस्‍य पुत्र: महर्षि याज्ञवल्‍क्‍यस्‍य पौत्र: वररुचि: - युधिष्ठिरमीमांसक:

कृति: -
वार्तिकपाठ: ।स्‍वर्गाराहण ।
इति

अष्‍टाध्‍यायी ।

चित्र
अष्‍टाध्‍यायीग्रन्‍थ: आचार्यपाणिने: अद्भुतव्‍याकरणग्रन्‍थ: अस्ति । सम्‍प्रति उपलभ्‍यमानेषु व्‍याकरणग्रन्‍थेषु अन्‍यतम: ग्रन्‍थ: एष: । अस्‍य रचना विषये प्रसंग: अपि अद्भुत: एव ।
भगवानपाणिनि: भगवत: शिवस्‍याराधनमकरोत् । प्रसन्‍न: शिव: प्रकटीभूय 14वारं डमरूनादमकरोत् । महात्‍मापाणिनि: डमरूनादं स्‍वीकृत्‍य एव माहेश्‍वरसूत्राणां रचनाकरोत् । तेन आधारेण एव अष्‍टाध्‍याय्या: सूत्राणि विरचितानि तेन ।
नृत्‍तावसाने नटराजराजो निनादढक्‍का नवपंचवारम् ।
उद्धर्तुकामान् सनकादिसिद्धादेतव्दिमर्षे शिवसूत्रजालम् ।। अष्‍टाध्‍यायीग्रन्‍थे अष्‍ट अध्‍याया: सन्ति ।
प्रत्‍येकेषु अध्‍यायेषु चत्‍वार: पादा: सन्ति । एवं आहत्‍य द्वात्रिंशत् पादा: अष्‍टाध्‍यायेषु अभवन् ।
श्‍लोकसंख्‍या आहत्‍य 3978 इति अस्ति ।
केचन् तु सम्‍पूर्णं 4000 सूत्राणि मन्‍यन्‍ते ।


इति