संदेश

April, 2014 की पोस्ट दिखाई जा रही हैं

वाक्‍ये सन्‍धे: आवश्‍यकता ।।

चित्र
सन्धिविषये केषांचनजनानां भ्रम: अस्ति यत् वाक्‍ये सन्‍धे: आवश्‍यकता वैकल्पिकरूपेण भवति - ते उदाहरणरूपेण प्रस्‍तुतकारिकां प्रस्‍तुवन्ति -
सहितैकपदे नित्‍या नित्‍या धातूपसर्गयो: ।  नित्‍या समासे, वाक्‍ये तु सा विवक्षामपेक्षते ।। निश्‍चयेन कारिका‍नुसारेण वाक्‍यान्‍तर्गतपदानां मध्‍ये सन्धि: वैकल्पिकमस्ति । किन्‍तु अस्‍य विकल्‍पत्‍वम् अपि सीमाबद्धमस्ति । संहिताशब्‍दस्‍य भावमस्ति - स्‍वरव्‍यंजनयो: परस्‍परमनन्‍तरागमनम् । किन्‍तु सन्धिनियमानां प्रभाव: तदैव भवति यदा वाक्‍यगतशब्‍देषु संहिता-विरामं वा न भवतु । विरामे एव सन्धि नैव भवति यथा - ''मित्र, एहि, अनुगृहाणेमं जनम् ।'' अत्र मित्र च एहि च द्वयोरपि मध्‍ये विरामम् अपेक्षितमस्ति, किन्‍तु अनुगृहाण इमं च मध्‍ये विरामम् अपेक्षितं नैव । पद्ये तु यदि सन्‍धे: अवसर: भवतु तथापि सन्धि: न क्रियते चेत् विसन्धिदोष: भवति- ''न संहितां विवक्षामीत्‍यसन्‍धानं पदेषु यत्‍तद्विस‍न्‍धीति निर्दिष्‍टम्'' (काव्‍यादर्श) । श्‍लोकस्‍य प्रथम-तृतीयचरणयो: कृते विरामं विद्व‍द्भि: नैव अपेक्षितम्, अत: अत्र सन्धि: अनिवार्यरूपेण भवेत् ।बाणभट्…

सन्धि वर्गीकरणम्

चित्र
सन्धि: त्रेधा भवति ।
अच् सन्धि: (स्‍वरसन्धि:) । हल् सन्धि: (व्‍यंजनसन्धि:) । विसर्गसन्धि:  इति

सन्धि

चित्र
सन्धि: इत्‍यस्‍यार्थ: मेलनम् इति अस्ति । लघुसिद्धान्‍तकौमुद्यां संज्ञाप्रकरणस्‍य अनन्‍तरं सन्धि प्रकरणम् आगच्‍छति । सन्धिं व्‍याकरणे संहिता अपि कथ्‍यते । पर: सन्निकर्ष: संहिता - वर्णानाम् अतिशयसामीप्‍यं संहिता इति कथ्‍यते । अस्मिन् विषये अन्‍यत्रापि कथ्‍यते - 

संहितैकपदे नित्‍या नित्‍या धातूपसर्गयो: । नित्‍या समासे वाक्‍ये तु सा विवक्षामपेक्षते ।।   अर्थात् एकस्य पदस्‍य भिन्‍नावयवेषु, धातुषु, उपसर्गेषु, समासेषु च सन्धि: अवश्‍यमेव करणीया । वाक्‍यस्‍य भिन्‍नपदेषु सन्धि: तु वक्‍ताया: इच्‍छोपरि भवति ।


इति

मुख्‍यवैदिकछन्‍दा:

चित्र
गायत्री - 24
उष्णिक् - 28
अनु‍ष्‍टुप - 32
बृहती - 36
पंक्ति - 40
त्रिष्‍टुप - 44
जगती  - 48

इति

अष्‍ट विकृतय: ।।

चित्र
जटा, माला, शिखा, रेखा, ध्‍वजो, दण्‍डो, रथो, घन: ।  अष्‍टौ विकृतय: प्रोक्‍ता: क्रमपूर्वा मनीषिभि: ।। विकृतवल्‍ली जटा माला शिखा रेखा ध्‍वज: दण्‍ड: रथ: घन:  एते अष्‍टवेदपाठविकृतय: सन्ति क्रमसंहिताया: आधारेण । 
इति

महिमभट्टकृत व्‍यक्तिविवेकस्‍य मंगलाचरणम् ।

चित्र
अनुमाने न्‍तर्भावं सर्वस्‍यैव ध्‍वने: प्रकाशयितुम् ।  व्‍यक्तिविवेकं कुरुते महिमा परां वाचम् ।।
इति

एकादशरुद्रा: ।।

चित्र
एकादशरुद्रा: भगवत: शिवस्‍य एव एकादशरूपाणि इति उच्‍यते । एतेषां नामानि क्रमश: अधोक्‍तानि सन्ति ।

अघोर: पशुपति: शिव: विरूप: विश्‍वरूप: भैरव:  त्रयम्‍बक:  शूलपाणि: कपर्दी ईशान:महेश: 
इति

द्वादश आदित्‍या: ।।

चित्र
अदिते: 12 पुत्रा: एव द्वादशादित्‍या: इति उच्‍यन्‍ते । शास्‍त्रोक्‍तम् एतेषां नामानि अत्र दीयन्‍ते ।

विवस्‍वान्‍नर्यमा पूषा त्‍वष्‍टाSथ सविता भग: ।  धाता विधाता वरुणो मित्रशक्र: उरुक्रम: ।।  विवस्‍वान् अर्यमा पूषा त्‍वष्‍टा सविता भग: धाता विधाता वरुण: मित्र: शक्र: (इन्‍द्र:)उरुक्रम: 
इति

अष्‍टसिद्धय: ।।

चित्र
अष्‍टसिद्धीनां बहुश: प्रयोग: वार्ताश्‍च प्राप्‍यन्‍ते । का: सन्ति ता: सिद्धय: । अधोक्‍ता: ---

अणिमा - शरीरस्‍य अणुरूपत्‍वम् ।
लघिमा - शरीरस्‍य भारहीनत्‍वम् ।
महिमा - शरीरस्‍य अत्‍यन्‍तवृहदत्‍वम् ।
गरिमा - शरीरस्‍य भारवर्धनम् ।
प्राप्ति: - काम्‍यवस्‍तूनां तक्षणप्राप्ति: ।
प्राकाम्‍यम् - ईप्सितं दीर्घकालपर्यन्‍तं स्‍थायित्‍वं भजेत् ।
ईशित्‍वम् - नेतृत्‍वक्षमताप्राप्ति: ।
वशित्‍वम् - इन्द्रियेषु नियन्‍त्रणशक्ति: ।

इति

अष्‍टावसु: ।।

चित्र
अष्‍ट वसव: धनप्रदाता देवा: सन्ति । एतेषां नामानि अधोक्‍तानि सन्ति । धरो ध्रुवश्‍च सोमश्‍च अहश्‍चैवानिलोSनल: । प्रत्‍यूषश्‍च प्रभासश्‍च वसवोSष्‍टाविति स्‍मृत: ।।  धर: ध्रुव: सोम: अह:अनिल: अनल: प्रत्‍यूष: प्रभास:
इति

बाह्ययत्‍नबोधचक्रम् ।

चित्र
विवार, श्‍वास, अघोष संवार, नाद, घोष अल्‍प्राण महाप्राण उदात्‍त, अनुदात्‍त, स्‍वरित ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स् ह्, य्, व्, र्, ल्, ञ्, म्, ड्., ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्क्, ग्, ड्.,
च्, ज्, ञ्,
ट्, ड्, ण्,
त्, द्, न्,
प्, ब्, म्,
य्, र्, ल्, व्ख्, घ्,
छ्, झ्,
ठ्, ढ्,
थ्, ध्,
फ्, भ्,
श्, ष्, स्, ह्
अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ
इति

बाह्ययत्‍नवर्गीकरणम्

चित्र
खरो विवारा: श्‍वासा अघोषाश्‍च ।
हश: संवारा नादा घोषाश्‍च ।।
वर्गाणां प्रथम-तृतीय-पंचमा यणश्‍चाल्‍पप्राणा: ।
वर्गाणां द्वितीय-चतुर्थौ शलश्‍च महाप्राणा: ।

इति

बाह्य प्रयत्‍न: (यत्‍न:)

चित्र
वर्णस्‍य मुखात् बहिरागमनसमये या चेष्‍टा भवति स: तु बाह्यप्रयत्‍न: इति कथ्‍यते ।बाह्यप्रयत्‍न: एकादशधा भवति । बाह्यस्‍तु एकादशधा एते अधोक्‍ता: सन्ति ।
विवार: - विवारस्‍य अर्थ: मुखस्‍य उद्घाटनमिति अस्ति - ''विवारयति विकासयति मुखमिति'' । अर्थात् वर्णोच्‍चारणे मुखोद्घाटनं विवार: इति कथ्‍यते ।संवार: - वर्णानामुच्‍चारणे मुखस्‍य संकोच: (अल्‍प उद्घाटनम्) संवार इति कथ्‍यते ।श्‍वास: - येषामुच्‍चारणे श्‍वास: च‍लति इत्‍युक्‍ते येषामुच्‍चारणे मुखात् अधिकवायु: निर्गच्‍छति तत्र श्‍वासप्रयत्‍न: उच्‍यते ।नाद: - मधुरा ध्‍वनि: नाद इति कथ्‍यते ।घोष: - वर्णोच्‍चारणे गुंजनं घोष इति कथ्‍यते । अघोष: - गुंजनस्‍याभाव: अघोष इति कथ्‍यते ।अल्‍पप्राण: - वर्णोच्‍चारणे प्राणवायो: अल्‍पप्रयोग: अल्‍पप्राण इति कथ्‍यते ।महाप्राण: - वर्णोच्‍चारणे प्राणवायो: अतिप्रयोग: महाप्राण इति कथ्‍यते ।उदात्‍त: - उच्‍चारणावयवानां उच्‍चभागै: उच्‍चारणम् उदात्‍त: ।अनुदात्‍त: - उच्‍चारणावयवानां निम्‍नभागै: उच्‍चारणम् अनुदात्‍त: ।स्‍वरित: - समभागैरुच्‍चारणं स्‍वरित इति कथ्‍यते ।

इति

आभ्‍यन्‍तरप्रयत्‍नबोधकचक्र: ।

चित्र
स्‍पृष्‍टईषत्‍स्‍पृष्‍टईषद्विवृतविवृतसंवृतकवर्ग: = क,ख,ग,घ,ड.
चवर्ग: = च,छ,ज,झ,ञ्
टवर्ग: = ट,ठ,ड,ढ,ण
तवर्ग: = त,थ,द,ध,न
पवर्ग: = प,फ,ब,भ,मय्,
र्,
ल्,
व्श्,
ष्,
स्,
ह्अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औप्रयोग
दशायां हृस्‍व अकार:
'अ'

इति

आभ्यन्तर यत्नम् (प्रयत्नं) ।।

चित्र
आभ्यन्तरप्रयत्नं पंचधा भवति – आद्यः (आभ्यन्तरप्रयत्नं) पंचधा – स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात् ।

स्पृष्टम् – स्पृष्टं प्रयत्नं स्पर्शानां  – स्पर्शवर्णानां (क्‚च्‚ट्‚त्‚प् वर्गाणां) प्रयत्नः स्पृष्टम् ।
ईषत्स्पृष्टम् – ईषत्स्पृष्टमन्तस्थानां  –  अन्तस्थानां (य्‚ व्‚ र्‚ ल्) प्रयत्नः ईषत्स्पृष्टम् ।
ईषद्विवृतम् –ईषद्विवृतमूष्माणां  – उष्माणां (श्‚ ष्‚ स्‚ ह्) प्रयत्नः ईषद्विवृतम् ।
विवृतम् – विवृतंस्वराणाम् –  स्वराणां (अ‚ इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ ऐ‚ औ) प्रयत्नः विवृतम् ।
संवृतम् – हृस्वस्यावर्णस्य प्रयोगे संवृतम्‚ प्रक्रियायां तु विवृतमेव – हृस्व अ वर्णस्य प्रयोगः संवृतम् किन्तु प्रक्रियायां तु विवृतमेव भवति ।

इति

यत्नः (प्रयत्नः) ।।

चित्र
वर्णोच्चारणे कृताः चेष्टाः यत्नः प्रयत्नः* वा इति कथ्यते ।
यत्नः  दि्वधा आभ्यन्तरो‚ बाह्यश्च ।।

आभ्यन्तर प्रयत्नः – वर्णसमुदायस्य मुखात् बहिरागमनात् पूर्वं मुखे एव यः यत्नः क्रियते सः आभ्यन्तरयत्नः प्रयत्नः वा इति उच्यते ।
एते यत्नाः पंचधा – स्पृष्टः‚ ईषत्स्पृष्टः‚ ईषद्विवृतः‚ विवृतः‚ संवृतश्च ।

बाह्य प्रयत्नः –  मुखात् बहिरागमनसमये एव यः यत्नः भवति सः तु बाह्य प्रयत्नः इति उच्यते । एते यत्नाः एकादशधा – विवार‚ संवार‚ श्वास‚ नाद‚ घोष‚ अघोष‚ अल्पप्राण‚ महाप्राण‚ उदात्त‚ अनुदात्त‚ स्वरित च ।

* प्रकृष्टो यत्नः प्रयत्नः ।

इति

वर्णबोधकम् चक्रम् ।।

चित्र
स्पर्शः       अन्तःस्थः     उष्मः     स्वरः       जिह्वामूलीयः  
⁄ उपध्मानीयः    अनुस्वारः
⁄ विसर्गःकवर्गःय्श्अ एक् ख्अंचवर्गःव्ष्इ ओक् ख्अःटवर्गःर्स्उ ऐ

तवर्गःल्ह्ऋ औ

पवर्गः

लृ



इति

उच्चारणस्थानानि तेषामन्तर्गतवर्णाश्च ।।

चित्र
कण्ठः –अकुहविसर्जनीयानां कण्ठः – (अ‚ क्‚ ख्‚ ग्‚ घ्‚ ड्。‚ ह्‚ : = विसर्गः )
तालुः –इचुयशानां तालुः – (इ‚ च्‚ छ्‚ ज्‚ झ्‚ ञ्‚ य्‚ श् )
मूर्धा – ऋटुरषाणां मूर्धा – (ऋ‚ ट्‚ ठ्‚ ड्‚ ढ्‚ ण्‚ र्‚ ष्)
दन्तः – लृतुलसानां दन्तः – (लृ‚ त्‚ थ्‚ द्‚ ध्‚ न्‚ ल्‚ स्)
ओष्ठः –उपूपध्मानीयानां ओष्ठौ – (उ‚ प्‚ फ्‚ ब्‚ भ्‚ म्‚ उपध्मानीय प्‚ फ्)
नासिका च – ञमड。णनानां नासिका च (ञ्‚ म्‚ ड्。‚ण्‚ न्) 
कण्ठतालुः – एदैतोः कण्ठतालुः – (ए‚ एे)
कण्ठोष्ठम् –ओदौतोः कण्ठोष्ठम् – (ओ‚ औ)
दन्तोष्ठम् – वकारस्य दन्तोष्ठम् (व)
जिह्वामूलम् –जिह्वामूलीयस्य जिह्वामूलम् (जिह्वामूलीय क्‚ ख्) 
नासिका –नासिकानुस्वारस्य (ं = अनुस्वारः)

इति

उच्चारणस्थानानि ।।

चित्र
वर्णोच्चारणसमये अन्तस्तात् आगच्छन् वायुः (श्वासः) मुखस्य अवयवेषु स्पर्शं करोति । तेन् विकाराः (नादः) जायन्ते । यैः अवयवैः विकारस्य उत्पत्तिः भवति ते एव नादानां उच्चारणस्थानानि कथ्यन्ते । एतानि उच्चारणस्थानानि निम्नोक्तानि सन्ति ।

कण्ठः तालुः मूर्धा दन्तः ओष्ठः नासिका कण्ठतालुः कण्ठोष्ठम् दन्तोष्ठम् जिह्वामूलम् नासिका 

इति

नव रसा: ।।

चित्र
विविधै: विद्वांशै रसानां संख्‍या अपि विविधा: एव स्‍वीकृता: किन्‍तु प्रायेण नव रसा: तु सर्वैरेव स्‍वीकृयते । ते च नव रसा: सन्ति -
श्रृंगार: वीर: करुण: अद्भुत: हास्‍य: भयानक: बीभत्‍स: रौद्र: शान्‍त:  श्रृंगार-वीर-करुणाद्भुत-हास्‍य-भयानका: ।  बीभत्‍सरौद्रौ शान्‍तश्‍च रसा: नव प्रकीर्तिता: ।।
इति

पंच प्राणा: ।

चित्र
शरीरे पंच प्राणा: सन्ति इति योगशास्‍त्रेषु वर्णितं अस्ति । एते पंच प्राणा: निम्‍नोक्‍ता: ।
प्राण: अपान: व्‍यान: उदान: समान:
इति

पंच भूतानि ।।

चित्र
पंचभूतानां नामानि न्‍याये अति चर्चितानि सन्ति । तानि पंचभूतानि सन्ति -
पृथिवी अप् (जलम्)तेज:  (‍अग्नि:)वायु: आकाश:  एतान‍ि एव पंचमहाभूतानि अपि कथ्‍यन्‍ते ।

 इति

सप्त स्‍वरा: ।।

चित्र
सप्‍तस्‍वराणां प्रयोग: बहुध क्रियते जनै: । के च ते सप्‍त स्‍वरा: -  अधोक्‍ता:
 षड्ज: ऋषभ: गान्‍धार: मध्‍यम: पंचम: धैवत: निषाद: निषादर्षभ-गान्‍धार-षड्ज-मध्‍यम-धैवता: ।  पंचमश्‍चेत्‍यमी सप्‍त तन्‍त्रीकण्‍ठो‍त्थिता: स्‍वरा: ।।
इति

दश दिश: ।।

चित्र
पूर्वा आग्नेयी दक्षिणा नैऋत्‍या पश्चिमा वायव्‍या उत्‍तरा ईशान्या पृथ्‍वी आकाश:  इति

अष्‍टांगयोग: (योगस्‍य अष्‍ट अंगानि) ।।

चित्र
अष्‍टांगयोगे एतानि अष्‍ट अंगानि -
यम: नियम: आसनं प्राणायाम: प्रत्‍याहार: ध्‍यानम् धारणा समाधि: इत्‍येतानि सन्ति अष्‍टांगयोगस्‍य अष्‍ट अंगानि ।

इति

पंच तन्‍मात्राणि ।

चित्र
पंच तन्‍मात्राणां चर्चा न्‍याये बहुधा कृता । कानि तानि तन्‍मात्राणि इति उच्‍यते ।
शब्‍द: स्‍पर्श: रूपम् रस: गन्‍ध: पंचमहाभूतानाम् एते पंच गुणा: एव पंच तन्‍मात्राणि ।

इति

पंचांगम् (पंच अंगानि)।।

चित्र
पंचांगे पंच अंगानि निम्‍नोक्‍तानि सन्ति ।

तिथि: वासर: नक्षत्रं करणं योग:  इत्‍येतेषां सर्वेषां ज्ञानं येन माध्‍यमेन भवति तत् पंचांगमिति कथ्‍यते । 

इति