संदेश

May, 2014 की पोस्ट दिखाई जा रही हैं

वृद्धि सन्धि: - उदाहरणम् ।।

चित्र
वृद्धि सन्‍धौ अ, आ वा अनन्‍तरं यदि ए, ऐ, ओ, औ वा आगच्‍छेयु: चेत् ए, ऐ स्‍थाने ऐ, ओ, औ वा स्‍थाने औ इति भवति ।।

यथा -

अ + ए = ऐ - अद्य + एव = अद्यैव
आ + ए = ऐ - तथा + एव = तथैव
अ + ऐ = ऐ - देव + ऐश्‍वर्यम् = देवैश्‍वर्यम्
आ + ऐ = ऐ - विद्या + ऐश्‍वर्यम् = विद्यैश्‍वर्यम् 
अ + ओ = औ - तण्‍डुल + ओदनम् = तण्‍डुलौदनम्
आ + औ = औ - महा + औषधि: = महौषधि:



इति

वृद्धि सन्धि: ।।

चित्र
वृद्धिरेचि ।6।1।88। 
वृद्धिरादैच् ।1।1।1।

यदि 'अ' उत 'आ' इत्‍ययो: अनन्‍तरम् 'ए', 'ऐ', 'ओ', 'औ' आगच्‍छेत् चेत् 'ए', 'ऐ' स्‍थाने 'ऐ' तथा च 'ओ', 'औ' स्‍थाने 'औ' इति वृद्धि-परिवर्तनं भवतु ।

अवधेयम् - 

अ + ए = ऐ
आ + ए = ऐ

अ + ऐ = ऐ
आ + ऐ = ऐ

अ + ओ = औ
आ + ओ = औ

अ + औ = औ
आ + औ = औ


इति

गुण सन्धिः – अपवादाः ।।

चित्र
सर्वेषु नियमेषु केषांचनापवादाः भवन्ति एव । तस्मिन् एव क्रमे अत्रापि केचन् अपवादाः सन्ति अधोक्ताः ।।

अक्षादूदिन्यामुपसंख्यानम् (वार्तिकम्) –अक्ष + ऊहिनी = अक्षौहिणी  इति भविष्यति । अत्र गुण संधिः न भविष्यति ।

स्‍वादीरेरिणो: (वार्तिकम्) -'स्‍व' शब्‍दस्‍यानन्‍तरं यदा 'ईर' उत 'ईरिन्' शब्‍दौ आगच्‍छत: चेत् गुणं अभूत्वा वृद्धि: भवति ।
यथा -  स्व + ईरः = स्वैरः,
स्व + ईरिणी = स्वैरिणी,
स्व + ईरी = स्वैरी

प्रादूहोढोढ्ये षैष्‍येषु (वार्तिकम्) - यदा 'प्र' इत्‍यस्‍यानन्‍तरं ऊह, ऊढ, ऊढि, एष, एष्‍य आगच्‍छेयु: चेत् गुणम् अभूत्‍वा पुन: वृद्धिरेव भवति । यथा -
प्र + ऊहः = प्रौहः
प्र + ऊढः = प्रौढः

उपसर्गादृति धातौ ।6।1।91। - यदि अकारन्‍त उपसर्गात् अनन्‍तरं सा धातु: आगच्‍छेत् यस्‍यादौ लघु ऋकार: भवतु चेत् द्वयो: स्‍थाने 'आर्' इति भवति । यथा -
उप + ऋच्छति = उपार्च्छति

यदि नामधातु: भवतु चेत् 'आर्' विकल्‍पेन भवति । यथा - 
प्र + ऋषभीयति = प्रार्षभीयति

ऋते च तृतीया समासे (वार्तिकम्) - यदा ऋत् पदेन सह कस्‍यचित् पूर्वगामीशब्‍दस्‍य तृतीया समास: भवतु चेत् अपि पूर्वग…

गुणसन्धिः – उदाहरणम् ।।

चित्र
उप + इन्द्रः = उपेन्द्रः –  अ + इ = ए
सुर + ईशः = सुरेशः – अ + ई = ए
तथा + इति = तथेति – आ + इ = ए
रमा + ईशः = रमेशः – आ + ई = ए 

हित + उपदेशः = हितोपदेशः – अ + उ = ओ
पीन + ऊरुः = पीनोरुः – अ + ऊ  = ओ
गंगा + उदकम् = गंगोदकम् – आ + उ = ओ
महा + ऊर्मिः = महोर्मिः – आ + ऊ  = ओ

देव + ऋषिः = देवर्षिः – अ + ऋ = अर्
महा + ऋषिः = महर्षिः – आ + ऋ = अर्

तव + लृकारः = तवल्कारः – अ + लृ = अल्


इति

गुण सन्धिः ।।

चित्र
अदेड्。गुणः
आद् गुणः ।६।१।८७।

यदि ‘अ‘‚ अथवा ‘आ‘ वर्णस्य अनन्तरम् इ ⁄ ई‚ उ ⁄ उ‚ ऋ‚ लृ वा आगच्छेत् तर्हि उभयोः स्थाने क्रमशः ऐ‚ ओ‚ अर्‚ अल् च भवतु ।

अवधेयम् – 

अ + इ = ए
अ + ई = ए
आ + इ = ए
आ + ई = ए 

अ + उ = ओ
अ + ऊ  = ओ
आ + उ = ओ
आ + ऊ  = ओ

अ + ऋ = अर्
आ + ऋ = अर्

अ + लृ = अल्
आ + लृ = अल्

इति

दीर्घ सन्धि - उदाहरणानि

चित्र
सुर + अरि: = सुरारि: – अ + अ = आ
हिम +  आलय: = हिमालय:  – अ + आ = आ
दया + अर्णव: = दयार्णव: – आ + अ = आ
विद्या + आलय: = विद्यालय:  – आ + आ = आ

क्षिति + ईश: = क्षितीश: – इ + ई = ई
सुधी + इन्‍द्र: = सुधीन्‍द्रः – ई + इ = ई
गि‍रि + इन्‍द्र: = गिरीन्‍द्र:  – इ + इ = ई 
श्री + ईश: = श्रीश: – ई + ई = ई

वधू + उत्‍सव: = वधूत्‍सव:  – ऊ +  उ  = ऊ
लघु + उर्मि: = लघूर्मि:  – उ + उ = ऊ

पितृ + ऋणम् = पितृृृणम् – ऋ + ऋ = ऋृ

इति

दीर्घ सन्धि: ।।

चित्र
अक: सवर्णे दीर्घ: ।6।01।101।

अक् = अ, इ, उ, ऋ, लृ
सवर्णः = पुनः अ, इ, उ, ऋ, लृ सहैव आ, ई, ऊ, दीर्घ ऋ, दीर्घ लृ च

यदा हृस्‍व उत दीर्घ स्‍वरस्‍य अनन्‍तरं हृस्‍व: दीर्घ: वा स्‍वर: आगच्‍छति तर्हि द्वयो: स्‍थाने दीर्घ: स्‍वर: भवति । यथा - रत्‍न + आकर: = रत्‍नाकर:

अत्र रत्‍नपदस्‍य अन्‍त 'अ'कारस्‍य अनन्‍तरं आकरपदस्‍य 'आ'कार: आगत:, उभौ मिलित्‍वा 'आ' इति भूत्‍वा रत्‍नाकरपदं निर्मित: ।

अवधेयम् -

अ + अ = आ
अ + आ = आ
आ + आ = आ
आ + अ = आ

इ + इ = ई
ई + ई = ई
इ + ई = ई
ई + इ = ई

उ + उ = ऊ
उ + ऊ = ऊ
ऊ + ऊ = ऊ
ऊ + उ = ऊ

इति

स्‍वरसन्धि: ।।

चित्र
एकेन स्‍वरेण सह अन्‍यस्‍वरस्‍य मेलनेन यत् परिवर्तनं भवति तदैव स्‍वरसन्धि: इति कथ्‍यते । इत्‍युक्‍ते द्वयो: पदयो: यदा मेलनं तेषां आदिअन्‍तस्‍वरयो: मेलनेन भवति, तेन च किम‍पि परिवर्तनं दृष्‍यते चेत् तत्र स्‍वरसन्धि: भवति । -

स्‍वरसन्‍धे: भेदा: -
स्‍वरसन्धि: मुख्‍यरूपेण तु पंचधा इति स्‍वीकृयते किन्‍तु तदरिक्‍तमपि काश्‍चन् सन्ति निम्‍नोक्‍तानि -
गुणसन्धि: दीर्घसन्धि: वृद्धिसन्धि: यणसन्धि: अयादिसन्धि: पूर्वरूपसन्धि: प्रकृतिभावसन्धि:  आहत्‍य सप्‍त उपस्‍वरसन्‍धय: सन्ति । एतेषां विवरणं अग्रे करिष्‍यते ।

इति