गुण सन्धिः – अपवादाः ।।

   सर्वेषु नियमेषु केषांचनापवादाः भवन्ति एव । तस्मिन् एव क्रमे अत्रापि केचन् अपवादाः सन्ति अधोक्ताः ।।

अक्षादूदिन्यामुपसंख्यानम् (वार्तिकम्) – अक्ष + ऊहिनी = अक्षौहिणी  इति भविष्यति । अत्र गुण संधिः न भविष्यति ।

स्‍वादीरेरिणो: (वार्तिकम्) - 'स्‍व' शब्‍दस्‍यानन्‍तरं यदा 'ईर' उत 'ईरिन्' शब्‍दौ आगच्‍छत: चेत् गुणं अभूत्वा वृद्धि: भवति ।
यथा -  स्व + ईरः = स्वैरः,
स्व + ईरिणी = स्वैरिणी,
स्व + ईरी = स्वैरी

प्रादूहोढोढ्ये षैष्‍येषु (वार्तिकम्) - यदा 'प्र' इत्‍यस्‍यानन्‍तरं ऊह, ऊढ, ऊढि, एष, एष्‍य आगच्‍छेयु: चेत् गुणम् अभूत्‍वा पुन: वृद्धिरेव भवति । यथा -
प्र + ऊहः = प्रौहः
प्र + ऊढः = प्रौढः

उपसर्गादृति धातौ ।6।1।91। - यदि अकारन्‍त उपसर्गात् अनन्‍तरं सा धातु: आगच्‍छेत् यस्‍यादौ लघु ऋकार: भवतु चेत् द्वयो: स्‍थाने 'आर्' इति भवति । यथा -
उप + ऋच्छति = उपार्च्छति

यदि नामधातु: भवतु चेत् 'आर्' विकल्‍पेन भवति । यथा - 
प्र + ऋषभीयति = प्रार्षभीयति

ऋते च तृतीया समासे (वार्तिकम्) - यदा ऋत् पदेन सह कस्‍यचित् पूर्वगामीशब्‍दस्‍य तृतीया समास: भवतु चेत् अपि पूर्वगामी अकारान्‍तशब्‍दस्‍य 'अ' 'ऋत्' च मिलित्‍वा 'आर्' एव भविष्‍यति 'अर्'  नैव । यथा -
सुखेन ऋतः = सुखार्तः

ऋत्‍यक: ।6।1।28। - (ऋति परे पदान्‍ता अक: प्राग्‍वत्) - यदा अ, आ, इ, ई, उ, उ, ऋ, दीर्घ ऋ, लृ वा च पदान्‍ते भवन्ति, एतेषामनन्‍तरं 'ऋ'कार: च आगच्‍छेत् चेत् पदान्‍त अक् विकल्‍पेन हृस्‍व भवन्ति, अयं नियम: गुणसन्‍धे: विकल्‍पम् उपस्‍थापयति । यथा -
ब्रह्मा + ऋषिः = ब्रह्मर्षिः

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी