अयादि सन्धि: - अपवादाः ।।

(१) लोप: शाकल्‍यस्‍य ।८।५।१९।
यदि पदान्‍त 'य्'कारस्‍य 'व्'कारस्‍य वा साक्षात् पूर्वम् 'अ' उत 'आ' भवतु अनन्‍तरं च कश्चित् स्‍वर: आगच्‍छेत् चेत् 'य'कारस्‍य 'व'कारस्‍य च लोप: ऐच्छिक: भवति । यथा -

हरे + एहि = हरेयहि / हर एहि
विष्‍णो + इह = विष्‍णविह / विष्‍ण इह
तस्‍यै + इमानि = तस्‍यायिमानि / तस्‍या इमानि
श्रियै + उत्‍सुक: = श्रियायुत्‍सुक: / श्रिया उत्‍सुक:
गुरौ + उत्‍क: = गुरावुत्‍क: / गुरा उत्‍क:
रात्रौ + आगत: = रात्रावागत: / रात्रा आगत:
ऋतौ + अन्‍नम् = ऋतावन्‍नम् / ऋता अन्‍नम्



(२) पूर्वत्रासि‍द्धमिति - लोपशास्‍त्रस्‍यासिद्धत्‍वान्‍न स्‍वरसन्धि: ।

मध्‍यस्‍थव्‍यंजनस्‍य विसर्गस्‍य वा लोपे यदा द्वौ स्‍वरौ समीपं आगच्‍छत: चेत् तयो: परस्‍परं सन्धि: नैव भवति इति ।


(३) वान्‍तो यि प्रत्‍यये ।६।१।९७।
यदा ओ, औ वा वर्णयो: अनन्‍तरं यकारादि प्रत्‍यय: (यस्‍यादौ 'य' इति भवति) आगच्‍छेत् चेत् 'औ'कारस्‍य स्‍थाने क्रमश: अव्, आव् च भवत: । यथा -

गोर्विकारो (गो + यत्) = गव्‍यम् ।
नावा तार्यम् (नौ + यत्) = नाव्‍यम् ।


(४) गोर्यूतौ, अध्‍वपरिमाणे च (वार्तिकम्)
'गो' शब्‍दात् यूति शब्‍द: परे सति मार्गस्‍य परिमाणार्थे (दूरी के अर्थ में) 'औ' इत्‍यस्‍य 'अव्' इति भवति । यथा -

गो + यूति: = गव्‍यूति: ।


(५) धातोस्‍तन्निमित्‍तस्‍यैव ।
यका‍रादिप्रत्‍यय: अनन्‍तरं सन् धातो: 'ओ'कारस्‍य 'अव्', 'औ'कारस्‍य 'आव्' चादेश: भवति किन्‍तु यदा 'ओ' 'औ' च प्रत्‍ययौ एव कारणौ भवत: चेत् । यथा -

लो + यम् = लाव्‍यम्
भौ + यम् = भाव्‍यम्

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

शरीरस्‍य अंगानि

अव्यय पदानि ।।