संदेश

October, 2014 की पोस्ट दिखाई जा रही हैं

पदार्था: कति - तर्कसंग्रह ।

चित्र
पदार्था: कति ? कानि च तेषां नामानि ?

सप्‍त पदार्था: सन्ति तर्कसंग्रहानुसारेण -
क्रमश:

१-द्रव्‍य
२-गुण
३-कर्म
४-सामान्‍य
५-विशेष
६-समवाय
७-अभाव

एते सप्‍तपदार्था: सन्ति वैशेषिकसिद्धान्‍तानुसारं । न्‍याये तु एतेषां संख्‍या षोडश अस्ति (प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्‍टान्‍त, सिद्धान्‍त, अवयव, तर्क, निर्णय, वाद, जल्‍प, वितण्‍डा, हेत्‍वाभास, छल, जाति, निग्रहस्‍थान)

इति

अथोद्देशप्रकरणम् ।।

चित्र
उद्देशं किम् 
उद्देशश्‍तु नाममात्रवस्‍तुसंकीर्तनम् ।
अर्थात् केवलं नामस्‍वीकरणमेव उद्देशम् इति । कस्‍यचित् वस्‍तो: केवलं नाम वाचने एव तस्‍य उद्देशम् भवति । उद्देशं उद्देश्‍यभिन्‍न: शब्‍द: । उद्देशमित्‍युक्‍ते नामोच्‍चारणमात्रमेव ।



इति

तर्कसंग्रह: - अन्‍नंभट्टकृत् ।।

चित्र
आरभ्‍यते सम्‍प्रति अन्‍नंभट्टकृत तर्कसंग्रहग्रन्‍थस्‍य सरलसंस्‍कृतानुवाद: । ये अनेन लाभं प्राप्‍तुं शक्‍नुवन्ति तेषां लाभाय शुभकामनासहिता प्रस्‍तुतिरेषा संस्‍कृतजगत: ।।

मंगलाचरणम् 

निधाय हृदि विश्‍वेशं विधाय गुरुवन्‍दनम् । 
बालानां सुखबोधाय क्रियते तर्कसंग्रह: ।।

सरलार्थ: - 
हृदये विश्‍वेशं (ईश्‍वरं) धृत्‍वा, गुरुदेवं च प्रणम्‍य (नमस्‍कृत्‍य) बालकान् अपि द्रव्‍यादि सप्‍तपदार्थानां बोधं कारितुं सुखेन अहं (अन्‍नंभट्ट:) तर्कसंग्रह नामकं ग्रन्‍थं रचयामि ।।


इति

संस्‍कृतजगत् ईपत्रिकाया: नूतनसंस्‍करणाय सूचना ।।

चित्र
मित्राणि
संस्‍कृतजगत् ईपत्रिकाया: नूतनं संस्‍करणं नवम्बरमासे अस्‍माभि: प्रकाशयिष्‍यते । तदर्थं भवतां सर्वेषां लेखा: स्‍वागतार्ह: । आत्‍मन: लेखान् अक्‍टूबरमासस्‍य 31 दिनांकपर्यन्‍तं ईसंकेतद्वारा उत पत्रद्वारा प्रेषयन्‍तु । भवतां लेखा: संस्‍कृतभाषायामेव भवेयु: ।
     ईसंकेतद्वारा प्रेषितुम् अस्‍माकं ईसंकेत: -

pramukh@sanskritjagat.com

     पत्रमाध्‍यमेन प्रेषितुमस्‍माकं पत्रसंकेत: अधोलिखित: अस्ति ।


संस्‍कृतजगत् शिक्षण-प्रशिक्षण संस्‍थानम् 
नगहरा चौराहा, गोशाईगंज, फैजाबाद 
पिन संख्‍या - 224141 



इति