संदेश

November, 2014 की पोस्ट दिखाई जा रही हैं

गायत्र्याः अर्थः --।।

चित्र
गायत्र्याः अर्थः --

निरुक्तभाष्ये
यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥

देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥

द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥

तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।

ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥

इति

साङ्ख्यकारिकायाः शब्दकोश: ।।

चित्र
सङ्केतसूची -  (पुं) - पुंलिङ्गम् (स्त्री) – स्त्रीलिङ्गम् (नपुं) – नपुंसकलिङ्गम्  (विशे) - विशेषणम् प्र. - प्रस्तुतस्थले (अ.) – अव्ययम्  (विधे.) - विधेयम्।  कंसस्थसङ्ख्या कारिकाङ्कं द्योतयति।
अङ्कुशः (पुं) (50)अष्टसु सिद्धिषु विघ्न:। अचेतनम् (विशे.) (17) जडम् । प्र. लिङ्गम् इत्यस्य विशे.। अतिशय: (पुं) (2) तादृशी स्थिति: यत्र एकस्य सुखाद् अन्यस्य सुखम् अधिकम्। अत्यन्तत: (अ.) (1) पूर्णत:। आत्यन्तिकम् (विशे.) (68) पूर्णम् । प्र. कैवल्यम् इत्यस्य विशे.। अदृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.। अधस्तात् (अ.) (44) निकृष्टलोक:। अधिष्ठानम् (नपुं) (17) आश्रय:। अध्ययनम् (नपुं) (50) गुरूच्चारणपूर्वकम् अनूच्चारणम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:। अध्यवसाय: (पुं) (5,23) प्रत्यक्षज्ञानार्थं बुद्धितत्वस्य व्यापारविशेष:। यथा-सविषयम् इन्द्रियं बुद्धौ प्रतिबिम्बितं भवति। एतादृशी प्रतिबिम्बयुता बुद्धि: चैतन्ये प्रतिबिम्बिता भवति। तत्र चैतन्यस्य प्रकाशेन प्रकाशिता भवति। तेन प्रकाशेन स्वगृहीतं विषयम् अपि प्रकाशयति। अनवस्थानम् (नपुं) (7) स्वस्थानत: च्युति:। …

द्रव्‍याणि कति

चित्र
द्रव्‍याणि कति ?
कानि च तेषां नामानि ?

तत्र द्रव्‍याणि पृथिव्‍यप्‍तेजोवाय्वाकाशकालदिगात्‍ममनांसि नवैव ।

(द्रव्‍यादि) सप्‍त पदार्थेषु नव द्रव्‍याण्‍िा सन्ति -
१- पृथिवी
२- जल
३- तेज
४- वायु:
५- आकाश:
६- कालं
७- दिक्
८- आत्‍मा
९- मन



क्षित्‍यप्‍तेजोमरुद्व्‍योमकालदिग्‍देहिनो मन: ।।क‍ारिकावली - विश्‍वनाथ पंचानन भट्टाचार्य: ।।



इति