संदेश

December, 2014 की पोस्ट दिखाई जा रही हैं

पूर्वरंग: ।।

चित्र
यन्‍नाट्यवस्‍तुन: पूर्वं रंगविघ्‍नोपशान्‍तये ।  कुशीलवा: प्रकुर्वन्ति पूर्वरंग: स उच्‍यते ।। ।।साहित्‍यदर्पण-6/22।।
   नाटकीयकथाया: अवतारणाया: पूर्वं नटादया: रंगमंचस्‍य विघ्नादयस्‍य प्रशमनं कर्तुं यत्‍किमपि कुर्वन्ति स: पूर्वरंग: उच्‍यते ।

इति

मित्रभेद: - पंचतन्‍त्रम् ।।

चित्र
मित्रभेद:
अथात: प्रारभ्‍यते मित्रभेदो नाम प्रथमं तन्‍त्रम् यस्‍यायमादिम: श्‍लोक: - 
वर्द्धमानो महान्‍स्‍नेह: सिंहगोवृषयोर्वने ।  पिशुनेनातिलुब्‍धेन जम्‍बुकेन विनाशित: ।।1 
तद्यथा अनुश्रूयते - अस्ति दक्षिणात्‍ये जनपदे महिलारोप्‍यं नाम नगरम् । तत्र  धर्मोपार्जित भूरिविभवो वर्द्धमानको नाम वणिक्‍पुत्रो बभूव । तस्‍य कदाचिद्रात्रौ शय्यारूढस्‍य चिन्‍ता समुत्‍पन्‍ना - 'यत्‍प्रभूते पि वित्‍ते अर्थोपायाश्चिन्‍तनीया: कर्तव्‍याश्‍चेति यत् उक्‍तंच - 
न हि तद्विद्यते किंचिदर्थेन न सिद्ध्यति ।  यत्‍नेन मतिमांस्‍तस्‍मादथमेकं प्रसाधयेत् ।।2
तस्‍यार्थास्‍तस्‍य मित्राणि यस्‍यार्थास्‍तस्‍य बान्‍धवा: ।  यस्‍यार्था स पुमांल्‍लोके यस्‍यार्था: स च पण्डित: ।।3 
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।  न तत्‍स्‍थैर्य्यं हि धनिनां याचकैर्यन्‍न गीयते ।। 4
इह लोके हि धनिनां परो पि स्‍वजनायते ।  स्‍वजनो पि दरिद्राणां सर्वदा दुर्जनायते ।।5
अर्थेभ्‍यो पि प्रव़ृद्धेभ्‍य: संवृत्‍तेभ्‍यस्‍ततस्‍तत: ।  प्रवर्तन्‍ते क्रिया: सर्वा: पर्वतेभ्‍य इवापगा: ।।6
पूज्‍यते यदपूज्‍यो पि यदगम्‍यो पि गम्‍यते । वन्‍द्यते यदवन्‍द्यो पि स प्रभ…

।। पंचतन्‍त्र - विष्‍णुशर्मा ।।

चित्र
कथामुखम् 
   तद्यथा अनुश्रूयते - अस्ति दाक्षिणात्‍ये जनपदे महिलारोप्‍यं नाम नगरम् । तत्र सकलार्थिकल्‍पद्रुम: प्रवरमुकुटमणिमरीचिमजराचर्चितचरणयुगल:, सकलकलापारंगतो परशक्तिर्नामराजा बभूव । तस्‍य त्रय: पुत्रा: परमदुर्मेधसो बहुशक्तिरुग्रशक्तिरनन्‍तशक्तिश्‍चेतिनामानो बभूवु: । अथ राजा तान् शास्‍त्रविमुखान् विलोक्‍य सचिवान् प्रोवाच - ''भो: । ज्ञातमेतद्भवद्भिर्यन्‍ममेते पुत्रा: शास्‍त्रविमुखा विवेकरहिताश्‍च । एत् एतान् पश्‍चतो मे महदपि राज्‍यं न सौख्‍यमावहति । अथवा साध्विदमुच्‍यते -

अजातमृममूर्खेभ्‍यो मृताजातौ सुतौ वरम् ।
यतस्‍तौ स्‍वल्‍पदु:खाय यावज्‍जीवं जडो दहेत् ।।

वरं गर्भस्रावो वरमृतेषु नैवाभिगमनं ।  वरं जात प्रेतो वरमपि च कन्‍यैव जनिता ।  वरं वन्‍ध्‍या भार्या वरमपि च गर्भेषु वसति - र्न चा विद्वान् रूपद्रविगुणयुक्‍तो पि तनय: ।। 
किं तया क्रियते धेन्‍वा न सूते न दुग्धदा  को र्थ: पुत्रेण जातेन यो न विद्वान्‍न भक्तिमान् ।। 
वरमिहवा सुतमरणं मा मूर्खत्‍वं कुलप्रसूतस्‍य  येन विवुधजन मध्‍ये जारज इव लज्‍जते मनुज: ।। 
गुणिगणगणनारम्‍भे न पतति कठिन ससम्‍भ्रमा यस्‍य ।  तेनाम्‍बायदि सुतिनि वद व…

।। पंचतन्‍त्रम् ।।

चित्र
मंगलाचरणम् 
ब्रह्मा रुद्र: कुमारो हरिवरुणयमा वह्नरिन्‍द्र: कुबेर- श्चन्‍द्रादित्‍यौ सरस्‍वत्‍युदधियुगनगा वायुरुर्वी भुजंगा ।  सिद्धा नद्यो श्विनौ श्रीर्दितिरदितिसुता: मातरश्‍चण्डिकाद्या  वेदास्‍तीर्थानि यज्ञा गण बसुमुनय: पान्‍तु गित्‍यं ग्रहाश्‍च ।।1।। 
मनवे वाचस्‍पतये शुक्राय पाराशराय ससुताय  चाणक्‍याय च विदुषे नमो स्‍तु नयशास्‍त्रकर्तभ्‍य: ।।2।। 
सकलार्थशास्‍त्र सारं जगति सदलोक्‍य विष्‍णुशर्मेदम्  तन्‍त्रै: पंचभिरेतच्‍चकार: सुमनोहरं शास्‍त्रम् ।।3।। 

इति

सनिवेदनैः सूचनीयः ।।

चित्र
मित्राणि
अद्य अत्र द्वौ विषयौ उपस्थातव्यौ ।
१- संस्कृतजगत् फेसबुक पृष्ठस्य (पूर्वतनस्य) मित्रसंख्या ५००० मिति जाता । यतोहि मित्रसंख्या ततोधिकं भवितुं नार्हति एव अतः सम्प्रति संस्कृतजगतः नूतनस्य पृष्ठस्यानुकरणं कृत्वा संस्कृतजगता सह स्थातुं शक्नुवन्ति भवन्तः  । नूतन श्रृंखला https://facebook.com/sanskritajagat इति अस्ति ।।

२- संस्कृतजगत् ब्लॉगपृष्ठे दृश्यमाणानां विज्ञापनानां विषये बहुधा जनानां रोषः दृश्यते । अत्र वक्तव्यमस्ति यत् वयं केभ्यः अपि धनसहयोगं न प्राप्नुमः, तस्याकांक्षापि नास्त्येव । पुनश्च धनसहयोगाय अपि कमपि नैव कथयामः । चेत् संस्कृतजगतः कार्यकर्तृनां आवश्यकतापूर्तिः तेनैव धनेन क्रियते यद्धनं विज्ञापनैः प्राप्यते । अतः भवन्तः कृपया तस्य कृते असुविधायाः अभावं भावयित्वा संस्कृतजगति समर्थनसहयोगं दीयन्तामिति ।।

भवदीयः
डॉ. विवेकानन्द पाण्डेयः
संस्कृतजगत्

इति

अवधानं देयम् ।।

चित्र
मित्राणि
संस्कृतजगतः सम्प्रति विस्तारः जायमानः अस्ति । अस्यां श्रृंखलायाम् ते संस्कृतलिखितारः ये संस्कृतलेखान् लिखितुम् स्थानकं इच्छन्तः सन्ति तेषां कृते सम्प्रति संस्कृतजगत् एकं नूतनं अवसरं प्रददाति । भवन्तः आत्मनः संस्कृतलेखाः सम्प्रति संस्कृतजगति साक्षात् प्रकाशयितुं शक्नुवन्ति ।
संस्कृतजगति लेखाः साक्षात् प्रकाशयितुं अस्माभिः एकः ईसंकेतः निर्मितः । अस्मिन् संकेते लेखं प्रेषयन्ति चेत् संस्कृतजगति साक्षात् प्रकाशितम् भविष्यति । अवधानमेतत् देयमस्ति यत् भवतां लेखाः संस्कृतभाषायमेव भवेयुः ।

संस्कृतजगति लेखान् साक्षात् प्रकाशयितुं
ई संकेतः - publish@sanskritjagat.in

।। भवतु संस्कृतपरिवारस्याङ्गः ।।


इति

स्वागत-गीतम्

चित्र
(लय—मुरारी छोड़ भारत को कहाँ बंशी बजाते हो )



         महामहनीय मेधाविन् , त्वदीयं स्वागतं कुर्मः।

         गुरो गीर्वाणभाषायाः , त्वदीयं स्वागतं कुर्मः।।



दिनं नो धन्यतममेतत् , इयं मङ्गलमयी वेला।

वयं यद् बालका एते , त्वदीयं स्वागतं कुर्मः।।



   न काचिद् भावना भक्तिः , न काचित् साधना शक्तिः।

परं श्रद्धा-कुसुमाञ्जलिभिः , त्वदीयं स्वागतं कुर्मः।।



किमधिकं ब्रूमहे श्रीमन् , निवेदनमेतदेवैकम् ।

ऩ बाला विस्मृतिं नेयाः , त्वदीयं स्वागतं कुर्मः।।

(श्रीवासुदेवद्विवेदी शास्त्री)

इति

नपुंसकमिति ज्ञात्वा ।।

चित्र
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥
कश्चन अचिन्तयत् - 'मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः' इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् ।
अतः सः विषादेन वदति - 'मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः' इति ।
'मनश्शब्दः' नपुंसकः अस्ति चेत् 'मनः' अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।

काचं मणिं काञ्चनमेकसूत्रे ग्रथ्नातु बाला किमिहात्र चित्रम् ।
अशेषवित् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमूचे ॥

कदाचित् काचित् बालिका काञ्चनमणिभिः हारं रचयन्ती आसीत् । मध्ये मध्ये तया काचमणयः अपि योजिताः आसन् । सुवर्णमणिभिः सह स्थिताः काचमणयः अपि सुवर्णमणिवत् भासन्ते इत्यतः तया भ्रान्त्या एवं कृतम् आसीत् । एतत् दृष्ट्वा कश्चित् तस्याः अविवेकिताम् अनिन्दत् । तदा अपरः अवदत् - 'काचमणीन् काञ्चनमणीन् च एकसूत्रतया योजयित्वा एषा हारं रचितवती इत्येतत् न महते अपराधाय । यतः एषा तु अल्पवयस्का…

निमेषाः II

चित्र
इक्ष्वाकु राजपुत्रः निभिः । सः धर्मात्मा जातु सहस्रसंवत्सरं सत्रमेकमारभत । तदर्थं कुलपुरोहितं वसिष्ठं होतारं वरयामास । तस्य वरणस्यानुष्ठाने आत्मनोऽसामर्थ्यं प्रकटयन्‌ वसिष्ठ आह राजन्‌ ! नाक पतिना सहस्राक्षेण पञ्चशतवर्षानुष्ठेययागार्थं प्रथमतरमेवाहं वृतो अस्मि । अतः नाधुना तव सत्रे होतृपदवीमधिरोढु समर्थः । तत्परिसंवाप्त्यनन्तरमागतस्तवापि ऋत्विग्‌ भविष्यामीति । निमिस्तु निश्चितकाल एव गौतमादिभिर्यागमकरोत्‌ । समाप्ते चामरपतियागे त्वरावाम्‌ त्वरावान्‌ वसिष्ठः निमेर्निकटमागतः । सत्रशालायां गौतमं होतारं विलोक्य नितरां क्रुद्धः निभिरयं विदेहो भविष्यतीति शापं ददौ । निमेशरीरं सद्यो मृतमिव तस्थौ । यज्ञसमाप्तौ भाग्रहणायागताम्‌ देवान्‌ ऋ त्विज प्रार्थयामासुः यजमानाय वरो दीयताम्‌ इति । देवैः रुज्जीवितः निमिरब्रवीत्‌ भोः देवाः यद्यपि भवतां कृपयाऽह जीवितोऽस्मि । तथापि शरीरस्य प्राणवियोगयदा क दा वा सहज एव । किं जगत्यन्दूदुःखमस्ति यच्छरीरात्मनोर्वियोगात्‌ । तदहं सक ललोचनेषु वस्तुमिच्छामि, न पुनः शरीरग्रहणम्‌ इति । राज्ञः प्रार्थनामनुसृत्य देवैरसावशेषभूतानां प्राणिनाम्‌ नेत्रेषु वासं…