।। पंचतन्‍त्र - विष्‍णुशर्मा ।।

कथामुखम् 

   तद्यथा अनुश्रूयते - अस्ति दाक्षिणात्‍ये जनपदे महिलारोप्‍यं नाम नगरम् । तत्र सकलार्थिकल्‍पद्रुम: प्रवरमुकुटमणिमरीचिमजराचर्चितचरणयुगल:, सकलकलापारंगतो परशक्तिर्नामराजा बभूव । तस्‍य त्रय: पुत्रा: परमदुर्मेधसो बहुशक्तिरुग्रशक्तिरनन्‍तशक्तिश्‍चेतिनामानो बभूवु: । अथ राजा तान् शास्‍त्रविमुखान् विलोक्‍य सचिवान् प्रोवाच - ''भो: । ज्ञातमेतद्भवद्भिर्यन्‍ममेते पुत्रा: शास्‍त्रविमुखा विवेकरहिताश्‍च । एत् एतान् पश्‍चतो मे महदपि राज्‍यं न सौख्‍यमावहति । अथवा साध्विदमुच्‍यते -

अजातमृममूर्खेभ्‍यो मृताजातौ सुतौ वरम् ।
यतस्‍तौ स्‍वल्‍पदु:खाय यावज्‍जीवं जडो दहेत् ।।

वरं गर्भस्रावो वरमृतेषु नैवाभिगमनं । 
वरं जात प्रेतो वरमपि च कन्‍यैव जनिता । 
वरं वन्‍ध्‍या भार्या वरमपि च गर्भेषु वसति -
र्न चा विद्वान् रूपद्रविगुणयुक्‍तो पि तनय: ।। 

किं तया क्रियते धेन्‍वा न सूते न दुग्धदा 
को र्थ: पुत्रेण जातेन यो न विद्वान्‍न भक्तिमान् ।। 

वरमिहवा सुतमरणं मा मूर्खत्‍वं कुलप्रसूतस्‍य 
येन विवुधजन मध्‍ये जारज इव लज्‍जते मनुज: ।। 

गुणिगणगणनारम्‍भे न पतति कठिन ससम्‍भ्रमा यस्‍य । 
तेनाम्‍बायदि सुतिनि वद वन्‍ध्‍या कीदृशी भवति ।। 

   तदेतेषां यथा बुत्रिप्रकाशो भवति तथा को प्‍युपायो नुष्‍ठीयताम् अत्र च मद्दत्‍तां वृत्ति भुजानानां पण्डितानां पंचशती तिष्‍ठति । ततो यथा मम मनोरथा: सिद्धि यान्ति तथा नुष्‍ठीयताम्'' इति । तत्रैक: प्रोवाच - 'देव द्वादशभिर्वषैर्व्‍याकरणं श्रूयते, ततो धर्मशास्‍त्राणि वात्‍स्‍यायनादीनि । एवं च ततो धर्मार्थकामशास्‍त्राणि ज्ञायन्‍ते । तत: प्रतिबोधनं भवति ।'' अथ तन्‍मध्‍यत: सुमर्तिर्नाम सचिव: प्राह - ' अशाश्‍वतो यं जीवितव्‍य: विषय: । प्रभूतकालज्ञेयानिशब्‍दशास्‍त्राणि । तत्‍संक्षेपमात्रं शास्‍त्रं किंश्चिदेतेषां प्रबोधनार्थं चिन्‍त्‍यतामिति उक्‍तंच यत-

अनन्‍तपारं किल शब्‍दशास्‍त्रं स्‍वल्‍पं तथायुर्बहवश्‍च विघ्‍ना: । 
सार ततो ग्राह्यमपास्‍य फल्‍गुहंसैर्यथा क्षीरमिवाम्‍बुमध्‍यात् ।। 

   तदत्रास्ति विष्‍णुशर्मा नाम ब्राह्मण: समलशास्‍त्रपारंगतश्‍छात्रसंसदि लब्‍धकीर्ति: तस्‍मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्‍यति' इति । सा राजा तदाकर्ष्‍य विष्‍णुशर्माणमाहूय प्रोवाच - ' भो भगवन् । मदनुग्रहार्थमेतान् अर्थशास्‍त्रं प्रति द्राग्‍यथा अनन्‍यसदृशान् विदधासि तथा कुरु । तदा अहं त्‍वां शासनशतेन योजयिष्‍यामि' । अथ विष्‍णुशर्मा तं राजानमूचे 'देव । श्रूयतां मे तथ्‍यवचनम् । ना हं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्‍तव पुत्रान् मासषट्केन यदि नीतिशास्‍त्रज्ञान् न कारयामि तत: स्‍वनामत्‍याग करिष्‍यामि किं बहुना, श्रूयतां ममैष सिंहनाद: । नाहमर्थलिप्‍सुर्ब्रवीमि । ममाशीतिवर्षस्‍य व्‍यावृत्‍तसर्वेन्द्रियार्थस्‍य न किंचिदर्थे प्रयोजनं किन्‍तु त्‍वत्‍प्रार्थनाद्ध्यर्थ सरस्‍वतीविनोदं करिष्‍यामि । तल्लिख्‍यतामद्यतनो दिवस: । यदि अहं षण्‍मासाभ्‍यन्‍तरे तव पुत्रान् नीतिशास्‍त्रं प्रति अनन्‍यदृशान् न करिष्‍यामि ततो नार्हति देवो देवमार्ग सन्‍दर्शयितुम् ।' 
    अथासौ राजा तां ब्राह्मणस्‍यासंभाव्‍यां प्रतिज्ञां श्रुुत्‍वा सगचिव: प्रहृष्‍टो विस्‍मयान्वित: तस्‍मै सादीं तान् कुमारान् समर्प्‍य परां निवृतिमाजगाम । विष्‍णुशर्म्‍मणापि तानादाय तदर्थ मित्रभेद-मित्रसम्‍प्राप्ति-काकोलूकीय-लब्‍धप्रणाश-अपरीक्षितकारकाणिचेति पंच तन्‍त्राणि पंचयित्‍वा पाठितास्‍ते राजपुत्रा: । ते पि तानि अधीत्‍य मासषट्केन यथोक्‍ता: संवृत्‍ता: तत: प्रभृति एतत्‍पंचतन्‍त्रकं नाम नीतिशास्‍त्रं बालावबोधनार्थं भूतले प्रवृत्‍तम् । 
किं बहुना - 

अधीते य इदं नित्‍यं नीतिशास्‍त्र शृणोति च । 
न पराभवमाप्‍नोति शक्रादपि कदाचन ।।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।