निमेषाः II


     इक्ष्वाकु राजपुत्रः निभिः । सः धर्मात्मा जातु सहस्रसंवत्सरं सत्रमेकमारभत । तदर्थं कुलपुरोहितं वसिष्ठं होतारं वरयामास । तस्य वरणस्यानुष्ठाने आत्मनोऽसामर्थ्यं प्रकटयन्‌ वसिष्ठ आह राजन्‌ ! नाक पतिना सहस्राक्षेण पञ्चशतवर्षानुष्ठेययागार्थं प्रथमतरमेवाहं वृतो अस्मि । अतः नाधुना तव सत्रे होतृपदवीमधिरोढु समर्थः । तत्परिसंवाप्त्यनन्तरमागतस्तवापि ऋत्विग्‌ भविष्यामीति । निमिस्तु निश्चितकाल एव गौतमादिभिर्यागमकरोत्‌ । समाप्ते चामरपतियागे त्वरावाम्‌ त्वरावान्‌ वसिष्ठः निमेर्निकटमागतः । सत्रशालायां गौतमं होतारं विलोक्य नितरां क्रुद्धः निभिरयं विदेहो भविष्यतीति शापं ददौ । निमेशरीरं सद्यो मृतमिव तस्थौ । यज्ञसमाप्तौ भाग्रहणायागताम्‌ देवान्‌ ऋ त्विज प्रार्थयामासुः यजमानाय वरो दीयताम्‌ इति । देवैः रुज्जीवितः निमिरब्रवीत्‌ भोः देवाः यद्यपि भवतां कृपयाऽह जीवितोऽस्मि । तथापि शरीरस्य प्राणवियोगयदा क दा वा सहज एव । किं जगत्यन्दूदुःखमस्ति यच्छरीरात्मनोर्वियोगात्‌ । तदहं सक ललोचनेषु वस्तुमिच्छामि, न पुनः शरीरग्रहणम्‌ इति । राज्ञः प्रार्थनामनुसृत्य देवैरसावशेषभूतानां प्राणिनाम्‌ नेत्रेषु वासं कारितः । ततो भूतानि उन्मेषनिमेषं चक्रुः । इयं कथा विष्णुपुराणोक्ता । मत्स्यपुराणे कथेयमन्यथैव वर्णिता । एक दा वसिष्ठः कुलाचार्यः निमेः प्रासादमाजगाम । तदा राजा स्त्रीभिः द्यूतक्रीडायामासक्त आसीत्‌ । क्रीडामग्नः तस्यर्षेः पूजां न कृतवान्‌ । तेन क्रु द्धः वसिष्ठः तं विरेता भव इति शप्तवान्‌ । राजापि त मुनिं तथैव शेपे । परस्परं शप्तौ तौ शापनाशाय जगत्पतिं ब्रह्माणं जग्मतुः । ब्रह्मण आदेशान्निभिः भूतानां लोचनेषु अवसत्‌ । तदारभ्य लोकानां जनाः निमेषा अभवत्‌ ।
 
इति
  
आचार्य शशांक शेखर शुल्ब
 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।