मित्रभेद: - पंचतन्‍त्रम् ।।

मित्रभेद:

अथात: प्रारभ्‍यते मित्रभेदो नाम प्रथमं तन्‍त्रम् यस्‍यायमादिम: श्‍लोक: - 

वर्द्धमानो महान्‍स्‍नेह: सिंहगोवृषयोर्वने । 
पिशुनेनातिलुब्‍धेन जम्‍बुकेन विनाशित: ।।1 

तद्यथा अनुश्रूयते - अस्ति दक्षिणात्‍ये जनपदे महिलारोप्‍यं नाम नगरम् । तत्र  धर्मोपार्जित भूरिविभवो वर्द्धमानको नाम वणिक्‍पुत्रो बभूव । तस्‍य कदाचिद्रात्रौ शय्यारूढस्‍य चिन्‍ता समुत्‍पन्‍ना - 'यत्‍प्रभूते पि वित्‍ते अर्थोपायाश्चिन्‍तनीया: कर्तव्‍याश्‍चेति यत् उक्‍तंच - 

न हि तद्विद्यते किंचिदर्थेन न सिद्ध्यति । 
यत्‍नेन मतिमांस्‍तस्‍मादथमेकं प्रसाधयेत् ।।2

तस्‍यार्थास्‍तस्‍य मित्राणि यस्‍यार्थास्‍तस्‍य बान्‍धवा: । 
यस्‍यार्था स पुमांल्‍लोके यस्‍यार्था: स च पण्डित: ।।3 

न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । 
न तत्‍स्‍थैर्य्यं हि धनिनां याचकैर्यन्‍न गीयते ।। 4

इह लोके हि धनिनां परो पि स्‍वजनायते । 
स्‍वजनो पि दरिद्राणां सर्वदा दुर्जनायते ।।5

अर्थेभ्‍यो पि प्रव़ृद्धेभ्‍य: संवृत्‍तेभ्‍यस्‍ततस्‍तत: । 
प्रवर्तन्‍ते क्रिया: सर्वा: पर्वतेभ्‍य इवापगा: ।।6

पूज्‍यते यदपूज्‍यो पि यदगम्‍यो पि गम्‍यते ।
वन्‍द्यते यदवन्‍द्यो पि स प्रभावौ धनस्‍य च ।। 7  

अशनादिन्द्रियाणेव स्‍यु: कार्याण्‍यखिलान्‍यपि । 
एतस्‍मात्‍कारणाद्वित्तं सर्वसाधनमुच्‍यते ।। 8

अर्थार्थी जीवलोको यं श्‍मशानमपि सेवते । 
त्‍यक्‍त्‍वा जनयितारं स्‍व नि:स्‍वं गच्‍छति दूरय: ।।9

गतवसामपि पुंसां येषामर्था भवन्ति ते तरुणा: । 
अर्थेन तु ये हीना वृद्धास्‍ते यौवने पि स्‍यु: ।।10 

स चार्थ: पुरुषाणां षड्भिरुपायैर्भवति - भिक्षया, नृपसेवया, कृषिकर्मणा, विद्योपार्जनेन, व्‍यवहारेण, वणिक्‍कर्मणा वा । सर्वेषामपि तेषां वाणिज्‍येन अतिरस्‍कृतो र्थलाभ: स्‍यात् । 
उक्‍तंच यत: - 

कृता भिक्षा*नेकैर्वितरति नृपो नोचितमहो 
कृषि: क्लिष्‍टा विद्या गुरुविनयवृत्‍या*तिविषमा । 
कुसीदाद्दारिद्र्यं परकरगतग्रन्थिशमना - 
न्‍न मन्‍ये वाणिज्‍यात्किमपिपरमं वर्त्तनमिह ।।11

उपायानां च सर्वेषामुपाय पुण्‍यसंग्रह: । 
धनार्थ शस्‍यते ह्येकस्‍तदेन्‍य: संशयात्‍मक: ।। 12

तत्र वाणिज्‍यं सप्‍तविमथर्रागमाय स्‍यात्‍तद्यथा-गान्धिक, व्‍यवहारी, निक्षपप्रवेशो, गोष्ठिककर्म, परिचितग्राहकागमो, मिथ्‍या-क्रयकथनं, कूटतुलामानं देशान्‍तराद्भांडानयनंचेति । उक्‍तंच - 

पण्यानां गान्धिक पण्‍यं किं यै कांचनादिभि: । 
यत्रैकेन च यत्‍क्रीतं तच्‍छतेन प्रदीयते ।।13

निक्षेपे पतिते हर्म्‍ये श्रेष्‍ठी स्‍लौति स्‍वदेवाम् ।
निक्षेपो म्रियते तुभ्‍यं प्रदास्‍याम्‍युपयाचितम् ।।14

गोष्ठिक कर्मानियुक्‍त: श्रेष्‍ठी चिन्‍तयति चेतसा हृष्‍ट: ।।
वसुधा वसुसम्‍पूर्णा मयाद्य लब्‍धा किमन्‍येन ।।15

परिचितमागच्‍छन्‍तं ग्राहकमुत्‍कण्‍ठता विलोक्‍यासौ । 
हृष्‍यति तद्धनलुब्‍धो यद्वत्‍पुत्रेणजातेन ।। 16

पूर्णापूणे माने परिचितजनवचन तथा नित्‍यम् । 
मिथ्‍याक्रयस्‍य कथं प्रकृतिरियं स्‍यात्किरातानाम् ।।17

द्विगुणं त्रिगुणं वित्‍तं भांडक्रयविचक्षणा: । 
प्राप्‍नुवन्‍त्‍युद्यमाल्‍लोका दूरदेशान्‍तरं गता: ।। 18

इत्‍येवं सम्‍प्रधार्य्य मथुरागामीन भाण्‍डानि आदाय शुभायां तिथौ गुरुजनानुज्ञात: सुरथाधिरूढ: प्रस्थित: । तस्‍य च मंगलवृषभौ संजीवकनन्‍दकनामानौ गृहीत्‍पन्‍नो धूर्वोढारौ स्थितौ । तयोरेक: संजीवकाभिधानौ यमुनाकच्‍छमवतीर्ण: सन् पंगपूरमासाद्य कलितचरणा युगभगविधाय निषसाद । अथ तं तदवस्‍थमवलोक्‍यं वर्द्धमान पर विषादमगमत् । तदर्थ च स्‍नेहार्द्रहृदय: त्रिरात्रं प्रयाणभंगमकरोत् । अथ तं विषण्‍णमालोक्‍य सार्थिकैरभिहितम् -- भो श्रेष्ठिन । किमेत्रं वृषभस्‍य कृते सिंहव्‍याघ्रसमाकुल बह्वपाये*स्मिन् वने समस्‍तसार्थ: त्‍वया सन्‍देहे नियोजित: । उक्‍तं च -- 

न स्‍वल्‍पस्‍य कृते भूरि नाशयेन्‍मतिमान्‍नर: । 
एतदेवात्र पाण्डित्‍यं यत्‍स्‍वल्‍पाद् भूरिरक्षणम् ।। 19 

   अथासौ तदवधायृर्य संजीवकस्‍य रक्षापुरुषान् निरूप्य अशु:षार्थ नीत्‍वा प्रस्थित: । अथ रक्षापुरुषा अपि बह्वपाय तद्वनं विदित्‍वा संजीवक परित्‍यज्‍य पृष्‍ठतो गत्‍वा अन्‍येद्युस्‍तं साथैवाह मिथ्‍या**ह:-- स्‍वामिन् । मृतो*सौ संजीवको*स्‍माभिस्‍तु सार्थवाहस्‍याभीष्‍ट इति मत्‍वा बह्निना संस्‍कृत: इति । तछ्रुत्‍वा सार्थवाह: कृतज्ञतया स्‍नेहार्द्रहृदयस्‍तस्‍ये औध्‍दैहिक क्रिया वृषोत्‍सर्गादिका: सर्वश्‍चकार । संजीवकोप्‍यायुशेषतया यमुनासलिलमिश्रै: शिशिरतरवात: आप्‍याथितशरीर: कथंचिदप्‍युत्‍थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहीभिर्हरवृषभ इव पान: कुकुद्मन् बलवान्‍श्‍च सवृतत्‍त: प्रत्‍यहं वाल्‍मी‍कशिखरग्राणि श्रृंगाभ्‍यां विदारयन् गजमान आस्‍ते । साधु चेदमुच्‍यते --  

अरक्षितं तिष्‍ठति दैवरक्षितम् सुरक्षितं दैवहतं विनश्‍यति । 
जीवत्‍यनाथो*पि वनेविसर्जितं, कृतप्रयत्‍ना*पि गृहेनजीवति ।।20

    अथकदाचिद् पिंगलको नाम सिंह सर्वमृगपरिवृत: पिपसाकुल उदकपानार्थ यमुनातटमवतीर्ण: संजीवकस्‍तु गम्‍भीरतरारव दुरादेव अश्रृणोत् । तछ्रुत्‍वा अतीव व्‍याकुलहृदय: ससाध्‍वसमाकारं प्रच्‍छाद्य वटतले चतुर्मण्‍डयावस्‍थानेन अवस्थित: ।
    चतुर्मण्‍डलावत्‍थानत्विदम् - सिंह: सिंहानुयायिन: काकरवा: किंवृत्‍ता इति । अथ तस्‍य करटकदमनकनामानौ द्वौ श्रृगालौ मन्त्रिपुत्रौ भृष्‍टाधिकारौ सदानुयायिनौ आस्‍ताम् । तौ च परस्‍परमन्‍त्रयत । तत्र दमनको*ब्रवीत -- भद्र करक । अयं तावदस्‍मत्‍स्‍वामी पिंगलक उदकग्रहणार्थं यमुनाकच्‍छमवतीर्य्य स्थित: । किंनिमित्‍तं पिपासाकुलो*पि निवृत्‍याव्‍यूहरचनां विधाय दौर्मनस्‍मे नाभिमूमो*त्र वटतले स्थित: । करकट आह -- भद्र । किमावयोरनेन व्‍यापारेण । उक्‍तंच यत: -- 

अव्‍यापारेषु व्‍यापारयो नर: कर्तुमिच्‍छति । 
स एव निधनं याति कोलोत्‍पाटीव वानर: ।।21 

दमनक् आह - कथमेतत् / सो*ब्रवीत् -- 


इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

अव्यय पदानि ।।

कारक प्रकरणम् (कर्ता, कर्म, करणं च)