संदेश

January, 2015 की पोस्ट दिखाई जा रही हैं

कार्यम्

चित्र
अपेक्षितं तु यत्‍साध्‍यमारम्‍भो यन्निबन्‍धन: । समापनं तु यत्सिद्ध्‍यै तत्‍कार्यमिति संमतम् ।। ।।साहित्‍यदर्पण 6/69-70।। य: प्रधानसाध्‍य: अस्ति, सर्वेषामुपायानां प्रारम्‍भ: यस्‍य कृते कृत:, यस्‍य सिद्ध्यर्थं सर्वा: सामग्र्य: एकत्रीकृता: तत् कार्यमिति कथ्‍यते । यथा - रामायणे रावणवधम् कार्यमस्ति । अस्‍य अपि पंचभेदा: सन्ति ।
आरम्‍भ यत्‍न प्रत्‍याशा नियताप्ति फलागम

इति

प्रकरी

चित्र
प्रासंगिकं प्रदेशस्‍थं चरितं प्रकरी मता ।। ।।साहित्‍यदर्पण 6/68।। प्रसंगप्राप्‍त: कस्‍यचिदेकस्‍य स्‍थानविशिष्‍टस्‍य चरित्रं प्रकरी इति कथ्‍यते । तस्‍य चरित्रस्‍य नायक: च प्रकरीनायक: कथ्‍यते । यथा - कुलपत्‍यंके रावण-जटायुसंवाद: प्रकरी अस्ति यस्‍य नायक: जटायु: अस्ति ।

इति

पताका

चित्र
व्‍यापि प्रासंगिकं वृत्‍तं पताकेत्‍यभिधीयते ।। ।।साहित्‍यदर्पण 6/66।। या प्रासंगिककथा दूरपर्यन्‍तं व्‍याप्‍यते सा 'पताका' कथ्‍यते । तस्‍या: कथाया: नायक: च पताकानायक: इति कथ्‍यते । यथा – रामायणे सुग्रीवस्‍य कथा पताका अस्ति सुग्रीव: तु पताकानायक: ।

इति

बिन्‍दु

चित्र
अवान्‍तरार्थविच्‍छेदे बिन्‍दुरच्‍छेदकारणम् ।।साहित्‍यदर्पण 6/66।। अवान्‍तरकथाया: विच्छिन्नत्‍वे सति अपि प्रधानकथाया: अविच्‍छेदस्‍य कारणं 'बिन्‍दु' नाम्‍ना ज्ञायते । यथा - रत्‍नावलीनाटिकायां अनंगपूजाया: समाप्‍तौ कथाया: विच्‍छेदत्‍वे ''उदयनस्‍येन्‍दोरिवोद्वीक्षते .......'' इदं वाक्‍यं श्रुत्‍वा ''किं सैव राजा उदयन:'' सागरिकाया: इदं कथनं कथाया: अविच्‍छेदस्‍य हेतु: अस्ति ।

इति

बीज

चित्र
अल्‍पमात्रं समुद्दिष्‍टं बहुधा यद् विसर्पति । फलस्‍य प्रथमो हेतुर्बीजं तदभिधीयते ।। ।।साहित्‍यदर्पण 6/65।। यस्‍य पूर्वं तु अल्‍पकथनमेव भवेत् किन्‍तु तस्‍य विस्‍तार: बहुधा भवतु तत् बीजमिति कथ्‍यते । बीजं तत् यत् सहकारीकारणेन युक्‍त: सन् विविधप्रकारेण अवान्‍तरकार्याणाम् उत्‍पादक: भवति । इदं फलसिद्धे: प्रथमकारणं मन्‍यते । यथा - रत्‍नावल्‍यां अनुकूलदैवेन अनुमोदित: यौगन्‍धरायणस्‍य क्रिया बीजम् रत्‍नावल्‍या: प्राप्ति: तस्‍य फलं चास्ति ।


इति

अर्थप्रकृति:

चित्र
बीजं बिन्‍दु: पताका च प्रकरी कार्यमेव च अर्थप्रकृतय: पंच ज्ञात्‍वा योज्‍या यथाविधि ।। ।।साहित्‍यदर्पण 6/64।। अर्थस्‍य (प्रयोजनस्‍य) सिद्धौ कारणभूततत्‍वानि अर्थप्रकृति इति कथ्‍यन्‍ते । एता: अर्थप्रकृतय: पंच सन्ति ।
बीज बिन्‍दु पताका प्रकरी कार्य सम्‍यकतया विज्ञाय एव एतेषां प्रयोग: करणीय: ।।

इति

अंकमुखम्

चित्र
यत्र स्‍यादंक एकस्मिन्नड्.कानां सूचना*खिला तदड्.कमुखमित्‍याहुर्बीजार्थख्‍यापकं च तत् ।। ।।साहित्‍यदर्पण 6/59-60।। यत्र एकस्मिन् एंके एव सर्वेषाम् अंकानां सर्वा: सूचना: दीयन्‍ते अथ च यत् बीजभूतार्थस्‍य सूचकं भवतु तदंकमुखमिति कथ्‍यते । यथा मालतीमाधवे प्रथमांकस्‍य प्रारम्‍भे एव कामन्‍दकी-अवलोकिता च अग्रिमांकस्‍य सर्वा: सूचना: दत्‍तवत्‍यौ ।


इति

अंकावतार:

चित्र
अंकान्‍ते सूचित: पात्रैस्‍तदंकस्‍याविभागत: । यत्रांको*वतरत्‍येषो*ड्.कावतार इति स्‍मृत: ।। ।।साहित्‍यदर्पण 6/58-59।। पूर्वांकस्‍य अन्ते तस्‍यैवांकस्‍य पात्रै: सूचित: अग्रिमे अवतीर्ण: अंक: अंकावतार: कथ्‍यते । यथा - अभिज्ञानशाकुन्‍तलनाटके पंचमाकंस्‍यान्‍ते तस्‍यांकस्‍य पात्रै: सूचित: षष्‍ठांक: अविभक्‍तरूपेण अवतीर्ण: ।

इति

चूलिका

चित्र
अन्‍तर्जवनिकासंस्‍थै: सूचनार्थस्‍य चूलिका ।। जवनिकायां स्थितपात्रै: कृता वस्‍तुविशेषस्‍य सूचना 'चूलिका' इति कथ्‍यते । यथा - महावीरचरिते नेपथ्‍ये ''भो भो वैमानिका:, प्रवर्तन्‍तां रंगमंगलानि'' द्वारा इदं सूचितं यत् रामेण परशुराम: जित: ।


इति

प्रवेशक:

चित्र
प्रवेशको*नुदात्‍तोक्‍त्‍या नीचपात्रप्रयोजित: अंकस्‍यान्‍तर्विज्ञेय: शेषं विष्‍कम्‍भके यथा ।। ।।साहित्‍यदर्पण 6/57।। प्रवेशकस्‍य प्रयोग: निम्‍नपात्रै: कार्यते । अस्मिन् उक्‍तय: उदात्‍त न भवन्ति अर्थात् अयं संस्‍कृतभाषाया: अतिरिक्‍तम् इत्‍युक्‍ते प्राकृतादिभाषायां सामान्‍यविधा कस्‍यचित् निम्‍नपात्रद्वारा क्रियते । अस्‍य प्रयोग: सदैव द्वयो: अंकयो: मध्‍ये एव भवति । प्रथमांके अस्‍य प्रयोग: नैव भवति । अन्‍यत् सर्वं विष्‍कम्‍भक इव भवति । यथा - वेणीसंहारनाटके तृतीयचतुर्थअंकयो: मध्‍ये राक्षसयुगलद्वारा सिन्‍धुराजवधं तथा च भावीदु:शासनवधस्‍य सूचना ।


इति

विष्‍कम्‍भक:

चित्र
वृत्‍तवर्तिष्‍यमाणानां कथांशानां निदर्शक: । संक्षिप्‍तार्थस्‍तु विष्‍कम्‍भ आदावंकस्‍य दर्शित: ।। मध्‍येन मध्‍यमाभ्‍यां वा पात्राभ्‍यां संप्रयोजित: । शुद्ध: स्‍यात् स तु संकीर्णो नीचमध्‍यमकल्पित: ।। ।।साहित्‍यदर्पण 6/55-56।। भूत-भविष्‍यकालस्‍य कथानां सूचक:, कथानां संक्षेपक:, अंकस्‍यारम्‍भे च प्रयुक्‍त: अर्थोपक्षेपक: 'विष्‍कम्‍भक' इति ज्ञायते । शुद्ध:, मिश्र: च भेदयो: द्विधैष: ।
1- यदा कश्चिदेकं मध्‍यमपात्रम् , मध्‍यमपात्रद्वयं वा अस्‍य प्रयोगं करोति चत् शुद्धविष्‍कम्‍भक इति कथ्‍यते । यथा मालतीमाधवम् नाटके पंचमअंकस्‍य प्रारम्‍भे कपालकुण्‍डला द्वारा प्रयोग: ।
2- यदा निम्‍न-मध्‍यमपात्रयो: द्वारा अयं प्रयुज्‍यते चेत् संकीर्ण उत मिश्रविष्‍कम्‍भक: निगद्यते । यथा रामाभिनन्‍दने क्षपणक: कापालिकश्‍च ।।


इति

अर्थोपक्षेपक: ।।

चित्र
अंकेष्‍वदर्शनीया या वक्‍तव्‍यैव च संमता । या च स्‍याद्वर्षपर्यन्‍तं कथा दिनद्वयादिजा ।। अन्‍या च विस्‍तरा सूच्‍या सार्थोपक्षेपकैर्बुधै: । ।।साहित्‍यदर्पण 6/51-52 ।। दूराह्वानं, वधं, विवाहादि या कथा अंके दर्षयितुं योग्‍य: न भवति किन्‍तु तस्‍य ज्ञानं (दर्शकानां) आवश्‍यकं भवति तथा या कथा दिनद्वयात् वर्षपर्यन्‍तं  निर्वाह्यं भवति, अत्‍यन्‍तं विस्‍तृतं वा च भवति तेषां सूचनार्थं वाक्‍यविशिष्‍टा: अर्थोपक्षेपक: कथ्‍यते । अर्थात् अर्थोपक्षेपकेन उपर्युक्‍त-अदर्शनीयानां विषयानां सूचना दीयात् । अस्‍य पंचभेदा: - विष्‍कम्‍भक, प्रवेशक, चूलिका, अंकावतार:, अंकमुखम् च ।

इति

कारक-विभक्तिज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

चित्र
पूर्वलेखेषु कारक-विभक्तिज्ञानं निगदितमस्ति पूर्वमेव । किन्‍तु अत्र प्रशिक्षणलेखस्‍यावश्‍यकतानुसारं पुन: अत्र तस्‍य सरलप्रस्‍तुति: क्रियते ।

कारकं किम् ॽ -क्रियान्वयित्‍वं कारकत्‍वम् ।
क्रियान्‍वयित्‍वम् इत्‍युक्‍ते क्रियया सामीप्‍यम्, साक्षात् सम्‍बन्‍ध: वा ॽ

अर्थात् क्रियया सह साक्षात् सम्‍बन्‍ध: भवति यस्‍य तत् कारकम् उच्‍यते ।
एतस्‍यानुसारं कारकाणि संस्‍कृतभाषायां षड् (६) एव ।


कारकाणिकर्ताकर्म करणम् सम्‍प्रदानम्अपादानम्सम्‍बन्‍ध: अधिकरणम् सम्‍बोधनम् विभक्ति:प्रथमाद्वितीयातृतीयाचतुर्थीपंचमीषष्‍ठीसप्‍तमीसम्‍बोधनम्चिह्नम्ने कोसे, केद्वाराके लियेसे (अलग होने के अर्थ में) का/की/केमें/परहे/अरेप्रयोग:
त्रिषु लिंगेषु राम:/रमा/पुस्‍तकंरामं/रमां/पुस्‍तकंरामेण/रमया/पुस्‍तकेनरामाय/रमायै/पुस्‍तकायरामात्/रमाया:/पुस्‍तकात्रामस्‍य/रमाया:/पुस्‍तकस्‍यरामे/रमायां/पुस्‍तकेहे राम ǃ/ हे रमा ǃवाक्‍यप्रयोग:राम: गच्‍छतिपुस्‍तकं पठतु यानेन गच्छतुबालकाय धनं ददातुवृक्षात् फलं प‍ततिरामस्‍य पुस्‍तकम्गृहे परिवार: वसतिहे राम ǃ
उपरिदत्‍तकोष्‍ठेषु सर्वेषां कारकाणां तेषां विभक्‍त्‍या सह प्रस्‍तुति:, वाक्‍यप्रयोग: च कृत…

पताकास्‍थानकम्

चित्र
यत्रार्थे चिन्तिते*न्‍यस्मिस्‍तल्लिंगो*न्‍य: प्रयुज्‍यते । आगन्‍तुकेन भावेन पताकास्‍थानकं तु तत् ।। ।।साहित्‍यदर्पण 6/45।।    यत्र प्रयोगकर्तु भाव: तु अन्‍यत्‍भवेत् किन्‍तु सादृश्‍यकारणात् अन्‍यस्‍य अतर्कितभावस्‍य प्रस्‍तुति: प्रयुक्ति: वा च भवेत् तत् पताकास्‍थानकम् कथ्‍यते ।
--- (पताकावत् नाट्यस्‍य प्रसिद्ध्‍युत्‍पादकत्‍वात् तादृशबन्‍धो*पि पताकास्‍थानकम्) ।नाट्यकथावस्‍तौ पताकास्‍थानकस्‍य प्रयोग: सम्‍यकतया विचिन्‍त्‍य एव करणीय: भवति । अस्‍य चत्‍वार: प्रमुखभेदा: निम्‍नोक्‍तास्‍सन्ति ।--

प्रथमपताकास्‍थानकम् - यत्र अकस्‍मात् प्रीतिअनुकूलव्‍यापार: भूते सति परमप्रीतिकारीप्रयोजनसिद्धि: भवतु तत् प्रथमपताकास्‍थानकम् ।। द्वितीयपताकास्‍थानकम् - अत्‍यन्‍तश्लिश्‍टार्थबोधकानेकशब्‍दै: युक्‍ता: विविधविधारचनया विशिष्‍टम् द्वितीयपताकास्‍थानकम् । तृतीयपताकास्‍थानकम् - यत् अन्‍यार्थस्‍य उपक्षेपकं, अव्‍यक्तार्थस्‍य निश्चित, श्लिष्‍ट, प्रत्‍युत्‍तरै: च युक्‍तं वचनं स्‍यात् तत् तृतीयपताकास्‍थानकम् । चतुर्थपताकास्‍थानकम् - यत्र सुन्‍दरश्लिष्‍टद्वयर्थकवचनविन्‍यास: भवतु तथा येन प्रधानार्थस्‍य सूचन…

प्रासंगिक कथावस्‍तु:

चित्र
''अस्‍योपकरणार्थं तु प्रासंगिकमितीष्‍यते ।।''
   आधिकारिककथावस्‍तो: सहायतार्थं प्रसंगप्राप्‍ता कथावस्‍तु: प्रासंगिककथावस्‍तु: कथ्‍यते । यथा सुग्रीवादे: चरित्रं प्रासंगिककथावस्‍तु: अस्ति रामचरितसहायकत्‍वात् ।


इति

आधिकारिक कथावस्‍तु:

चित्र
अधिकार: फले स्‍वाम्‍यमधिकारी च तत्‍प्रभु: । तस्‍येतिवृत्‍तं कविभिराधिकारिकमुच्‍यते ।। ।।साहित्‍यदर्पण 6/43।। नाटकस्‍य प्रधानफलस्‍य स्‍वामित्‍वमेव अधिकार: कथ्‍यते तस्‍य फलस्‍य च स्‍वामी अधिकारी इति कथ्‍यते । तस्‍य अधिकारे: कथावस्‍तु: एव आधिकारिककथावस्‍तु: कथ्‍यते । यथा राजशेखरकृत 'बालरामायणे' नाटके श्रीरामचन्‍द्र: रावणवधरूपीफलस्‍य स्‍वामी अस्ति अत: तस्‍य जीवनचरित्रमेव आधिकारिककथावस्‍तु: अस्ति ।


इति

कथावस्‍तु:

चित्र
इदं पुनर्वस्‍तु बुधैद्विविधं परिकल्‍प्‍यते । आधिकारिकमेकं स्‍यात्‍प्रासंगिकमथापरम् ।। ।।साहित्‍यदर्पण 6/42।।
नाटकस्‍य कथाभेद: एव तस्‍य कथावस्‍तु: । इयमेव कथा, इतिवृत्‍त चापि नामै: ज्ञायते । अस्‍य द्वौ प्रकारौ स्‍त: । 1 आधिकारिक कथावस्‍तु:  2 प्रासंगिक कथावस्‍तु: । एतयो: आधिकारिककथावस्‍तु: मूलकथा भवति । प्रासंगिककथावस्‍तु: गौण भवति ।


इति

आरभटीवृत्ति:

चित्र
मायेन्‍द्रजाल-संग्राम-क्रोधोद्भ्रान्तादि-चेष्टितै: । संयुक्‍ता वधबन्‍धाद्यैरुद्धतारभटी मता ।। ।।साहित्‍यदर्पण 6/132-133।।     माया, इन्‍द्रजालं, संग्राम:, क्रोध:, उद्भ्रान्‍तचेष्‍टा:, वध:, बन्‍धनादिकै: च संयुक्‍त: उद्धतावृत्ति: आरभटीवृत्ति: कथ्‍यते । वस्‍तूत्‍थापन, सम्‍फेट, संक्षिप्ति, अवपातन च भेदै: इयमपि चतुर्धा एव ।


इति

सात्‍वतीवृत्ति:

चित्र
सात्‍वतीबहुला सत्‍व-शौर्य-त्‍याग-दयार्जवै: सहर्षा क्षुद्रश्रृंगारा विशोका साद्भुता तथा ।। ।।साहित्‍यदर्पण 6/128-129।।
    सत्‍वं, शौर्यं, दानं, दया, सारल्‍यं, हर्षै: च युक्‍ता, यत्किंचित् श्रृंगारयुक्‍ता च शोकरहिता अद्भुतरसयुक्‍ता वृत्ति: सात्‍वतीवृत्ति: इति कथ्‍यते । उत्‍थापक, सांघात्‍यक, संलाप तथा परिवर्तक भेदै: चतुर्धा इयमपि ।।


इति

कैशिकीवृत्ति

चित्र
या श्‍लक्ष्‍ण-नेपथ्‍य-विशेषचित्रा स्‍त्रीसंकुला पुष्‍कलनृत्‍यगीता । कामोपभोगप्रभवोपचारा सा कैशिकी चारुविलासयुक्‍ता ।। ।।साहित्‍यदर्पण 6/124।।
    य: मनोरंजकेन नेपथ्‍येन विशिष्‍टचमत्‍कारयुक्‍त: भवतु, स्‍त्रीगणै: व्‍याप्‍त: नृत्‍यगीतादे: परिपूर्णं भवतु, तथा च यस्‍योपचार: कामसुखोपभोगानामुत्‍पादक: भवतु (यस्‍य अंगै: श्रृंगाररसस्‍याभिव्‍यक्‍ति: भवतु) सा रमणीयविलासै: युक्‍ता वृत्ति: कैशिकी इति अभिधीयते । नर्म, नर्मस्‍फूर्ज, नर्मस्‍फोट , नर्मगर्भ च भेदै: सा चतुर्धा भवति ।


इति

अव‍लगितम्

चित्र
यत्रैकत्र समावेशात् कार्यमन्‍यत्‍प्रसाध्‍यते । प्रयोगे खलु तज्‍ज्ञेयं नाम्‍नावलगितं बुधै: ।। ।।साहित्‍यदर्पण 6/38 ।।
यत्र कस्मिश्चित् प्रयोगे सादृश्‍यादिद्वारा-समावेश्‍य कस्‍यचित् पात्रस्‍य अन्‍यकार्यसिद्धि: क्रियते चेत् तत् 'अवलगितम्' इति उच्‍यते ।


इति

प्रवर्तक:

चित्र
कालं प्रवृत्‍तमाश्रित्‍य सूत्रधृग्‍यत्र वर्णयेत् तदाश्रयश्‍च पात्रस्‍य प्रवेशस्‍तत्‍प्रवर्तकम् ।। ।।साहित्‍यदर्पण 6/37।।। यत्र सूत्रधार: प्रसंगप्राप्‍तऋतुइत्‍यदयस्‍य वर्णनं करोति तस्‍य च आश्रयं स्‍वीकृत्‍य पात्रस्‍य प्रवेश: भवतु तत् 'प्रवर्तकम्' कथ्‍यते ।


इति

प्रयोगातिशय:

चित्र
यदि प्रयोगे एकस्मिन् प्रयोगो*न्‍य: प्रयुज्‍यते । तेन पात्रप्रवेशश्‍चेत् प्रयोगातिशयस्‍तदा ।। ।।साहित्‍यदर्पण 6/36 ।।
यदि कस्मिश्चित् प्रयोगे  अन्‍यस्‍य प्रयोगस्‍य योजना भवेत् तेनेव द्वारा पात्रप्रवेश: भवति चेत् स: अतिशयप्रयोग: एव प्रयोगातिशय इति कथ्‍यते ।।


इति

कथोद्घात: ।।

चित्र
सूत्रधारस्‍य वाकयं वा समादायार्थमस्‍य वा भवेत्‍पात्रप्रवेशश्‍चेत् कथोद्घात: स उच्यते ।। ।। साहित्‍यदर्पण 6/35 ।।
यत्र सूत्रधारस्‍य वाक्‍यं वाक्‍यार्थं वा गृहीत्‍वा कंचित् पात्रं रंगमंचे प्रविशेत् तत्र 'कथोद्घात' इति कथ्‍यते ।।


इति

जालजगति संस्‍कृतसम्‍बन्धि अन्‍वेषणं कथं कुर्यात्

चित्र
मित्राणि
भवतां बहव्‍य: समस्‍या: भवन्ति प्रायेण संस्‍कृतविषयाधिकृत्‍य यत् भवन्‍त: जालजगति अन्‍वेष्‍य अन्‍वेष्‍य आकुलीभवन्ति । किन्‍तु ता: समस्‍या: तासाम् समाधानानि च प्रायेण नैव प्राप्‍यते उत भ्रामकं समाधानं प्राप्‍यते, यतोहि जालजगति सर्वं तु अन्‍वेष्‍टुं शक्‍यं नैव अस्ति । अत: सम्‍प्रति यदि भवन्‍त: कमपि विषयम् अन्‍वेष्‍टुमिच्‍छन्ति चेत् निम्‍नरीत्‍या अन्विषन्‍तु । अनेन भवान् संस्‍कृतजगत: तस्‍य समाधानं प्राप्‍स्‍यति यदि संस्‍कृतजगति स: विषय: भवेत् । पुनश्‍च प्रायेण सर्वे विषया: ये आवश्‍यका: सन्ति ते संस्‍कृतजगति विराजन्‍ते एव । न सन्ति चेत् भविष्‍ये निश्‍चयेन भविष्‍यन्ति इति ।

एवं विधा भवता अन्‍वेष्‍ट: विषय: साक्षात् समाधानरूपेण भवत: सम्‍मुखं भविष्‍यन्ति । भवतां धनस्‍य समयस्‍यापि च रक्षणं भविष्‍यति । अन्‍यत् - य: विषय: संस्‍कृतजगति न प्राप्‍यते तस्‍य विषये अस्‍मान् सूचयन्‍तु कृपया । येन सद्यैव वयं तस्‍य विषयस्‍य प्रकाशनं कृत्‍वा संस्‍कृतजिज्ञासूनां सहायका: भवाम: । 

भवदीय:
डॉ. विवेकानन्‍द पाण्‍डेय:
संस्‍कृतजगत्

इति

उद्घातक: ।।

चित्र
पदानि त्‍वगतार्थानि तदर्थगतये नरा:  योजयन्ति पदैरन्‍यै: स उद्घातक उच्‍यते ।।  ।। साहित्‍यदर्पण 6/34 ।।
अप्रतीतार्थकपदानाम् अर्थप्रतीत्‍यर्थं यत्र तेन सहैव अन्‍यानि पदानि अपि योज्‍यन्‍ते तद् ''उद्घातक:' इति कथ्‍यते ।।


इति

लिंग-वचन-पुरुषज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

चित्र
मित्राणि
गताध्‍याये वयं वाक्‍यविषये संक्षेपेण अपठाम । सम्‍प्रति आवश्‍यकमस्ति यत् लिंग-वचन-पुरुषस्‍यापि ज्ञानं भवेत् । संस्‍कृतलेखने वाचने च सर्वाधिकत्रुटि: एतेषां कारणादेव भवति । निश्‍चयेन वाक्‍यनिर्माणे एते तु महदावश्‍यकविषया: सन्ति । एतेषां ज्ञानम् अल्‍पप्रयासेन एव भवति किन्‍तु तथापि एतेषां प्रति जनानां मस्तिष्‍के भयं भवति । अस्मिन् अध्‍याये वयं सरलविधिद्वारा एतेषां सम्‍यक् ज्ञानं प्राप्‍स्‍याम: ।

लिंगम्  :-

संस्‍कृते लिंगानि त्रीणि भवन्ति । अन्‍यासु भाषासु अपि प्रायेण त्रीणि एव भवन्ति, किन्‍तु संस्‍कृतस्‍य लिंगपरम्‍परा अन्‍यभाषासु नैव विद्यते । प्रायेण सर्वासु भाषासु पुरुषवर्ग: (मानवेषु) पुल्लिंगं,  स्‍त्रीवर्ग: स्‍त्रीलिंगं, वस्‍तूनि च नपुंसकलिंगमिति भवति । किन्‍तु संस्‍कृते तथा नास्ति । अत्र स्‍त्रीपुरुषाभ्‍याम् आशय: केवलं स्‍त्रीलिंगपुलिंगयो: एव नास्ति । वस्‍तुषु अपि स्‍त्रीपुरुषलिंगे भवत: । नपुंसकलिंगस्‍यापि वस्‍तुषु एव बाध्‍यता नास्ति ।
एवं विधा वक्‍तुं शक्‍यते यत् संस्‍कृतस्‍य लिंगानि नाम-आधारितानि भवन्ति । अन्‍येषां तु जाति-आधारितम् । इति

शब्‍द-वाक्‍यज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

चित्र
गताध्‍याये वयं संस्‍कृतस्‍य वर्णमालां ज्ञातवन्‍त: । वर्णमालायां अक्षराणि भवन्ति । ते स्‍वरव्‍यंजनभेदयो: द्विधा भवन्ति । पुनश्‍च तत्र लघु, दीर्घ, प्‍लुतादि भेदा: भवन्ति । अनन्‍तरं तेषां उदात्‍तानुदात्‍तस्‍वरितभेदा:, उच्‍चारणस्‍थानानि, प्रयत्‍ना: (आभ्‍यन्‍तरबाह्यश्‍च) आदि भवन्ति येषां वर्णनम् अस्‍माकं अभीष्‍टं नास्ति एव । अस्‍माकं तु अभीष्‍टं केवलं सरलतया संस्‍कृतलेखनं, सम्‍भाषणं च आगच्‍छेत् तावदेव अस्ति । अत: अत्र विषयविस्‍तार: भाषाध्‍वनिविज्ञानयो: अकृत्‍वा एव साक्षात् अग्रे चलाम: ।
तथापि यदि कश्चित् उपर्युक्‍तान् विषयान् पठितुमिच्‍छति एव चेत् स: अत्र अन्‍वेषणमंजूषायाम् अन्विष्‍य पठितुं शक्‍नोति ।

अद्य वयं पठिष्‍याम: यत् शब्‍द: क: ॽ किं वाक्‍यम् च इति ॽ

शब्‍द: -
स्‍वरव्‍यंजनयो: मिश्रणे निर्मित: कश्चित् वर्णसमूह: यस्‍य कश्चित् विशिष्‍ट: अर्थ: चापि भवेत् 'शब्‍द:' इति अभ‍िधीयते । उदाहरणार्थं - राम शब्‍दे र्+आ+म्+अ वर्णानां योजना अस्ति । पुनश्च रामशब्दस्य अर्थः यः सर्वत्र रमते सः । एवमेव स्वरव्यंजनयोः संयोगेन निर्मितः वर्णसमूहः शब्दः इति कथ्यते ।
सम्प्रति प्रश्‍न: आगच्‍छति यत् यदि…

वर्णमालाज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

चित्र
वर्णमाला इत्‍युक्‍ते वर्णानां क्रम: । सर्वाषु भाषासु वर्णमाला भवत्‍येव । वर्णमालाया: उपरि एव भाषा: आधारिता: भवन्ति । संस्‍कृतस्‍य तु वर्णमाला नितान्‍तवै‍ज्ञानिकी अस्ति । अस्‍या: वर्णमालायां यावान् अपि वर्णा: सन्ति ते नैव कल्पिता:, अनर्थका: वा । ते सर्वे तु विशिष्‍टध्‍वनय: सन्ति । एतेषां विस्‍तृतवर्णनं अग्रे करिष्‍यते ।
       संस्‍कृतवर्णमाला स्‍वरव्‍यंजनभेदयो: द्विधा ।
स्‍वरा:  अ आ इ ई उ ऊ ऋ ऋृ  लृ ए ऐ ओ औ अं अ: 
(हिन्‍दीभाषायामपि एते एव स्‍वरा: सन्ति किन्‍तु तत्र लृ तु नास्‍त्‍येव) 
अष्‍टाध्‍यायी अनुसारेण संस्‍कृतभाषायां नव स्‍वरा: केवलं -  अ इ उ ऋ लृ ए ओ ऐ औ (अइउण्, ऋलृक्, एओड्., एेऔच्)
अस्‍यैव अन्‍ये भेदा: लघु, दीर्घ, प्‍लुतत्‍वात् ।


व्‍यञ्जनानि 

कवर्ग: - क् ख् ग् घ् ड्.
चवर्ग: - च् छ् ज् झ् ञ्
टवर्ग: - ट् ठ् ड् ढ् ण्                ---- उदिता:
तवर्ग: - त् थ् द् ध् न्
पवर्ग: - प् फ् ब् भ् म्
अन्‍तस्‍था: - य् र् ल् व्                ---- अन्‍तस्‍था:
उष्‍माण: - श् ष् स् ह्                ---- उष्‍माण: 

अवधेयम् - 

लृ वर्ण: अन्यभाषासु (हिन्‍द्यामपि) नैव प्राप्‍यते । अ इ उ ऋ लृ - …

आमुखम् ।।

चित्र
नटी विदूषको वापि पारिपाश्विक एव वा । सूत्रधारेण सहिता: संलापं यत्र कुर्वते ।। चित्रैर्वाक्यै: स्‍वकार्योत्‍थै: प्रस्‍तुताक्षेपिभिर्मिथ: । आमुखं तत्‍तु विज्ञेयं नाम्‍ना प्रस्‍तावना*पि सा ।। ।।साहित्‍यदर्पण 6/31, 32।।
यत्र नटी, विदूषक: पारिपाश्विक: वा सूत्रधारेण सह विचित्रवाक्‍यै: तथा वार्तां कुर्वन्‍तु येन् नाट्यवस्‍तुन: कथा सूचिता भवेत् तद् आमुखं कथ्‍यते । इमं प्रस्‍तावना अपि कथ्‍यते । अस्‍य पंचभेदा: सन्ति । -

उद्घातक:कथोद्घात:प्रयोगातिशय: प्रवर्तक: अवलगित:  
(सूत्रधारेण सहैव य: तिष्‍ठति प्रायेण स: एव पारिपार्श्विक: )

इति

प्रहसनम् ।।

चित्र
भाणवत्‍सन्धिसन्‍ध्‍यंगलास्‍यांगाड्.कैर्विनिर्मितम् ।  भवेत्‍प्रहसनं वृत्‍तं निन्‍द्यानां कविकल्पितम् ।।  ।।साहित्‍यदर्पण 6/264।। 
'भाण'सदृशं यत्र सन्धि:, सन्‍ध्‍यंगम्, लास्‍यांगं, भवति अथ च अंकद्वारासंपादित‍निन्‍दनीयपुरुषाणां कविकल्पितवृत्‍तान्‍तं भवति तत् प्रहसनमिति कथ्‍यते । अस्मिन् आरभटी, विष्‍कम्‍भक, प्रवेशकस्‍य चाभाव: भवति । हास्‍य रसस्‍य च प्रधानता भवति ।।

इति

वीथी ।।

चित्र
 वीथ्‍यामेको भवेदड्.क: कश्चिदेकोत्र कल्‍प्‍यते ।  आकाशभाषितैरुक्‍तैश्चित्रां प्रत्‍युक्तिमाश्रित: ।।  सूचयेद्भूरिश्रृंगारं किंचिदन्‍यान् रसान्‍प्रति ।  मुखनिर्वहणे सन्‍धी अर्थप्रकृतयो*खिला: ।।  ।।साहित्‍यदर्पण 6/253, 254।।
वीथी एकस्‍य अंकस्‍य एव रूपकं भवति । पुरुषनायक: भवति, आकाशभाषितमाध्‍यमेन विचित्रोक्ति: प्रयुक्तिश्‍च भवति । श्रृंगाररसस्‍य प्रामुख्‍यं भवति सहैव अन्‍ये रसा: अपि भवन्ति । अत्र सन्धिषु केवलं मुखसन्धि:, निर्वहणसन्धिश्‍च भवति किन्‍तु अर्थप्रकृतय: सर्वा: भवन्ति ।।

इति

प्ररोचना ।।

चित्र
प्रशंसात: प्ररोचना ।।
प्रशंसाद्वारा श्रोतृणां ध्‍यानं प्रकृत-वस्‍तुं प्रति आकर्षणमेव प्ररोचना अस्ति ।
यथा रत्‍नावलीनाटिकायां -

''श्रीहर्षो निपुण: कवि:, परिषदप्‍येषा गुणग्राहिणी । 
लोके हारि च वत्‍सराजचरितं, नाट्ये च दक्षा वयम् ।।''


इति

भारतीवृत्ति: ।।

चित्र
भारती संस्‍कृतप्रायो वाग्‍व्‍यापारो नराश्रय:  ।।साहित्‍यदर्पण 6/39।। 
संस्‍कृतबहुलव्‍यापार: य: पुरुषस्‍याश्रित: स्‍यात् न तु महिलाया: सा वृत्ति: भारती इति कथ्‍यते ।
अाचार्यभरतस्‍य शब्‍देषु -
या वाक्‍प्रधाना पुरुषोपयोज्‍या स्‍त्रीवर्जिता संस्‍कृतवाक्‍ययुक्‍ता ।  स्‍वनामधेयैर्भरतै: प्रयुक्‍ता सा भारती नाम भवेत्‍तु वृत्ति: ।।
     अस्‍या: वृत्‍ते: भेदचतुष्‍टय: भवति ।
प्ररोचना वीथी प्रहसन आमुख: च
इति

नाट्यवृत्ति: ।।

चित्र
श्रृंगारे कैशिीकी, वीरे सात्‍वत्‍यारभटी पुन: ।  रसे रौद्रे च वीभत्‍से, वृत्ति: सर्वत्र भारती ।।  चतस्रो वृत्‍तयो ह्येता:, सर्वनाट्यस्‍य मातृका: ।  स्‍युर्नायकादिव्‍यापार विशेषा नाटकादिषु ।।  ।।साहित्‍यदर्पण 6/122,123।।
नायकनायिकादीनां व्‍यापारविशिष्‍टम् एव नाटके वृत्ति: इति कथ्‍यते । श्रृंगाररसे मुख्‍यत: 'कैशिकी' वृत्ति: भवति, वीर,रौद्र,वीभत्‍सरसेषु 'सात्‍वती'वृत्ति: 'आरभटी'वृत्तिश्‍च उपयुक्‍ता भवति । किन्‍तु 'भारती' वृत्ति: सर्वत्र योज्‍यते । एता: चतस्र: वृत्‍तय: सम्‍पूणस्‍य नाटकस्‍य उपजीव्‍यं भवन्ति । 

इति

जनान्तिकम् ।।

चित्र
त्रिपताक-करेणान्‍यानपर्वायान्‍तरा कथाम्  अन्‍योन्‍यामन्‍त्रणं यत्‍स्‍यात्‍तज्‍जनान्‍ते जनान्तिकम् ।।  ।।साहित्‍यदर्पण 6/139।।
अभिनयस्‍य अनन्‍तरं एव रंगमंचे यदा केनचित् कामपि वार्तां निमीलितुं भवति पुनश्‍च अपरं प्रति तदेव कर्णे वक्‍तव्‍यं भवति चेत् वक्‍ता (यस्‍मै वार्तां न श्रावितुमस्ति तस्‍य पुरत:) त्रिपताकं कृत्‍वा अपरस्‍य कर्णे मुखं दत्‍वा किमपि वदति, इत्‍येव जनान्तिकमिति कथ्‍यते ।

इति

आकाशभाषितम् ।।

चित्र
किं ब्रवीष्‍येवमित्‍यादि विना पात्रं ब्रवीति यत् ।
श्रुत्‍वेवानुक्‍तमप्‍येकस्‍तत् स्‍यादाकाशभाषितम् ।।

नायकस्‍य तत् कथन-विशिष्‍टं यत् स: आकाशं पश्‍यन् (आकाश की ओर देखते हुए) करोति, स: प्रश्‍नं तथा करोति यत् एवं भाति यत् स: प्रश्‍न: तं प्रति एव पृष्‍ट: स्‍यात् पुनश्‍च स्‍वयमेव तस्‍य उत्‍तरम् अपि ददाति । सम्‍भाषणस्‍य इयं प्रक्रिया आकाशभाषितमिति कथ्‍यते ।।

इति

अपवारितम् ।।

चित्र
रहस्‍यं कथ्‍यते*न्‍यस्‍य परावृत्‍या*पवारितम् ।।  ।।दशरूपकम्।। 
या वार्ता केभ्‍य: पात्रेभ्‍य:, पात्रविशेषात् व अपवार्य (छिपाकर, हटाकर) अन्‍यपात्राणां सम्‍मुखं उच्‍यते चेत् सम्‍भाषणस्‍य इयं प्रक्रिया 'अपवारितम्' इति कथ्‍यते ।

इति

प्रकाशम् ।।

चित्र
सर्वश्राव्‍यं प्रकाशं स्‍यात्  ।।दशरूपकम्।।
या: वार्ता: सर्वान् श्रावयितुं, सर्वान् श्रावयित्‍वा वा कथ्‍यते सा वार्ता प्रकाशमिति कथ्‍यते । एवं विधा प्रकाशं तु कस्‍यचिदपि पात्रस्‍य विचाराणां प्रदर्शनं सार्वजनिकरूपेण अस्ति ।

इति

माहेश्‍वरसूत्राणि - संस्‍कृतप्रशिक्षणम् ।।

चित्र
मित्राणि
      माहेश्‍वरसूत्राणि संस्‍कृतजगति पूर्वमेव प्रकाशितानि सन्धि द्विधा किन्‍तु सम्‍प्रति पुन: प्रकाश्‍यते । यत: हि संस्‍कृतप्रशिक्षणस्‍य अस्मिन् नूतने संस्‍करणे एक: नूतनक्रम: चिन्तित: अस्ति । तेन एव क्रमेण क्रमश: एकं एकं पाठम् अत्र प्रकाशयाम: । भवद्भि: निवेदनमस्ति यत् प्रत्‍येकस्‍य पाठस्‍य अभ्‍यास: सम्‍यकतया अवश्‍यमेव करणीय: । प्रत्‍येकस्‍य पाठस्‍य वैशिष्‍ट्यमस्ति अत्र । यदि एकमपि पाठं त्‍यक्‍तं चेत् श्रृखला भंगा भविष्‍यति प्रशिक्षणे च काठिन्‍यमिति । अत्र वयं सरलसंस्‍कृतं लिखाम: येन सुकुमारबुद्धय: जना: अपि सम्‍यकतया अवगच्‍छेय: । मध्‍ये हिन्‍दीभाषायां कठिनशब्‍दानामर्थ: अपि दास्‍यते ।

।। अथ संस्‍कृतसम्‍भाषणलेखनप्रशिक्षणम् ।।
श्रीमाहेश्‍वरसूत्रम्
अइउण् ऋलृक् एओड्. ऐऔच् हयवरट् लण् ञमड.णनम् झभञ्घढधष् जबगडदश् खफछठथचटतव् कपय् शषसर् हल्
माहेश्‍वरसूत्रस्‍य अपरं नाम शिवसूत्रम‍पि अस्ति । एतानि सूत्राणि अन्‍यत् किमपि न सन्ति किन्‍तु अस्‍माकं वर्णमाला इत्‍यस्ति । किन्‍तु अस्‍य स्‍वरूपं तथा निर्मितमस्ति येन अनेन प्रत्‍याहारनिर्माणं भवेत् । प्रत्‍याहार किमिति अग्रे पठाम: । एतानि सूत्रा…

संस्‍कृतसम्‍भाषणप्रशिक्षण सूचना ।।

चित्र
मित्राणि
    संस्‍कृतजगति सम्‍प्रति नूतनं प्रशिक्षणमारभ्‍यते । इदं प्रशिक्षणं नूतनप्रक्रियया परिचाल्‍यते येन भवन्‍त: सरलतया, सम्‍यकतया च संस्‍कृतस्‍य लेखनं, वाचनं च अवगन्‍तुं शक्‍नुयु: । अस्मिन् प्रशिक्षणे ये जना: संस्‍कृतस्‍य किमपि न जानन्ति तेषामपि ध्‍यानं दास्‍यते । अतएव इदं प्रशिक्षणं मन्‍ये लघुबालप्रशिक्षणवत् भविष्‍यति ।
    ये जना: संस्‍कृतभाषायां सिद्धा: सन्ति ते अपि अत्र योगदानं दातुं शक्‍नुवन्ति । ते स्‍वलेखान् publish@sanskritjagat.com ईसंकेते प्रेषयन्‍तु । लेखस्‍य विषयनिरीक्षणं कृत्‍वा प्रकाशिष्‍यते ।

अस्‍या: प्रशिक्षणकक्ष्‍याया: विशेषता निम्‍नोक्‍ता वर्तते । --
प्रशिक्षणं नूतनरीत्‍या प्रदास्‍यते येन न्‍यूनसमये एव अधिकं ज्ञानं भवेत् । प्र‍शिक्षणं क्रमश: प्रकाशिष्‍यते येन ज्ञानस्‍य क्रमभंग: न भवेत् । सरलउदाहरणानि अपि दीयन्‍ते । गृहकार्यमपि दास्‍यते येन भवतां ज्ञानस्‍य पुष्टिप्रमाणं मिलेत् । एकस्‍य एकस्‍य विषयस्‍य उपस्‍थापनं भविष्‍यति । प्रशिक्षणं बालस्‍तरस्‍य भविष्‍यति येन भाव्‍यम् यदि कोपि संस्‍कृते किमपि न जानाति सोपि संस्‍कृतं वक्‍तुं लेखितुं च शक्‍येत् । भवतां टिप्‍प…

स्वगत ।।

चित्र
अश्राव्‍यं खलु यद् वस्‍तु तदिह स्‍वगतं मतम् ।। ।।दशरूपकम् ।।
कदाचित् रंगमञ्चस्‍य पात्रं अन्‍य पात्राणां अश्राव्‍यं (न सुनने योग्‍य) आत्‍मन: मनस: (अपने मन की) गुप्‍तवार्ता: दर्शकान् प्रति प्रस्‍तोतुं अन्‍यपात्रेभ्‍य: भिन्‍नां दिशि मुखं कृत्‍वा एवं क्रियते यत् मन्‍ये रंगमंचस्‍थानि पात्राणि नैव श्रूयन्‍ते । किन्‍तु दर्शका: तस्‍य अभिप्रायम् अवगच्‍छन्ति । एवं विधा स्‍वगत तु पात्रस्‍य मानसिकभावानां व्‍यक्तिगतप्रकाशनम् इति भवति ।




इति

अभिसारिका नायिका ।।

चित्र
अभिसारयते कान्‍तं या मन्‍मथवशंवदा ।  स्‍वयं वाभिसरत्‍येषा धीरैरुक्‍ताभिसारिका ।।  ।।स‍ाहित्‍यदर्पण 3/76।।
कामासिक्‍तं भूत्‍वा यदि कापि नायिका कमपि नायकं क्‍वचित् पूर्वसंकेतितस्‍थाने आह्वयति स्‍वयं वा गच्‍छति चेत् सा अभिसारिका नायिका कथ्‍यते ।। अस्‍यापि भेदत्रयम् -
कुलीना वेश्‍या दासी 

इति

काञ्चुकीय (कञ्चुकी) ।।

चित्र
अन्‍त:पुरचरो वृद्धो विप्रो गुणगणान्वित: ।  सर्वकार्यार्थकुशल: कञ्चुकीत्‍याभिधीयते ।। अथवा  ये नित्‍यं सत्‍यसम्‍पन्‍ना: कामदोषविवर्जिता:  ज्ञानविज्ञानकुशला: काञ्चुकीयास्‍तु ते मता: ।। ।।मातृगुप्‍ताचार्य।।
अन्‍त:पुरस्‍य (रनिवास) रक्षार्थं नियुक्‍त: वृद्ध: (प्रायेण ब्राह्मण:) सत्‍यवादी, काम-दोषादिशून्‍य:, व्‍यवहारकुशल:, विवेकशीलश्‍च पुरुषः 'काञ्चुकीय' इति कथ्‍यते । अयं प्रायेण कञ्चुकं (कुरता) धारयति अतएव अस्य नाम काञ्चुकी इति भवति ।।



इति

शकार: ।।

चित्र
मदमूर्खताभिमानी दुष्‍कुलतैश्‍वर्यसंयुक्‍त: ।  सो*यमनुढाभ्राता राज्ञ: श्‍याल: शकार इत्‍युक्‍त: ।।  ।।साहित्‍यदर्पण 3/44।। 
सम्‍पत्तिशालीराज्ञ: अविवाहितापत्‍न्‍यु: मदान्‍ध:, मूर्ख:, अभिमानी, नीचकुलोत्‍पन्‍न: भ्राता (राजश्‍यालक:) 'शकार' कथ्‍यते । अस्‍य गणना अपि राज्ञ: सहायकेषु भवति ।

इति

विदूषक: ।।

चित्र
कुसुम-वसन्‍ता‍द्याभिध: कर्मवपुर्वेषभाषाद्यै: ।  हास्‍यकर: कलहरतिर्विदूषक: स्‍यात् स्वकर्मजा ।। ।।साहित्‍यदर्पण 3/42।।
पुष्‍प, वसन्‍त आदिवत् नामधारी य: पात्र: स्‍वकर्मणा क्रियया, गात्रेण, वेषभूषया, भाषया वा जनानां हास्‍यं करोति । स्‍वार्थसिद्ध्यर्थं (भोजनकर्मणि) निरत: भवति । स: पुरुष: 'विदूषक:' इति कथ्‍यते । नाटकेषु अयं नायकस्‍य सहायक: भवति ।।

इति

प्रतिनायक: ।।

चित्र
धीरोद्धत: पापकारी व्‍यसनी प्रतिनायक: ।।  ।।साहित्‍यदर्पण 3/131।।
धीरोद्धतगुणै: युक्‍त:, पापी, कामी, क्रोधादिअवगुणै: युक्‍त:, महानव्‍यसनेष्वसक्‍त: पुरुष: प्रतिनायक: (खलनायक)  इति उच्‍यते ।
यथा - रावण:, शिशुपाल:, दुर्योधन: इत्‍यादय: ।

इति

विरहोत्‍कण्ठिता नायिका ।।

चित्र
आगन्‍तुं तु कृतचित्‍तो*पि दैवान्‍नायति चेत्प्रिय: । तदनागमदु:खार्ता विरहोत्‍कण्ठिता तु सा ।।  ।।साहित्‍यदर्पण 3/86 ।। 
आगन्‍तु निश्चित्‍य अपि दैववशात् (दुर्भाग्‍यवशात्) अपि यस्‍या: नायिकाया: प्रियतम: आगन्‍तुम् अशक्‍त: भवेत् सा नायिका विरहोत्‍कण्ठिता इति भवति ।।

इति

वासकसज्‍जा ।।

चित्र
कुरुते मण्‍डनं यस्‍या: सज्जिते वासवेश्‍मनि ।  सा तु वासकसज्‍जा स्‍याद्विदित-प्रियसंगमा ।।  ।।साहित्‍यदर्पण 3/85 ।। 
सुसज्जिते प्रासादे (महल) यस्‍या: नायिकाया: सख्‍य: तस्‍य भूषणं कुर्वन्ति एवं च यस्‍य प्रियेण सह समागमं निश्चितं स्‍यात् सा नायिका ''वासकसज्‍जा'' इति कथ्‍यते ।।


इति

प्रोषितभर्तृका नायिका ।।

चित्र
नानाकार्यवशाद् यस्‍या दूरदेशं गत: पति: ।  सा मनोभव-दु:खार्ता भवेत्‍प्रोषितभर्तृका ।। ।।साहित्‍यदर्पण 3/84।। 
गृहस्‍थधर्मस्‍य विविधेषु कार्येषु लग्‍न: यस्‍या: पति: दूरदेशं गत:, सा कामपीडिता नायिका पोषितभर्तृका इति कथ्‍यते ।।

इति