लिंग-वचन-पुरुषज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

मित्राणि
गताध्‍याये वयं वाक्‍यविषये संक्षेपेण अपठाम । सम्‍प्रति आवश्‍यकमस्ति यत् लिंग-वचन-पुरुषस्‍यापि ज्ञानं भवेत् । संस्‍कृतलेखने वाचने च सर्वाधिकत्रुटि: एतेषां कारणादेव भवति । निश्‍चयेन वाक्‍यनिर्माणे एते तु महदावश्‍यकविषया: सन्ति । एतेषां ज्ञानम् अल्‍पप्रयासेन एव भवति किन्‍तु तथापि एतेषां प्रति जनानां मस्तिष्‍के भयं भवति । अस्मिन् अध्‍याये वयं सरलविधिद्वारा एतेषां सम्‍यक् ज्ञानं प्राप्‍स्‍याम: ।

लिंगम्  :-

संस्‍कृते लिंगानि त्रीणि भवन्ति । अन्‍यासु भाषासु अपि प्रायेण त्रीणि एव भवन्ति, किन्‍तु संस्‍कृतस्‍य लिंगपरम्‍परा अन्‍यभाषासु नैव विद्यते । प्रायेण सर्वासु भाषासु पुरुषवर्ग: (मानवेषु) पुल्लिंगं,  स्‍त्रीवर्ग: स्‍त्रीलिंगं, वस्‍तूनि च नपुंसकलिंगमिति भवति । किन्‍तु संस्‍कृते तथा नास्ति । अत्र स्‍त्रीपुरुषाभ्‍याम् आशय: केवलं स्‍त्रीलिंगपुलिंगयो: एव नास्ति । वस्‍तुषु अपि स्‍त्रीपुरुषलिंगे भवत: । नपुंसकलिंगस्‍यापि वस्‍तुषु एव बाध्‍यता नास्ति ।
एवं विधा वक्‍तुं शक्‍यते यत् संस्‍कृतस्‍य लिंगानि नाम-आधारितानि भवन्ति । अन्‍येषां तु जाति-आधारितम् । इति



उदाहरणम् -

पुलिंगम्राम: - राम आसन्ध: - कुर्सी काक: - कौआ
स्‍त्रीलिंगम्रमा - लक्ष्‍मीदेवता - देवलेखनी - कलम
नपुंसकलिंगम्व्‍यजनम् - पंखा मित्रम् - मित्रब्राह्मणम् - ब्राह्मण

अत्र पुलिंगं पश्‍यन्‍तु । तत्र राम: पुरुष: अत: पुलिंगे अस्ति, किन्‍तु आसन्‍ध: तु वस्‍तु: पुनश्‍च निर्जीव: तथापि पुल्लिंगे, काक: खगविशिष्‍ट: पुल्लिंगे एव ।
एवमेव रमा स्‍त्री काचित् स्‍त्रीलिंगे, देवता तु पुरुषवर्ग इति दृश्‍यते किन्‍तु तदपि स्‍त्रीलिंगे, लेखनी तु निर्जीववस्‍तु: किन्‍तु स्‍त्रीलिंगे ।
नपुंसकलिंगे व्‍यजनं (निर्जीववस्‍तु:), मित्रम् (प्रायेण पुरुषप्रयुक्‍तम्), ब्राह्मणम् (जातिविशिष्‍टम्) इति अस्ति ।
   अत: संस्‍कृते लिंगस्‍य निश्‍चयं नास्ति । चेत् प्रश्‍न: भवति यत् कथम् एतत् विजानीयाम् यत् इदं पुलिंगं, स्‍त्रीलिंगं, नपुंसकं वा अस्ति । उत्‍तरमस्ति यत् अभ्‍यासेन स्‍वयमेव आगच्‍छति । अग्रे कानिचन् लक्षणानि अपि दास्‍यन्‍ते ।

वचनम्  :-

अन्‍य भाषासु प्रायेण वचनं द्वयमेव भवति , एकवचनम्, बहुवचनम् यथा - हिन्‍दी, आंग्‍लम् ।  किन्‍तु संस्‍कृते वचनमपि त्रयमेव भवति । एकवचनम् द्विवचनम् बहुवचनम् च । यदि एकसंख्‍यात्‍मकमस्ति किमपि चेत् तत्र एकवचनम्, द्विसंख्‍यात्‍मकमस्ति चेत् द्विवचनम् एतेन अधिकं चेत् बहुवचनम् ।

उदाहरणम् -

एकवचनम्राम:फलम्बाला
द्विवचनम् रामौफलेबाले
बहुवचनम्रामा:फलानिबाला:

उपर्युक्‍ततालिकायां राम(पुलिंग) शब्‍दस्‍य, फल (नपुंसकलिंग) शब्‍दस्‍य, पुनश्‍च बाला (स्‍त्रीलिंग) शब्‍दस्‍य एकवचनं, द्विवचनं बहुवचनं च दत्‍तम् । भेद: दृश्‍यते एव । स्‍पष्‍टीकरणस्‍य आवश्‍यकता नास्ति अत्र ।

पुरुष:  :-

संस्‍कृते पुरुषवर्गीकरणं विशिष्‍टमेव । अन्‍यभाषासु इदं वर्गीकरणं नैव विद्यते । संस्‍कृते पुरुष: अपि त्रय: एव । प्रथमपुरुष:, मध्‍यमपुरुष:, उत्‍तमपुरुषश्‍च । पुरुषज्ञानेन विना संस्‍कृते वाक्‍यनिर्माणं संम्‍भवं नास्ति । चेदपि त्रुटिपूर्णं भविष्‍यति । पुरुषस्‍य ज्ञानं नितान्‍तसरलमस्ति । पुरुषं ज्ञातुं इदं ज्ञातव्‍यं भवति यत् कस्‍य पुरुषस्‍य आधिक्‍यम् अस्ति । कस्‍य न्‍यूनत्‍वं च ।
पश्‍यन्‍तु -

अस्‍मत् शब्‍दरूपम् (अहं, आवां, वयम् आदि 21 शब्‍दा:)  सम्‍पूर्णं उत्‍तमपुरुषे भवति ।
युष्‍मत् शब्‍दरूपम् (त्‍वं, यूवां, यूयम् आदि 21 शब्‍दा:) सम्‍पूर्णं मध्‍यमपुरुषे भवति ।
एतदरिक्‍तं यत् किमपि अस्ति तत् सर्वं प्रथमपुरुषे एव भवति ।

उदाहरणम् -

प्रथमपुरुष: राम:सीतास:
मध्‍यमपुरुष:त्‍वंत्‍वांत्‍वया
उत्‍तमपुरुष:अहंमाम् मया

इतेषां त्रयाणामपि अत्र संक्षिप्‍तवर्णनम् अत्र दत्‍तम् । अत्र यदि किमपि अवगमने न आगच्‍छेत् चेत् कृपया टिप्‍पणीमंजूषायां टंकयतु । भवतां प्रश्‍नानां यथाशक्‍यम् उत्‍तरं दास्‍यते ।



इति


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।