मित्रभेद: - प्रथमकथा –४।।

   यच्‍च अविवेकितया राजा भृत्‍यानुत्‍तमपदयोग्‍यान् हीनाधमस्‍थाने नियोजयति न ते तत्रैव तिष्‍ठन्ति । तत्र भूपतेर्दीपो न तेषाम् ।   उक्‍तं च --

कनकभूषणसंग्रहणोचितो यदि, मणिस्‍त्रपुणि प्रतिबध्‍यते । 
न स विरौति न चापि न शोभते,  भवति योजयितुर्वचनीयता ।।81

यच्‍च स्‍वामी एवं वदति - 'चिरादृश्‍यते' तदपि श्रूयताम् ।

सव्‍यदक्षिणयोयत्र विशेषो नास्ति हस्‍तयो: ।
कस्‍त्र क्षणमप्‍यार्यो विद्यमानगतिर्वसेत् ।।82

काचे मणिर्मणौ काचो येषां बुद्धिविकल्‍पते । 
न तेषां सन्निधौ भृत्‍यो नाममात्रो*पि तिष्‍ठति ।।83 

परीक्षका यत्र न सन्ति देशे, नार्धन्‍तरत्‍नानि समुद्रजानि । 
आभीरदेशे किल चन्‍द्रकांत त्रिभिवेराटेविपणन्ति गोपा ।।84

लोहिताख्‍यस्‍य च मणे: पद्मरागस्‍य चान्‍तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्‍नविक्रय: ।।85 

निर्विशेष यदा स्‍वामी समं भृत्‍येषु वर्तते । 
तत्रोद्यमसमर्थानामुत्‍साह: परिहीयते ।।86

न विना पार्थिवो भृत्‍यैर्न भृत्‍या: पार्थिव विना 
तेषां च व्‍यवहारो*यं परस्‍पर निबन्‍धन: ।।87 

भृत्‍यैर्विना स्‍वयं राजा लोकानुग्रहकारिभि: । 
मयखैरिव दीप्‍तामुस्‍तेजस्‍व्यपि न शोभते ।।88 

अरै: संधाय्यते नाभिर्नाभीचारा: प्रतिष्ठिता: । 
स्‍वामिसेवकयोरेव वृत्तिचक्रे प्रवर्तने ।।89 

शिरसा विधृता नित्‍यं स्‍नेहेन परिपालिता: । 
केशा अपि विरज्‍यन्‍ते नि:स्‍नेहा: किं न सेवका: ।।90

राजा तुष्‍टो हि भृत्‍यानामर्थमात्रं प्रयच्‍छति । 
ते तु सम्‍मानमात्रेण प्राणैरप्‍युपकुर्वते ।।91 

एवं ज्ञात्‍वा नरेन्‍द्रेण भृत्‍या कार्या विचक्षणा: । 
कुलीना: शौर्यसंयुत शक्‍ता भक्‍ता: क्रमागता: ।।92

य: कृत्‍वा सुकृतं राज्ञो दुष्‍करं हितमुत्‍तमम् । 
लज्‍जया शक्ति नो किंचित्‍तेन राजा सहायवान् ।।93 

यस्मिन् कृत्‍यं समावेश्‍य निर्विशक्‍तेन चेतसा ।
आस्‍यते सेवक: स स्‍यात्‍कलत्रमिव चापरम् ।।94 

यो*नाहूत: समभ्‍येति द्वारि तिष्‍ठति सर्वदा 
पृष्‍ट: सत्‍यमितब्रूते स भृत्‍यो*र्हो महीभुजाम् ।।95 

अनादिष्‍टो*पि भूपस्‍य दृष्‍ट्वा हानिकर च य: । 
यतते तस्‍य नाशाय स भृत्‍यो*र्हो महीभुजाम् ।।96 

ताडितो*पि दुरुक्‍तो*पि दण्डितो*पि महीभुजा । 
यो व चिन्‍तयते पाप स भृत्‍यो*र्हो महीभुजाम् ।।97 

न गर्व कुरुते माने नापमाने च तप्‍यते । 
स्‍वीकारं रक्षयेद्यस्‍तु स भृत्‍यो*र्हो महीभुजाम् ।।98 

न क्षुधा पीड्यते यस्‍तु निद्रया न कदाचन । 
न च सीतातपाद्यैश्‍च स भृत्‍यो*र्हो महीभुजाम् ।।99 

श्रुत्‍वा सांग्रामिकी वार्ता भविष्‍यां स्‍वामिनं प्रति 
प्रसन्‍नास्‍यौ भवेद्यस्‍तु स भृत्‍यो*र्हो महीभुजाम् ।।100 

सीमावृद्धि समायाति शुक्‍लपक्ष इवोडुराट् । 
नियोग संस्थिते यस्मिन् स भृत्‍यो*र्हो महीभुजाम् ।।101 

सीमासंकोचमायाति वह्नौ चर्म इवाहितम् । 
स्थिते यस्मिंत्‍स तु त्‍याज्‍यो भृत्‍यो राज्‍य समीहता ।।102 

तथा श्रृंगालो*यमिति मन्‍यमानेन स्‍वामिना यदि ममोपरि अवज्ञा क्रियते तदपि अयुक्‍तम् । उक्‍तंच यत: ---

कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमत: । 
पंकात्‍तामरसं शशांक उद्घेरिन्‍द वरं गोमयात् । 
काष्‍ठादग्निरहे: फलादपि मणिर्गोपित्‍ततो रोचना । 
प्राकाश्‍य स्‍वगुणोदयेन गुणिनो गच्‍छन्ति किं जन्‍मना ।।103 

मूषिका गृहजाता‍*पि हन्‍तव्‍या स्‍वापकारिणी । 
भक्ष्‍येप्रदानैर्मार्जारो हितकृत्‍प्रार्थ्‍यते जनै: ।।104 

एरण्‍डभिण्‍डार्कनलै: प्रभूतेरपि संचितै: । 
दारुकृत्‍य यथा नास्ति तथैवाज्ञै: प्रयोजनम् ।। 105 

किं भक्‍तेनासमर्थेन किं शक्‍तेनोपकारिणा । 
भक्‍तं शाक्‍तं च मां राजन् नावज्ञातुत्‍वमर्हसि ।।106 

पिंगलक आह - भवतु एवं तावत् । असमर्थ सर्म‍‍थो वा चिरन्‍तनस्‍त्‍वमस्‍माकं मन्त्रिपुत्रस्‍तद्विश्रब्‍धं ब्रूहि यत् किंचिद्वतुकाम:,
दमनक आह 'देव। विज्ञाप्‍य किंचिदस्ति'
पिंगलक आह - 'तन्निवेदय अभिपेतम्'
सो*ब्रवीत् --

अपि स्‍वल्‍पकार्य यत्भवेत्‍पृथिवीपते । 
तन्‍न वाच्‍यं सभामध्‍ये प्रोवचेद बृहस्‍पति: ।।107 

षट्कर्णो भिद्यते मन्‍त्रच्‍चतुष्‍कर्ण: स्थिरो भवेत् । 
तस्‍मात्‍सर्व प्रयत्‍नेन षट्कर्ण वर्जयेत्‍सुधी: ।।108 

अथ पिंगलकाभिप्रायज्ञा व्‍याघ्रद्वीपिवृकपुर: सरा: सर्वे*पि तद्वच: समाकर्ण्‍य संसदि तत्‍क्षणादेव दूरीभूता: । ततश्‍च दमनक आह -- उदकग्रहणार्थ प्रवृत्‍तस्‍य स्‍वामिन: किमिह निवृत्‍यावस्‍थानम् ।
पिंगलक आह - सविलक्षस्मितम् । न किंचिदपि ।
सो*ब्रवीत - देव । यदि अनाख्‍येय तत्तिष्‍ठतु । उक्‍तं च --

दारेषु किंचित्‍स्‍वज्ञेषु किंचिद्गम्‍य वयस्‍येषु सुतेषु किंचित् 
युक्‍तं न वा युक्‍तमिदं विचिन्‍त्‍य वदे‍द्विपश्चिन्‍महतो*नुरोधात् ।।109 

तच्‍छ्रुत्‍वापिंगलकस्चिन्‍तयामास - योग्‍यो*यं दृश्‍यते । तत कथयामि एतस्‍य अग्रे आत्‍मनो*भिप्रायम् । उक्‍तं च --

सुहृदि निरन्‍तरचित्‍ते गुणवति भृत्‍ये*नुवर्तिनि कलत्रे । 
स्‍वामिनि सोहृदयुक्‍ते निवेद्य दु:खं सुखी भवति ।। 110 

'भो दमनक । श्रृणोषि शब्‍द दूरात् महान्‍तम् ॽ
सो*ब्रवीत् - स्‍वामिन् श्रृणोमि, तत: किम् ॽ
पिंगलक आह - भद्र । अहमस्‍माद्वनाद्गन्‍तुमिच्‍छामि ।
दमनक आह - कस्‍मात्
पिंगलक आह - यतो*द्य अस्‍मद्वने किमपि अपूर्व सत्‍वं प्रविष्‍टं यस्‍य अयं महाशब्‍द: श्रूयते । तस्‍य च शब्‍दानुरूपेण पराक्रमेण भाव्‍यमिति ।
दमनक आह - येन् शब्‍दमात्रादपि भयमुपगत: स्‍वामी तदपि अयुक्‍तम् । उक्‍तं च --

अम्‍भसा भिद्यते सेतुस्‍तथा मन्‍त्रो*प्‍यरक्षित: । 
पैशुन्‍याद्भिद्यते स्‍नेहो विद्यते वाग्भिरातुर: ।।111 

तन्‍न युक्‍त स्‍वामिन: पूर्वोपार्जित वने त्‍यक्‍तुम् । यतो भरीवेणुवीणामृदंगतालपटहशंखकाहलादिभेदेन शब्‍दा अनेकविधा भवन्ति । तन्‍न केवलाच्‍छब्‍दमात्रापि भेतव्‍यम् । उक्‍तं च --

अत्‍युत्‍कटे च रौद्रे च शत्रौ प्राप्‍ते च हीयते । 
धैर्य यस्‍य महीनाथ न स याति पराभवम् ।।112 

दर्शितभये*पि धातरि धैर्यध्‍वंसो भवेन्‍न धीराणाम् 
शोषितस‍रसि निदाघे नितरामेवोद्धत: सिन्‍धु: ।।113 

यस्‍य न विषाद: सम्‍पदि हर्षो रणे न भीरुत्‍वम् 
तं भुवनत्रयतिलकं जनयति जननो सुत विरलम् ।।114 

शक्ति वैकल्‍पनम्रस्‍य नि:सारत्‍वाल्‍लधीयस: । 
जन्मिनो मानहीनस्‍य तृणस्‍य च समागति: ।।115 

अन्‍यप्रतापमासाद्ययो दृढत्‍व न गच्‍छति । 
जातुजाभरणस्‍येव रूपेणापि हि तस्‍य किम् ।।116 

तदेव ज्ञात्‍वा स्‍वामिना धैर्य्योविष्‍टम्‍भ: कार्य: । न शब्‍दमात्रा दुभेतव्‍यम् । उक्‍तं च --

पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । 
अनुप्रविश्‍य विज्ञात तावच्‍चर्म च दारु च ।।117 

पिंगलक आह - 'कथमेतत् ?'
सो*ब्रवीत् ----

प्रथमकथा सामाप्‍यते



इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

अव्यय पदानि ।।

कारक प्रकरणम् (कर्ता, कर्म, करणं च)