शब्‍द-वाक्‍यज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

गताध्‍याये वयं संस्‍कृतस्‍य वर्णमालां ज्ञातवन्‍त: । वर्णमालायां अक्षराणि भवन्ति । ते स्‍वरव्‍यंजनभेदयो: द्विधा भवन्ति । पुनश्‍च तत्र लघु, दीर्घ, प्‍लुतादि भेदा: भवन्ति । अनन्‍तरं तेषां उदात्‍तानुदात्‍तस्‍वरितभेदा:, उच्‍चारणस्‍थानानि, प्रयत्‍ना: (आभ्‍यन्‍तरबाह्यश्‍च) आदि भवन्ति येषां वर्णनम् अस्‍माकं अभीष्‍टं नास्ति एव । अस्‍माकं तु अभीष्‍टं केवलं सरलतया संस्‍कृतलेखनं, सम्‍भाषणं च आगच्‍छेत् तावदेव अस्ति । अत: अत्र विषयविस्‍तार: भाषाध्‍वनिविज्ञानयो: अकृत्‍वा एव साक्षात् अग्रे चलाम: ।
तथापि यदि कश्चित् उपर्युक्‍तान् विषयान् पठितुमिच्‍छति एव चेत् स: अत्र अन्‍वेषणमंजूषायाम् अन्विष्‍य पठितुं शक्‍नोति ।

अद्य वयं पठिष्‍याम: यत् शब्‍द: क: ॽ किं वाक्‍यम् च इति ॽ

शब्‍द: -
स्‍वरव्‍यंजनयो: मिश्रणे निर्मित: कश्चित् वर्णसमूह: यस्‍य कश्चित् विशिष्‍ट: अर्थ: चापि भवेत् 'शब्‍द:' इति अभ‍िधीयते । उदाहरणार्थं - राम शब्‍दे र्+आ+म्+अ वर्णानां योजना अस्ति । पुनश्च रामशब्दस्य अर्थः यः सर्वत्र रमते सः । एवमेव स्वरव्यंजनयोः संयोगेन निर्मितः वर्णसमूहः शब्दः इति कथ्यते ।
सम्प्रति प्रश्‍न: आगच्‍छति यत् यदि तस्‍य वर्णसमूहस्‍य अर्थ: न भवेत् चेत् तस्‍य शब्‍दसंज्ञा भविष्‍यति न वा ॽ अस्‍य उत्‍तरमस्ति यत् कदाचित् अन्‍यभाषासु भवेत् किन्‍तु संस्‍कृते तु नैव भविष्‍यति । इति

वाक्‍यम् - 
      सार्थकशब्‍दसमूह: वाक्‍यं कथ्‍यते । किन्‍तु तत्र विषयत्रयमितोपि भवेत् । 1-आकांक्षा 2-योग्‍यता, 3- सन्निधि: ।
  1. आकांक्षा भवति वाक्‍यस्‍य पूर्वार्द्धस्‍य उच्‍चारणे उत्‍तरार्ध्‍दस्‍य जिज्ञासा । यथा 'राम:' शब्‍दस्‍य उच्‍चारणे जिज्ञासा भवति यत् 'राम: किम् इति ॽ' पुन: जिज्ञासाप्रशमनार्थं 'राम: गच्‍छति' इति सम्‍पूर्णं वाक्‍यम् उच्‍यते । 
  2. योग्‍यता वाक्‍यस्‍य क्रियाया: योग्‍यतां पश्‍यति । यथा - 'वह्निना सिंचति' वाक्‍ये 'अग्‍नौ' सिंचनस्‍य योग्‍यता नास्ति, तत्र तु जलेन सिंचति इति भवेत् यतोहि सिंचनस्‍य योग्‍यता तु जले अस्ति न तु अग्‍नौ । 
  3. पुनश्‍च सन्निधि: इत्‍युक्‍ते शब्‍दानाम् उच्‍चारणे तारतम्‍यता भवेत् । एवं न भवेत् यत् एकस्‍य शब्‍दस्‍य 'राम:' इति उच्‍चारणानन्‍तरं अर्द्धघंटात्‍मकं विरामं स्‍वीकृत्‍य अनन्‍तरम् उच्‍यते 'गच्‍छति' इति । एवं सन्निधी-अभावमपि वाक्‍यनिर्माणे बाधा भवति । अत: एतेषाम् त्रयाणामभावे तु तस्‍य वाक्‍यत्‍वं नैवेति ।
     संस्‍कृतव्याकरणे वाक्‍यस्‍य परिभाषा - सुप्तिड्.न्‍तं पदम् इति अस्ति । अर्थात् - सुबन्‍त (सुप् प्रत्‍यय: यस्‍य अन्‍ते भवति ) तिड.न्‍त (तिड्. प्रत्‍यय: यस्‍य अन्‍ते भवति ) उभयो: मेलनेन् पदम् (वाक्‍यम्) इति निर्मीयते ।
सुप् इत्‍युक्‍ते शब्‍दरूपम्, तिड्. इत्‍युक्‍ते क्रियारूपम् । अर्थात् एकस्‍य शब्‍दरूपस्‍य तस्‍यानुरूपक्रियारूपेण सह सम्‍बन्‍ध: वाक्‍यम् इति कथ्‍यते । यथा - राम: (शब्‍दरूपम् - प्रथमा विभक्ति:, एकवचनम्) गच्‍छति (क्रियारूपम् - लट् लकार, प्रथमपुरुष:, एकवचनम् ) एवं राम: गच्‍छति इति वाक्‍यं निर्मितम् ।

अनुवर्तिष्‍यते.......
इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

शरीरस्‍य अंगानि

अव्यय पदानि ।।