मित्रभेद: - प्रथमकथा-३।।

प्रथमकथा - तृतीयांकः

करकट आह -
अथ भवान् तत्र गत्‍वा किं तावद् प्रथमं वक्ष्‍यति तद् तावदुच्‍यताम् ॽ

दमनक आह -

'उत्‍तरादुत्‍तरं वाक्‍यं वदतां सम्‍प्रजायते ।
सुभृष्टिगुणसम्‍पन्‍नाद्वीजाद्वीजमिवापरम् ।।64

अपायसन्‍ददर्शनजां विपत्तिमुपायसन्‍दर्शनजां च सिद्धम्
मेधाविनो नीतिगुणप्रयुक्‍तां पुर: स्‍फुरन्‍तीमिव वर्णयन्ति ।।65 

एकेषां वाचि शुकबदुन्‍येषां हृष्टि मूकवत् ।
हृदि वाचि तथान्*न्‍येषां वल्‍गु वल्‍गन्ति सूक्‍तय: ।।66

न च अहमप्राप्‍तकाम वक्ष्‍ये । आकर्णितं मया नीतिसार पितु: पूर्वमुत्‍संग हि निषेवता ।

अप्राप्‍तकालं वचनं बृहस्‍पतिरपि ब्रुवन्
लभते वहवज्ञानमपमानं च पुष्‍कलम् ।।67

करकट आह --

''दुराध्‍या हि राजान: पर्वता इव सर्वदा
व्‍यालाकीर्णा: सुविषमा: कठिना दुष्‍टसेविता ।।68

भोगिन: तथा च कंचुकाविष्‍टा: कुटिला: क्रूरचेष्टिता: ।
सुदुष्‍टा मन्‍त्रसाध्‍याश्‍च राजान: पन्‍नगा इव ।।69

द्विजिह्वा: क्रूरकर्माणो*निष्‍टश्छिद्रानुसारिण:
दूरतो*पि हि पश्‍यन्ति राजानो भुजंगा इव ।।70

स्‍वल्‍पमप्‍यपकुर्वन्ति ये*भीष्‍टा हि महीपते: ।
ते वह्नाविव दह्यन्‍ते ये*भीष्‍टा हि महीपते: ।।71

दुरारोहं पदं राज्ञां सर्वलोकनमस्‍कृतम्
स्‍वल्‍पेनाप्‍यपकारेण ब्राह्मणमिव दुष्‍यति ।।72

दुराराध्‍या: श्रियो राज्ञां दुरापा दुष्‍परिग्रहा:
तिष्‍ठन्‍त्‍याप इवाधारे चिरमात्‍मनि संस्थितां ।।73

दमनक आह -- सत्‍यमेतत्‍परं किन्‍तु --

यस्‍य यस्‍य हि यो भावस्‍तेन तेन  समाचरेत्
अनप्रविश्‍य मेधावी क्षिप्रमात्‍मवशं नयेत् ।।74

भर्तुश्चित्‍तानुवर्तित्‍वं सुवृत चानुजीविनाम्
राक्षमाश्‍चापि गृह्यन्‍ते नित्‍यं छन्‍दानुवर्तिभि: ।।75

सरुषि नृपे स्‍तुतिवचनं तदभिमते प्रेम तद्द्विषि:
तद्दानस्‍य च प्रशंसा अमन्‍त्रमन्‍त्रं वशीकरणम् ।।76

करकट आह --
यद्येवमभिमतं तर्हि शिवास्‍ते पन्‍थान: सन्‍तु । यथाभिलषितमनुष्‍ठीयताम् ' । सो*पि प्रणम्‍य पिंगलकाभिमुख प्रतस्‍थे । अथ आगच्‍छन्‍तं दमनकमालोक्‍य पिंगलको द्वास्‍थमब्रवीत् -- अपसार्य्यतां वेत्रलता । अयमस्‍माकं चिरन्‍तनो मन्त्रिपुत्रो दमनको*व्‍याषतप्रवेश: । तत्‍प्रवेश्‍यतां द्वितीयमण्‍डलभागी' इति । स आह - 'यथा आवादीत् भवान्' इति । अथोपसृत्‍य दमनको निर्दिष्‍ट आसने पिंगलकं प्रणम्‍य प्राप्‍तानुज्ञ उपविष्‍ट: । स तु तस्‍य नखकुलिशालकृत दक्षिणपाणिमुपरि दत्‍वा मानपुर: सरमुवाच - 'अपि शिवं भवत: ॽ कस्‍माच्चिराद् दृष्‍टो*सि ॽ दमनक आह - न किंचिद्देवपादानामस्‍माभि: प्रयोजनम् । परं भवतां प्राप्‍तकालं वक्‍तव्‍यं यत उत्‍तममध्‍यमाधमै: सर्वेरपि राज्ञो प्रयोजनम् ।

दन्‍तस्‍य निष्‍कोषणकेन नित्‍यकर्णस्‍य कण्‍डूयनकेन वापि ।
तृणेन कार्य्य भवतोश्‍वराणा किमंगवाग्धस्‍तवताा नरेण ।।77

तथा वयं देवपादानामन्‍वयागता भृत्‍या आपत्‍स्‍वपि-पृष्‍ठ-गामिनी यद्यपि स्‍वमधिकारं न लभामहे । तथापि देवपादानामेतत् युक्‍ते न भवति उक्‍तंच --

स्‍थानेष्‍वेव नियोक्‍तव्‍या भृत्‍याश्‍चाभरणानि च ।
नहि चूडामणि: पादे प्रभवामीति वध्‍यते ।।78

अनभिज्ञो गुणनां यो न भृत्‍यैरनुगम्‍यते ।
धनाढ्यो*पि कुलीनो*पि क्रमायातो*पि भूपति: ।।79

असमै समीयमान: समैश्‍च परिहीयमाणसत्‍कार:
धुरि च नियुज्‍यमानस्त्रिभिरर्थपतिं त्‍यजति भृत्‍य: ।।80


अनुवर्तिष्‍यते ............

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

अव्यय पदानि ।।

कारक प्रकरणम् (कर्ता, कर्म, करणं च)