संदेश

February, 2015 की पोस्ट दिखाई जा रही हैं

श्रीसिद्धपीठ-हनुमानमन्दिरम् - अनिरुद्धनगरम् (अम्‍बेडकरनगरम्)

चित्र
महाशिवरात्रिपर्वणि श्रीअनिरुद्धनगरे श्रीहनुमानमन्दिरे श्रीतुलसीरामायणपाठानन्‍तरं हवनादिकं सम्‍पादितम् ।  नातिसमये एव भगवत: श्रीहनुमत: मन्दिरस्‍य वर्णकार्यं सम्‍पादितमासीत् । मन्दिरस्‍य शोभा अवर्णनीया दर्शनीया च वर्तते सम्‍प्रति । दर्शनं क्रियन्‍ताम् । 



गोपीगीतम्

चित्र
गोप्य ऊचुः .
जयति तेऽधिकं जन्मना व्रजः
     श्रयत इन्दिरा शश्वदत्र हि .
दयित दृश्यतां दिक्षु तावका-
     स्त्वयि धृतासवस्त्वां विचिन्वते .. १..
शरदुदाशये साधुजातस-
     त्सरसिजोदरश्रीमुषा दृशा .
सुरतनाथ तेऽशुल्कदासिका
     वरद निघ्नतो नेह किं वधः .. २..
विषजलाप्ययाद्व्यालराक्षसा-
     द्वर्षमारुताद्वैद्युतानलात् .
वृषमयात्मजाद्विश्वतोभया-
     दृषभ ते वयं रक्षिता मुहुः .. ३..
न खलु गोपिकानन्दनो भवा-
     नखिलदेहिनामन्तरात्मदृक् .
विखनसार्थितो विश्वगुप्तये
     सख उदेयिवान्सात्वतां कुले .. ४..
विरचिताभयं वृष्णिधुर्य ते
     चरणमीयुषां संसृतेर्भयात् .
करसरोरुहं कान्त कामदं
     शिरसि धेहि नः श्रीकरग्रहम् .. ५..
व्रजजनार्तिहन्वीर योषितां
     निजजनस्मयध्वंसनस्मित .
भज सखे भवत्किंकरीः स्म नो
     जलरुहाननं चारु दर्शय .. ६..
प्रणतदेहिनां पापकर्शनं
     तृणचरानुगं श्रीनिकेतनम् .
फणिफणार्पितं ते पदांबुजं
     कृणु कुचेषु नः कृन्धि हृच्छयम् .. ७..
मधुरया गिरा वल्गुवाक्यया
     बुधमनोज्ञया पुष्करेक्षण .
विधिकरीरिमा वीर मुह्यती-
     रधरसीधुनाऽऽप्याययस्व नः .. ८..
तव कथामृतं तप्तजीवनं
     कवि…

विमर्शसन्धि:

चित्र
यत्र मुख्‍यफलोपाय उद्भिन्‍नो गर्भतो*धिक: शापाद्यै: सान्‍तरायश्‍च स विमर्श इति स्‍मृत: ।। ।।साहित्‍यदर्पण 6/79-80।। यत्र मुख्यफलस्‍य उपाय: गर्भसन्‍धे: अपेक्षा अधिकोद्भिन्‍नं भवति किन्‍तु शापादिकारणात् विघ्‍नयुक्‍तं भवति तत्र विमर्शसन्धि: भवति । यथा - अभिज्ञानशाकुन्‍तलस्‍य चतुर्थांके - ''प्रियंवदे यद्यपि गान्‍धर्वेण विवाहेन निर्वृत्‍तकल्‍याणा प्रियसखी शकुन्‍तला संवृत्‍तेति .... '' इत्‍यादि अनुसूयाया: उक्ति:, तत: सप्‍तमांके शकुन्‍तलाया: प्रत्‍यभिज्ञानपर्यन्‍तं यावती कथा अस्ति शकुन्‍तलाया: विस्‍मरणरूपविघ्‍नेन युक्‍तमस्ति ।। 
इति

गर्भसन्धि:

चित्र
फलप्रधानोपायस्‍य प्रागुद्भिन्‍नस्‍य किंचन । गर्भो यत्र समुद्भेदो हासान्‍वेषणवान्‍मुहु: ।। ।।साहित्‍यदर्पण 6/78-79।। मुखप्रतिमुखसन्‍धयो: किंचित् प्रकटफलप्रधानोपायस्‍य यत्र ह्रास: विकासश्‍च भवति तत्र गर्भसन्धि: । फलस्‍य अन्‍तर्निहितत्‍वात् इयं गर्भसन्धि: कथ्‍यते । फलस्‍य गर्भीकरणाद् गर्भ: ।। भरतमुनिना उक्‍तम् - उद्भेदस्‍तस्‍य बीजस्‍य प्राप्तिरप्राप्तिरेव वा पुनश्‍चान्‍वेषणं यत्र स गर्भ इति संज्ञिता: ।।
इति

प्रतिमुखसन्धि:

चित्र
फलप्रधानोपायस्‍य मुखसन्धिनिवेशिन: लक्ष्‍यालक्ष्‍य इवोद्भेदो यत्र प्रतिमुखं च तत् ।। ।।साहित्‍यदर्पण 6/77-78।। मुखसन्‍धौ निवेशितस्‍य फलप्रधानोपायस्‍य यत्र किंचित् लक्ष्‍य किंचितलक्ष्‍य उद्भेद: (विकास:) यत्र भवतु तत्र प्रतिमुखसन्धि: भवति । अर्थात् रूपकस्‍य प्रधानफलस्‍य साधककथानक: यस्मिन् कदाचित् लुप्‍यते कदाचित् दृष्‍यते सा प्रतिमुखसन्धि: कथ्‍यते । इयं सन्धि: प्रयत्‍ननामकी कार्यावस्‍थां बिन्‍दुनामकं च अर्थप्रकृतिं कार्यश्रृखलां अग्रे नीयते । यथा - रत्‍नावल्‍यां वत्‍सराजस्य सागरिकाया: च अनुरागं सुसंगतया विदूषकेन च ज्ञात: । चेत् तदनुरागं लक्ष्‍यं, चित्रफलकवृत्‍तान्‍तेन वासवदत्‍तया अनुमानं अलक्ष्‍यमस्ति ।
इति

मुखसन्धि:

चित्र
यत्र बीजसमुत्‍पत्तिर्नानार्थ-रस-सम्‍भवा । प्रारम्‍भेण समायुक्‍ता तन्‍मुखं परिकीर्तितम् ।। ।।साहित्‍यदर्पण 6/76-77।।
यत्र अनेकार्थस्‍य रसस्‍य च व्‍यंजिका प्रारम्‍भनाम्नी कार्यावस्‍थया युक्‍त: बीजनामक: अर्थप्रकृति: उत्‍पद्यते तत्र मुखसन्धि: भवति । इत्‍युक्‍ते आरम्‍भनाम्‍नी कार्यावस्‍था बीजनामकस्‍य अर्थप्रकृते: च संयोग: मुखसन्धि: कथ्‍यते । यथा - रत्‍नावल्‍यां प्रथमे अंके रत्‍नावल्या: उदयनस्‍य च अनुरागरूपीबीजस्‍य उत्‍पत्ति: भवति ।




इति

सन्धि:

चित्र
''अवान्‍तरैकार्थसम्‍बन्‍ध: संधिरेकान्‍वये सति'' ।। 6/75 एकस्मिन् प्रयोजने अन्वितकथाया: अंशानां अवान्‍तरप्रयोजनै: सम्‍बन्‍ध: सन्धि: कथ्‍यते । यथा - मन्‍दारमरन्‍दे कथितम् - ''मुख्‍यप्रयोजनवशात् तथाड्.गानां समन्‍वये । अवान्‍तरार्थसम्‍बन्‍ध: सन्धि: सन्‍धानरूपत: ।। अस्‍या: पंच भेदा: भवन्ति ।
मुखसन्धि: प्रतिमुखसन्धि: गर्भसन्धि: विमर्शसन्धि: निर्वहणसन्धि:


इति

फलागम

चित्र
सावस्‍था फलयोग: स्‍याद्य: समग्रफलोदय: ।।6/73
यत्र सम्‍पूर्णं प्राप्‍यते सा अवस्‍था फलयोग:, फलागम वा कथ्‍यते । यथा - रत्‍नावल्‍यां चक्रवर्तित्‍वेन सह एव रत्‍नावल्‍या: प्राप्ति: । अथवा अभिज्ञानशाकुन्‍तले सर्वदमन (भरत) नामकेन पुत्रेण सहैव शकुंतलाया: प्राप्ति: फलागम अस्ति ।


इति

नियताप्ति:

चित्र
अपायाभावत: प्राप्तिर्नियताप्तिस्‍तु निश्चिता ।।6/72
अपायस्‍य (विघ्‍नस्‍य, प्रतिबन्‍धकस्‍य वा) दूरीभूते सति प्रधानफलस्‍य प्राप्‍ते: निश्‍चय: एव नियताप्ति: कथ्‍यते । यथा - वेणीसंहारनाटके ''कर्ता द्यूतश्‍छलानां.........'' इत्‍यादिकथनेन भीमार्जुनयो: एकमात्रमवशिष्‍टस्‍य दुर्योधनस्‍यान्‍वेषणं एव नियताप्ति: अस्ति ।

इति

प्रप्‍त्‍याशा

चित्र
अपायाभावत: प्राप्तिर्नियताप्तिस्‍तु निश्चिता ।। 6/72 यत्र प्राप्‍ते: आशा, उपाय:, अपायश्‍च आशंकते किन्तु प्राप्‍ते: सम्‍भावना भवतु सा अवस्‍था प्रत्‍याशा इति कथ्‍यते । यथा -  रत्‍नावल्‍यां तृतीयांके वेषपरिवर्तनाभिसरणादिकं तु उपाया: सन्ति संगमस्‍य, किन्‍तु वासवदत्‍ता (अपायस्‍य) आशंका अपि वर्तते । अतएव समागमरूपीफलस्‍य प्राप्ति: अनिश्चितं सन्‍तं प्रप्‍त्‍याशा अस्ति ।

इति

यत्‍न:

चित्र
प्रयत्‍नस्‍तु फलावाप्‍तौ व्‍यापारो*तित्‍वरान्वित: ।। 6/72
फलप्राप्‍त्‍यर्थं त्‍वरया कृत: व्‍यापार: यत्‍न इति कथ्‍यते । यथा - रत्‍नावल्‍यां ''तथापि नास्ति अन्‍यो दर्शनोपाय इति यथा तथा आलिख्‍य यथासमीहितं करिष्‍यामि'' इत्‍यादिद्वारा रत्‍नावल्‍या: चित्रलेखनरूपी त्‍वरायुक्‍त: व्‍यापार: यत्‍न: अस्ति । 


इति

आरम्‍भ:

चित्र
भवेदारम्‍भ औत्‍सुक्‍यं यन्मुख्यफलसिद्धये ।। 6/71
मुख्‍यफलस्‍य सिद्ध्यर्थं यदौसुक्‍यं भवति सैव आरम्‍भ: इति कथ्‍यते । यथा - रत्‍नावलीनाटिकायां रत्‍नावलीं अन्‍त:पुरे स्‍थातुं यौगन्‍धरायणस्‍य इच्‍छा एव 'आरम्‍भ:' अस्ति ।

इति

वाक्‍यनिर्माणे आवश्‍यकता ।।

चित्र
गत अभ्‍यासे वयं दृष्‍टवन्‍त: वाक्‍यस्‍य निर्माणं कथं भवति । इत्‍यपि ज्ञातवन्‍त: यत् कारकं किम् तेषां संख्‍या च का इति । सम्‍प्रति अस्मिन् अभ्‍यासे वयं वाक्‍यस्‍य निर्माणे कस्‍य कस्‍य आवश्‍यकता भवति इति पश्‍याम: ।

राम: गृहं गच्‍छति - अस्मिन् वाक्‍ये त्रय: शब्‍दा: सन्ति । यत्र राम: कर्ता (गमन क्रियाया: कर्ता), गृहं कर्म गच्‍छति च क्रिया अस्ति । अस्मिन् लघु वाक्‍ये एक: कर्ता, एकं कर्म, एका क्रिया च अस्ति ।
सर्वतो लघु वाक्‍ये 'राम: गच्‍छति' इति - न्‍यूनातिन्‍यूनं एक: कर्ता, एका क्रिया च भवेत् । अस्‍य चर्चा पूर्वतने अध्‍याये कृता एव अस्ति ।


संस्‍कृते वाक्‍यनिर्माणे सप्‍तवस्‍तूनाम् आवश्‍यकता भवति । एतानि सप्‍तवस्‍तूनि एव सप्‍तविभक्‍तय: इति कथ्‍यन्‍ते । एतैरतिरिक्‍तं संस्‍कृते वाक्‍यस्‍य नास्ति अन्‍य: प्रकार: । केवलं संस्‍कृते एव न अपितु विश्‍वस्‍य कामपि भाषायाम् एत‍दतिरिक्‍तं अन्‍यविधया वाक्‍यनिर्माणं शक्‍यं न भवति ।

उदा -
राम: गच्‍छति (कर्ता, क्रिया) राम: गृहं गच्‍छति (कर्ता, कर्म, क्रिया) राम: यानेन गृहं गच्‍छति (कर्ता, करण, कर्म, क्रिया)राम: भोजनाय यानेन गृहं गच्‍छति (कर्ता,…